अध्यायः 034

ब्राह्मणेन ब्राह्मणीं प्रति स्वमाहात्म्यप्रकाशनम् ॥ 1 ॥

ब्राह्मण उवाच । 001
नाहं तथा भीरु चरामि लोके यथा त्वं मां तर्जयसे स्वबुद्ध्या । 001a
विप्रोऽस्मि मुक्तोऽस्मि वनेचरोऽस्मि गृहस्थधर्मा व्रतवांस्तथाऽस्मि ॥ 001c
नाहमस्मि यथा मां त्वं पश्यसे च शुभाशुभे । 002a
मया व्याप्तमिदं सर्वं यत्किञ्चिज्जगतीगतम् ॥ 002c
ये केचिज्जन्तवो लोके जङ्गमाः स्थावराश्च ह । 003a
तेषां मामन्तकं विद्धि दारूणामिव पावकम् ॥ 003c
राज्ये पृथिव्यां सर्वस्यामथवाऽपि त्रिविष्टपे । 004a
तथा बुद्धिरियं वेत्ति बुद्धिरेव धनं मम ॥ 004c
एकः पन्था ब्राह्मणानां येन गच्छन्ति तद्विदः । 005a
गृहेषु वनवासेषु गुरुवासेषु भिक्षुषु ॥ 005c
लिङ्गैर्बहुभिरव्यग्रैरेका बुद्धिरुपास्यते । 006a
नानालिङ्गाश्रमस्थानां येषां बुद्धिः शमात्मिका ॥ 006c
ते भावमेकमायान्ति सरितः सागरं यथा । 007a
बुद्ध्याऽयं गम्यते मार्गः शरीरेण न गम्यते । 007c
आद्यन्तवन्ति कर्माणि शरीरं कर्मबन्धनम् ॥ 007e
तस्मान्मे सुभगे नास्ति परलोककृतं भयम् । 008a
तद्भावभावनिरता ममैवाऽऽत्मानमेष्यसि ॥ ॥ 008c

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि चतुस्त्रिंशोऽध्यायः ॥ 34 ॥

14-34-3 तेषामन्तर्गतं विद्धि इति क.ध.पाठः ॥ 14-34-7 विद्ध्यन्तवन्ति कर्माणीति क.थ.पाठः ॥ 14-34-8 तस्मात्ते सुभगे इति झ.पाठः । मद्भावभावनिरता मामेवैष्यस्यथाऽऽत्मनेति क.पाठः ॥