अध्यायः 033

ब्राह्मणेन स्वभार्यां प्रति ममतावर्जनस्य पुरुषार्थसाधनतायां दृष्टान्ततया ब्राह्मणजनकसंवादानुवादः ॥ 1 ॥

ब्राह्मण उवाच । 001
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । 001a
ब्राह्मणस्य च संवादं जनकस्य च भामिनि ॥ 001c
ब्राह्मणं जनको राजा सन्नं कस्मिंश्चिदागसि । 002a
विषये मे न वस्तव्यमिति शिष्ट्यर्थमब्रवीत् ॥ 002c
इत्युक्तः प्रत्युवाचाथ ब्राह्मणो राजसत्तमम् । 003a
आचक्ष्व विषयं राजन्यावांस्तव वशे स्थितः ॥ 003c
सोऽन्यस्य विषये राज्ञो वक्तुमिच्छाम्यहं विभो । 004a
वचस्ते कर्तुमिच्छामि यथाशास्त्रं महीपते ॥ 004c
इत्युक्तस्तु तदा राजा ब्राह्मणेन यशस्विना । 005a
मुहुरुष्णं विनिःश्वस्य न किञ्चित्प्रत्यभाषत ॥ 005c
तमासीनं ध्यायमानं राजानममितौजसम् । 006a
कश्मलं सहसाऽगच्छद्भानुमन्तमिव ग्रहः ॥ 006c
समाश्वास्य ततो राजा विगते कश्मले तदा । 007a
ततो मुहूर्तादिव तं ब्राह्मणं वाक्यमब्रवीत् ॥ 007c
पितृपैतामहे राज्ये वश्ये जनपदे सति । 008a
विषयं नाधिगच्छामि विचिन्वन्पृथिवीमहम् ॥ 008c
नाध्यगच्छं यदा पृथ्व्यां मिथिला मार्गिता मया । 009a
नाध्यगच्छं यदा तस्यां स्वप्रजा मार्गिता मया ॥ 009c
नाध्यगच्छं यदा तस्यां तदा मे कश्मलोऽभवत् । 010a
ततो मे कश्मलस्यान्ते मतिः पुनरुपस्थिता ॥ 010c
तदा न विषयं मन्ये सर्वो वा विषयो मम । 011a
आत्माऽपि चायं न मम सर्वा वा पृथिवी मम ॥ 011c
यथा मम तथाऽन्येषामिति मन्ये द्विजोत्तम । 012a
उष्यतां यावदुत्साहो भुज्यतां यावदिष्यते ॥ 012c
ब्राह्मण उवाच । 013
पितृपैतामहे राज्ये वश्ये जनपदे सति । 013a
ब्रूहि कां मतिमास्थाय ममत्वं वर्जितं त्वया ॥ 013c
कां वै बुद्धिं समाश्रित्य सर्वो वै विषयस्तव । 014a
नावैषि विषयं येन सर्वो वा विषयस्तव ॥ 014c
जनक उवाच । 015
अन्तवन्त इहारम्भा विदिताः सर्वकर्मसु । 015a
नाध्यगच्छमहं तस्मान्ममेदमिति यद्भवेत् ॥ 015c
कस्येदमिति कस्य स्वमिति वेदवचस्तथा । 016a
नाध्यगच्छमहं बुद्ध्या ममेदमिति यद्भवेत् ॥ 016c
एतां बुद्धिं समाश्रित्य ममत्वं वर्जितं मया । 017a
शृणु बुद्धिं च यां ज्ञात्वा सर्वत्र विषयो मम ॥ 017c
नाहमात्मार्थमिच्छामि गन्धान्घ्राणगतानपि । 018a
तस्मान्मे निर्जिता भूमिर्वशे तिष्ठति नित्यदा ॥ 018c
नाहमात्मार्थमिच्छामि रसानास्येऽपि वर्ततः । 019a
आपो मे निर्जितास्तस्माद्वशे तिष्ठन्ति नित्यदा ॥ 019c
नाहमात्मार्थमिच्छामि रूपं ज्योतिश्च चक्षुषः । 020a
तस्मान्मे निर्जितं ज्योतिर्वशे तिष्ठति नित्यदा ॥ 020c
नाहमात्मार्थमिच्छामि स्पर्शांस्त्वचि गताश्च ये । 021a
तस्मान्मे निर्जितो वायुर्वशे तिष्ठति नित्यदा ॥ 021c
नाहमात्मार्थमिच्छामि शब्दाञ्श्रोत्रगतानपि । 022a
आकाशं मे जितं तस्माद्वशे तिष्ठति नित्यदा ॥ 022c
नाहमात्मार्थमिच्छामि मनो नित्यं मनोन्तरे । 023a
मनो मे निर्जितं तस्माद्वशे तिष्ठति नित्यदा ॥ 023c
देवेभ्यश्च पितृभ्यश्च भूतेभ्योऽतिथिभिः सह । 024a
इत्यर्थं सर्व एवेति समारम्भा भवन्ति वै ॥ 024c
ततः प्रहस्य जनकं ब्राह्मणः पुनरब्रवीत् । 025a
त्वज्जिज्ञासार्थमद्येह विद्धि मां धर्ममागतम् ॥ 025c
त्वमस्य ब्रह्मनाभस्य दुर्वारस्यानिवर्तिनः । 026a
सत्वनेमिनिरुद्धस्य चक्रस्यैकः प्रवर्तकः ॥ ॥ 026c

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि त्रयस्त्रिंशोऽध्यायः ॥ 33 ॥

14-33-1 अत्र लोभे निकृन्तनीये ॥ 14-33-2 क्लान्तं कस्मिंश्चिदागमे इति द.पाठः ॥ क्षान्तं कस्मिंश्चिदागमे इति क.ठ.थ.पाठः । शिष्यार्थमब्रवीदिति पाठान्तरम् ॥