अध्यायः 032
ब्राह्मणेन स्वभार्यां प्रति कामक्रोधादिपरित्यागपूर्वकं भगवदवबोधस्य परमपुरुषार्थसाधनतावबोधकाम्बरीषगीतगाथाकथनम् ॥ 1 ॥
ब्राह्मण उवाच । 001
त्रयो वै रिपवो लोके नवधा गुणतः स्मृताः । 001a
हर्षः स्तम्भोऽतिमानश्च त्रयस्ते सात्विका गुणाः ॥ 001c
शोकः क्रोधाभिसंरम्भो राजसास्ते गुणाः स्मृताः । 002a
स्वप्नस्तन्द्रा च मोहश्च त्रयस्ते तामसा गुणाः ॥ 002c
एतान्निकृत्य धृतिमान्बाणसङ्घैरतन्द्रितः । 003a
जेतुं परानुत्सहते प्रशान्तात्मा जितेन्द्रियः ॥ 003c
अत्र गाथाः कीर्तयन्ति पुराकल्पविदो जनाः । 004a
अम्बरीषेण या गीता राज्ञा राज्यं प्रशासता ॥ 004c
समुदीर्णेषु दोषेषु बाध्यमानेषु साधुषु । 005a
जग्राह तरसा राज्यमम्बरीष इति श्रुतिः ॥ 005c
स निगृह्याऽऽत्मनो दोषान्साधून्समभिपूज्य च । 006a
जगाम महतीं सिद्धिं गाथाश्चेमा जगाद ह ॥ 006c
भूयिष्ठं विजिता दोषा निहताः सर्वशत्रवः । 007a
एको दोषो वरिष्ठश्च वध्यः स न हतो मया ॥ 007c
यत्प्रयुक्तो जन्तुरयं वैतृष्ण्यं नाधिगच्छति । 008a
तृष्णार्त इव निम्नानि धावमानो न बुध्यते ॥ 008c
अकार्यमपि येनेह प्रयुक्तः सेवते नरः । 009a
तं लोभमसिभिस्तीक्ष्णैर्निकृत्य सुखमेधते ॥ 009c
लोभाद्धि जायते तृष्णा ततश्चिन्ता प्रवर्तते । 010a
स लिप्समानो लभते भूयिष्ठं राजसान्गुणान् । 010c
तदवाप्तौ तु लभते भूयिष्ठं तामसान्गुणान् ॥ 010e
स तैर्गुणैः संहतदेहबन्धनः पुनःपुनर्जायति कर्म चेहते । 011a
जन्मक्षये भिन्नविकीर्णदेहो मृत्युं पुनर्गच्छति जन्मनैव ॥ 011c
तस्मादेतं सम्यगवेक्ष्य लोभं निगृह्य धृत्याऽऽत्मनि राज्यमिच्छेत् । 012a
एतद्राज्यं नान्यदस्तीह राज्यमात्मैव राजा विदितो यथावत् ॥ 012c
इति राज्ञाऽम्बरीषेण गाथा गीता यशस्विना । 013a
आधिराज्यं पुरस्कृत्य लोभमेकं निकृन्तता ॥ ॥ 013c
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि द्वात्रिंशोऽध्यायः ॥ 32 ॥
14-32-1 गुणतः वृत्तिभेदात् ॥ 14-32-2 अभिसंरम्भो द्वेषाभिनिवेशः ॥ 14-32-3 निकृत्य च्छित्त्वा । बाणसङ्घैः शमादिभिः ॥ 14-32-11 पुनर्जायति चेह तत्फलम् । फलक्षये भिन्नविदीर्णदेहः पुनर्मृत्युं गच्छति चैव जन्मनीति क.थ.पाठः ॥ 14-32-12 नान्यदस्तीति विद्या यैश्चैष राजा विजितो मयैक इति क.थ.पाठः ॥