अध्यायः 031
परशुरामं प्रति तत्पितृभिः क्षत्रियवधान्निवर्तनायालर्कोपाख्यानकथनम् ॥ 1 ॥ रामेण तच्छ्रवणाद्धिंसातो निवर्त्य तपश्चरणम् ॥ 2 ॥
पितर ऊचुः । 001
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । 001a
श्रुत्वा च तत्तथा कार्यं भवता द्विजसत्तम ॥ 001c
अलर्को नाम राजर्षिरभवत्सुमहातपाः । 002a
धर्मज्ञः सत्यवादी च महात्मा सुदृढव्रतः ॥ 002c
स सागरान्तां धनुषा विनिर्जित्य महीमिमाम् । 003a
कृत्वा सुदुष्करं कर्म मनः सूक्ष्मे समादधे ॥ 003c
स्थितस्य वृक्षमूलेऽथ तस्य चिन्ता बभूव ह । 004a
उत्सृज्य सुमहद्राज्यं सूक्ष्मं प्रति महामते ॥ 004c
अलर्क उवाच । 005
मनसो मे बलं जातं मनो जित्वा ध्रुवो जयः । 005a
अन्यत्र बाणानस्यामि शत्रुभिः परिवारितः ॥ 005c
यदिदं चापलात्कर्म सर्वान्मर्त्यांश्चिकीर्षति । 006a
मनः प्रति सुतीक्ष्णाग्रानहं मोक्ष्यामि सायकान् ॥ 006c
मन उवाच । 007
नेमे बाणास्तरिष्यन्ति मामलर्क कथञ्चन । 007a
तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि ॥ 007c
अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि । 008a
तत्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत् ॥ 008c
आघ्राय सुबहून्गन्धांस्तानेव प्रतिगृध्यति । 009a
तस्माद्ध्राणं प्रति शरान्प्रतिमोक्ष्याम्यहं शितान् ॥ 009c
घ्राण उवाच । 010
नेमे बाणास्तरिष्यन्ति मामलर्क कथञ्चन । 010a
तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि ॥ 010c
अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि । 011a
तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत् ॥ 011c
इयं स्वादून्रसान्भुक्त्वा तानेव प्रति गृध्यति । 012a
तस्माज्जिह्वां प्रति शरान्प्रतिमोक्ष्याम्यहं शितान् ॥ 012c
जिह्वोवाच । 013
नेमे बाणास्तरिष्यन्ति मामलर्क कथञ्चन । 013a
तवैव मर्म भेत्स्यन्ति ततो हास्यसि जीवितम् ॥ 013c
अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि । 014a
तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत् ॥ 014c
स्पृष्ट्वा त्वग्विविधान्स्पर्शांस्तानेव प्रतिगृध्यति । 015a
तस्मात्त्वचं पाटयिष्ये विविधैः कङ्कपत्रिभिः ॥ 015c
त्वगुवाच । 016
नेमे बाणास्तरिष्यन्ति मामलर्क कथञ्चन । 016a
तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि ॥ 016c
अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि । 017a
तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत् ॥ 017c
श्रुत्वा तु विविधाञ्शब्दांस्तानेव प्रतिगृध्यति । 018a
तस्माच्छ्रोत्रं प्रति शरान्प्रति मुञ्चाम्यहं शितान् ॥ 018c
श्रोत्रमुवाच । 019
नेमे बाणास्तरिष्यन्ति मामलर्क कथञ्चन । 019a
तवैव मर्म भेत्स्यन्ति ततो हास्यसि जीवितम् ॥ 019c
अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि । 020a
तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत् ॥ 020c
दृष्ट्वा रूपाणि बहुशस्तान्येव प्रतिगृध्यति । 021a
तस्माच्चक्षुर्हनिष्यामि निशितैः सायकैरहम् ॥ 021c
चक्षुरुवाच । 022
नेमे बाणास्तरिष्यन्ति मामलर्क कथञ्चन । 022a
तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि ॥ 022c
अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यति । 023a
तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत् ॥ 023c
इयं निष्ठा बहुविधा प्रज्ञया त्वध्यवस्यति । 024a
तस्माद्बुद्धिं प्रति शरान्प्रतिमोक्ष्याम्यहं शितान् ॥ 024c
बुद्धिरुवाच । 025
नेमे बाणास्तरिष्यन्ति मामलर्क कथञ्चन । 025a
तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि । 025c
अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि ॥ 025e
पितर ऊचुः । 026
ततोऽलर्कस्तपो घोरं तत्रैवाऽऽस्थाय दुष्करम् । 026a
नाध्यगच्छत्परं शक्त्या बाणमेतेषु सप्तसु ॥ 026c
सुसमाहितचेतास्तु स ततोऽचिन्तयत्प्रभुः । 027a
स विचिन्त्य चिरं कालमलर्को द्विजसत्तम । 027c
नाध्यगच्छत्परं श्रेयो योगान्मतिमतांवरः ॥ 027e
स एकाग्रं मनः कृत्वा निश्चलो योगमास्थितः । 028a
इन्द्रियाणि जघानाऽऽशु बाणेनैकेन वीर्यवान् ॥ 028c
योगेनाऽऽत्मानमाविश्य सिद्धिं परमिकां गतः । 029a
विस्मितश्चापि राजर्षिरिमां गाथां जगाद ह ॥ 029c
अहो कष्टं यदस्माभिः सर्वं बाह्यमनुष्ठितम् । 030a
भोगतृष्णासमायुक्तैः पूर्वं राज्यमुपासितम् । 030c
इति पश्चान्मया ज्ञातं योगान्नास्ति परं सुखम् ॥ 030e
इति त्वमनुजानीहि राम मा क्षत्रियान्वधीः । 031a
तपो घोरमुपातिष्ठ ततः श्रेयोऽभिपत्स्यसे ॥ 031c
इत्युक्तः पितृभिः सोऽथ तपो घोरं समास्थितः । 032a
जामदग्न्यो महाभागे सिद्धिं च परमां गतः ॥ ॥ 032c
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि एकत्रिंशोऽध्यायः ॥ 31 ॥
14-31-1 अत्र हिंसाया अकार्यत्वे ॥ 14-31-5 अन्यत्र बाह्यशत्रुभ्य इति शेषः । शत्रुभिरिन्द्रियाख्यवैरिभिः ॥