अध्यायः 030

ब्राह्मणेन स्वभार्यां प्रति हिंसाया अकर्तव्यत्वे महर्षिवचसां प्रमाणीकरणोपयोगितया परशुरामचरित्रकथनारम्भः ॥ 1 ॥ रामेण कार्तवीर्ये निहते तदनुयायिभिर्जमदग्नेर्हननम् ॥ 2 ॥ ततः क्रुद्धेन रामेण त्रिःसप्तकृत्वः सर्वक्षत्रियहनने तत्पितृभी रामस्य परिसान्त्वप्रयतनम् ॥ 3 ॥

ब्राह्मण उवाच । 001
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । 001a
कार्तवीर्यस्य संवादं समुद्रस्य च भामिनि ॥ 001c
कार्तवीर्यार्जुनो नाम राजा बाहुसहस्रवान् । 002a
येन सागरपर्यन्ता धनुषा निर्जिता मही ॥ 002c
स कदाचित्समुद्रान्ते विचरन्बलदर्पितः । 003a
अवाकिरच्छरशतैः समुद्रमिति नः श्रुतम् ॥ 003c
तं समुद्रो नमस्कृत्य कृताञ्जलिरुवाच ह । 004a
मा मुञ्च वीर नाराचान्ब्रूहि किं करवाणि ते ॥ 004c
मदाश्रयाणि भूतानि त्वद्विसृष्टैर्महेषुभिः । 005a
वध्यन्ते राजशार्दूल तेभ्यो देह्यभयं विभो ॥ 005c
अर्जुन उवाच । 006
मत्समो यदि सङ्ग्रामे शरासनधरः क्वचित् । 006a
विद्यते तं समाचक्ष्व यः समो मे महामृधे ॥ 006c
समुद्र उवाच । 007
महर्षिर्जमदग्निस्ते यदि राजन्पुरा श्रुतः । 007a
तस्य पुत्रस्तवाऽऽतिथ्यं यथावत्कर्तुमर्हति ॥ 007c
ततः स राजा प्रययौ क्रोधेन महता वृतः । 008a
स तमाश्रममागम्य राममेवान्वपद्यत ॥ 008c
स रामप्रतिकूलानि चकार सह बन्धुभिः । 009a
आयासं जनयामास रामस्य च महात्मनः ॥ 009c
ततस्तेजः प्रजज्वाल रामस्यामिततेजसः । 010a
प्रदहन्रिपुसैन्यानि तदा कमललोचने ॥ 010c
ततः परशुमादाय स तं बाहुसहस्रिणम् । 011a
चिच्छेद सहसा रामो बहुशाखमिव द्रुमम् ॥ 011c
तं हतं पतितं दृष्ट्वा समेताः सर्वबान्धवाः । 012a
असीनादाय शक्तीश्च भार्गवं पर्यधावयन् ॥ 012c
रामोऽपि धनुरादाय रथमारुह्य सत्वरः । 013a
विसृजञ्शरवर्षाणि व्यधमत्पार्थिवं बलम् ॥ 013c
ततस्तु क्षत्रियाः केचिज्जमदग्निं निहत्य च । 014a
विविशुर्गिरिदुर्गाणि मृगाः सिंहार्दिता इव ॥ 014c
तेषां स्वविहितं कर्म तद्भयान्नानुतिष्ठताम् । 015a
प्रजा वृषलतां प्राप्ता ब्राह्मणानामदर्शनात् ॥ 015c
एवं ते द्रविडाऽभीराः पुण्ड्राश्च शबरैः सह । 016a
वृषलत्वं परिगता व्युत्थानात्क्षत्रधर्मतः ॥ 016c
ततश्च हतवीरासु क्षत्रियासु पुनः पुनः । 017a
द्विजैरुत्पादितं क्षत्रं जामदग्न्यो न्यकृन्तत ॥ 017c
एकविंशतिमे याते रामं वागशरीरिणी । 018a
दिव्या प्रोवाच मधुरा सर्वलोकपरिश्रुता ॥ 018c
रामराम निवर्तस्व कं गुणं तात पश्यसि । 019a
क्षत्रबन्धूनिमान्प्राणैर्विप्रयोज्य पुनः पुनः ॥ 019c
तथैव तं महात्मानमृचीकप्रमुखास्तदा । 020a
पितामहा महाभाग निवर्तस्वेत्यथाब्रुवन् ॥ 020c
पितुर्वधममृष्यंस्तु रामः प्रोवाच तानृषीन् । 021a
नार्हन्तीह भवन्तो मां निवारयितुमित्युत ॥ 021c
पितर ऊचुः । 022
नार्हसे क्षत्रबन्धूंस्त्वं निहन्तुं जयतांवर । 022a
नेह युक्तं त्वया हन्तुं ब्राह्मणेन सता नृपान् ॥ ॥ 022c

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि त्रिंशोऽध्यायः ॥ 30 ॥

14-30-15 तेषामुपरतं कर्मेति ट.पाठः ॥ 14-30-16 व्युत्थानात्क्षत्रधर्मिण इति झ.पाठः ॥