अध्यायः 029
कृष्णेनार्जुनं प्रति यागीयहिंसाया अधर्म्यत्वाभावप्रतिपादकाध्वर्युयतिसंवादानुवादः ॥ 1 ॥
ब्राह्मण उवाच । 001
गन्धान्न जिघ्रामि रासान्न वेद्मि रूपं न पश्यामि न च स्पृशामि । 001a
न चापि शब्दान्विविधाञ्शृणोमि न चापि सङ्कल्पमुपैमि कञ्चित् ॥ 001c
अर्थानिष्टान्कामयते स्वभावः सर्वान्द्वेष्यान्प्रद्विषते स्वभावः । 002a
कामद्वेषानुद्भवतः स्वभावात्प्राणापानौ जन्तुदेहान्निवेश्य ॥ 002c
तेभ्यश्चान्यांस्तेषु नित्यांश्च भावान्भूतात्मानं लक्षयेऽहं शरीरे । 003a
तस्मिंस्तिष्ठन्नास्मि सक्तः कथञ्चित्कामक्रोधाभ्यां जरया मृत्युना च ॥ 003c
अकामयानस्य च सर्वकामानविद्विषाणस्य च सर्वदोषान् । 004a
न मे स्वभावेषु भवन्ति लेपास्तोयस्य बिन्दोरिव पुष्करेषु ॥ 004c
नित्यस्य चैतस्य भवन्ति नित्या निरीक्ष्यमाणस्य बहून्स्वभावान् । 005a
न सज्जते कर्मसु भोगजालं दिवीव सूर्यस्य मयूखजालम् ॥ 005c
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । 006a
अध्वर्युयतिसंवादं तं निबोध यशस्विनि ॥ 006c
प्रोक्ष्यमाणं पशुं दृष्ट्वा यज्ञकर्मण्यथाब्रवीत् । 007a
यतिरध्वर्युमासीनो हिंसोऽयमिति कुत्सयन् ॥ 007c
तमध्वर्युः प्रत्युवाच नायं छागो विनश्यति । 008a
श्रेयसा योक्ष्यते जन्तुर्यज्ञाच्छ्रुतिरियं तथा ॥ 008c
यो ह्यस्य पार्थिवो भागः पृथिवीं स गमिष्यति । 009a
यदस्य वारिजं किञ्चिदपस्तत्सम्प्रवेक्ष्यति ॥ 009c
सूर्यं चक्षुर्दिशः श्रोत्रे प्राणोऽस्य दिवमेव च । 010a
आगमे वर्तमानस्य न मे दोषोस्ति कश्चन ॥ 010c
यतिरुवाच । 011
प्राणैर्वियोगे च्छागस्य यदि श्रेयः प्रपश्यसि । 011a
छागार्थे वर्तते यज्ञो भवतः किं प्रयोजनम् ॥ 011c
अनु त्वां मन्यते माता अनु त्वां मन्यते पिता । 012a
मन्त्रविज्ञानमुन्नीय परिवर्ते विशेषतः ॥ 012c
एवमेवानुमन्येरंस्तान्भवान्द्रष्टुमर्हति । 013a
तेषामनुमतिं श्रुत्वा शक्या कर्तुं विचारणा ॥ 013c
अध्वर्युरुवाच । 014
प्राणा अप्यस्य च्छागस्य प्रापितास्ते स्वयोनिषु । 014a
शरीरं केवलं शिष्टं निश्चेष्टमिति मे मतिः ॥ 014c
इन्धनस्य तु तुल्येन शरीरेणि विचेतसा । 015a
हिंसा हि यष्टुकामानामिन्धनं पशुसञ्ज्ञितम् ॥ 015c
अहिंसा सर्वधर्माणामिति वृद्धानुशासनम् । 016a
यदहिंस्रं भवेत्कर्म तत्कार्यमिति विद्महे ॥ 016c
अहिंसेति प्रतिज्ञेयं यदि वक्ष्याम्यतः परम् । 017a
शक्यं बहुविधं वक्तुं भवता कार्यदूषणम् ॥ 017c
अहिंसा सर्वभूतानां नित्यमस्मासु रोचते । 018a
प्रत्यक्षतः साधयामो न परोक्षमुपास्महे ॥ 018c
अध्वर्युरुवाच । 019
भूमेर्गन्धगुणान्भुङ्क्ष्व पिबस्यापोमयान्रसान् । 019a
ज्योतिषां पश्यसे रूपं स्पृशस्यनिलजान्गुणान् ॥ 019c
शृणोष्याकाशजाञ्शब्दान्मनसा मन्यसे मतिम् । 020a
सर्वाण्येतानि भूतानि प्राणा इति च मन्यसे ॥ 020c
प्राणादाने निवृत्तोऽसि हिंसायां वर्तते भवान् । 021a
नास्ति चेष्टा विना हिंसां किं वा त्वं मन्यसे द्विज ॥ 021c
यतिरुवाच । 022
अक्षरं च क्षरं चैव द्वैधीभावोऽयमात्मनः । 022a
अक्षरं तत्र सद्भावः स्वभावः क्षर उच्यते ॥ 022c
प्राणो जिह्वा मनः सत्त्वं सद्भावो रजसा सह । 023a
भावैरेतैर्विमुक्तस्य निर्द्वन्द्वस्य निराशिषः ॥ 023c
समस्य सर्वभूतेषु निर्ममस्य जितात्मनः । 024a
समन्तात्परिमुक्तस्य न भयं विद्यते क्वचित् ॥ 024c
अध्वर्युरुवाच । 025
सद्भिरेवेह संवादः कार्यो मतिमतांवर । 025a
भवतो हि मतं श्रुत्वा प्रतिभाति मतिर्मम ॥ 025c
भगवन्भगवद्बुद्ध्या प्रतिबुद्धो ब्रवीम्यहम् । 026a
व्रतं मन्त्रकृतं कर्तुर्नापराधोऽस्ति मे द्विज ॥ 026c
ब्राह्मण उवाच । 027
उपपत्त्या यतिस्तूष्णीं वर्तमानस्ततः परम् । 027a
अध्वर्युरपि निर्मोहः प्रचचार महामखे ॥ 027c
एवमेतादृशं मोक्षं सुसूक्ष्मं ब्राह्मणा विदुः । 028a
विदित्वा चानुतिष्ठन्ति क्षेत्रज्ञेनार्थदर्शिना ॥ ॥ 028c
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि एकोनत्रिंशोऽध्यायः ॥ 29 ॥
14-29-2 सर्वानेतान्द्वेष्टि चैव स्वभाव इति क.ट.थ.पाठः । जन्तुदेहानिहैत्येति क.ट.थ.पाठः ॥ 14-29-3 नास्मि शक्यः कथञ्चिदिति क.ट.थ.पाठः ॥ 14-29-12 अत्र त्वां मन्यतां भ्राता पिता माता सखेति च । मन्त्रयस्वैनमुन्नीय परवन्तं विशेषत इति झ.द.पाठः ॥ 14-29-19 भूमेरिति नानुपहत्य भूतानि भोगः सम्भवतीति न्यायाज्जीवतोऽपरिहार्यैव हिंसेत्यर्थः ॥ 14-29-21 किं कथं त्वं मन्यसेऽहिंसामिति शेषः ॥ 14-29-26 मतं मन्तुं क्रतुं कर्तुमिति थ.पाठः ॥