अध्यायः 027
कृष्णेन युधिष्ठिरम्प्रति प्रजापतिना एकेनैव शब्देन परब्रह्मोपदेशे देवर्ष्यादीनां स्वस्वयोग्यतानुसारेण नानार्थावगमप्रतिपादकब्राह्मणदम्पतिसंवादानुवादः ॥ 1 ॥
ब्राह्मण उवाच । 001
एकः शास्ता न द्वितीयोऽस्ति शास्ता यो हृच्छयस्तमहमनु ब्रवीमि । 001a
तेनैव युक्तः प्रवणादिवोदकं यथा नियुक्तोऽस्मि तथा वहामि ॥ 001c
एको गुरुर्नास्ति ततो द्वितीयो यो हृच्छयस्तमहमनु ब्रवीमि । 002a
तेनानुशिष्टा गुरुणा सदैव पुरा हता दानवाः सर्व एव ॥ 002c
एको बन्धुर्नास्ति ततो द्वितीयो यो हृच्छयस्तमहमनु ब्रवीमि । 003a
तेनानुशिष्टा बान्धवा बन्धुमन्तः सप्तर्षयः पार्थ दिवि प्रभान्ति ॥ 003c
एकः श्रोता नास्ति ततो द्वितीयो यो हृच्छयस्तमहमनु ब्रवीमि । 004a
तस्मिन्गुरौ गुरुवासं निरुष्य शक्रो गतः सर्वलोकामरत्वम् ॥ 004c
एको द्वेष्टा नास्ति ततो द्वितीयो यो हृच्छयस्तमहमनु ब्रवीमि । 005a
तेनानुशिष्टा गुरुणा सदैव लोके द्विष्टाः पन्नगाः सर्व एव ॥ 005c
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । 006a
प्रजापतौ पन्नगानां देवर्षीणां च संविदम् ॥ 006c
देवर्षयश्च नागाश्चाप्यसुराश्च प्रजापतिम् । 007a
पर्यपृच्छन्नुपासीनं श्रेयोः नः प्रोच्यतामिति ॥ 007c
तेषां प्रोवाच भगवाञ्श्रेयः समनुपृच्छताम् । 008a
ओमित्येकाक्षरं ब्रह्म ते श्रुत्वा प्राद्रवन्दिशः ॥ 008c
तेषां प्रद्रवमाणानामुपदेशं च शृण्वताम् । 009a
सर्पाणां दंशने भावः प्रवृत्तः पूर्वमेव तु ॥ 009c
असुराणां प्रवृत्तस्तु दम्भभावः स्वभावजः । 010a
दानं देवा व्यवसिता दममेव महर्षयः ॥ 010c
एकं शास्तारमासाद्य शब्देनैकेन संस्कृताः । 011a
नानाव्यवसिताः सर्वे सर्पदेवर्षिदानवाः ॥ 011c
शृणोत्ययं प्रोच्यमानं गृह्णाति च यथातथम् । 012a
पृच्छतस्तदतो भूयो गुरुरन्यो न विद्यते ॥ 012c
तस्य चानुमते कर्म ततः पश्चात्प्रवर्तते । 013a
गुरुर्बन्धुश्च शास्ता च द्वेष्टा च हृदि संश्रिताः ॥ 013c
पापेन विचरल्ँलोके पापचारी भवत्ययम् । 014a
शुभेन विचरल्ँलोके शुभचारी भवत्युत ॥ 014c
कामचारी तु कामेन य इन्द्रियसुखे रतः । 015a
ब्रह्मचारी सदैवैष य इन्द्रियजये रतः ॥ 015c
अपेतव्रतकर्मा तु केवलं ब्रह्मणि स्थितः । 016a
ब्रह्मभूतश्चरल्ँलोके ब्रह्मचारी भवत्ययम् ॥ 016c
ब्रह्मैव समिधस्तस्य ब्रह्माग्निर्ब्रह्मसंस्तरः । 017a
आपो ब्रह्म गुरुर्ब्रह्म स ब्रह्मणि समाहितः ॥ 017c
एतदेवेदृशं सूक्ष्मं ब्रह्मचर्यं विदुर्बुधाः । 018a
विदित्वा चान्वपद्यन्त क्षेत्रज्ञेनानुदर्शिताः ॥ ॥ 018c
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि सप्तविंशोऽध्यायः ॥ 27 ॥
14-27-1 एकः शास्ता न द्वितीयोऽस्ति कश्चिद्यथा नियुक्तोऽस्मि तथा चरामि । हृद्येष तिष्ठन्पुरुषः शास्ति शास्ता तेनानुयुक्तः प्रवणादिवोदकमिति क.ट.द.पाठः ॥ 14-27-7 देवाश्च ऋषयश्चेति द्वन्द्वः ॥ 14-27-8 प्राद्रवन्प्रतिपेदिरे । दिशो बहून्मार्गान् ॥ 14-27-13 गुरुर्बोद्धा च श्रोता च द्वेष्टा च हृदि निःसृत इति झ.पाठः ॥