अध्यायः 026
कृष्णेन युधिष्ठिरं प्रति कर्तृकर्मादिप्रतिपादकब्राह्मणदम्पतिसंवादानुवादः ॥ 1 ॥
ब्राह्मण उवाच । 001
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । 001a
चातुर्होत्रविधानस्य विधानमिह यादृशम् ॥ 001c
तस्य सर्वस्य विधिवद्विधानमुपदेक्ष्यते । 002a
शृणु मे गदतो भद्रे रहस्यमिदमुद्भुतम् ॥ 002c
करणं कर्म कर्ता च मोक्ष इत्येव भामिनि । 003a
चत्वार एते होतारो यैरिदं जगदावृतम् ॥ 003c
होतॄणां साधनं चैव शृणु सर्वमशेषतः । 004a
घ्राणं जिह्वा च चक्षुश्च त्वक्च श्रोत्रं च पञ्चमम् । 004c
मनो बुद्धिश्च सप्तैते ज्ञेयाः कारणहेतवः ॥ 004e
गन्धो रसश्च रूपं च शब्दः स्पर्शश्च पञ्चमः । 005a
मन्तव्यमवबोद्धव्यं सप्तैते कर्महेतवः ॥ 005c
घ्राता भक्षयिता द्रष्टा स्प्रष्टा श्रोता च पञ्चमः । 006a
मन्ता बोद्धा च सप्तैते विज्ञेयाः कर्तृहेतवः ॥ 006c
स्वगुणान्भक्षयन्त्येते गुणवन्तः शुभाशुभान् । 007a
असन्तो निर्गुणाश्चैते सप्तैते मोक्षहेतवः ॥ 007c
विदुषां बुध्यमानानां स्वंस्वं स्थानं यथाविधि । 008a
गुणास्ते देवता भूत्वा सततं भुञ्जते हविः ॥ 008c
'अदन्हवींषि चान्नानि ममत्वेन विहन्यते ।' 009a
आत्मार्थे पाचयन्नन्नं ममत्वेनोपहन्यते ॥ 009c
अभक्ष्यभक्षणं चैव मद्यपानं च हन्ति तम् । 010a
स चान्नं हन्ति तं चान्नं स हत्वा हन्यते पुनः ॥ 010c
हन्ता ह्यन्नमिदं विद्वान्पुनर्जनयतीश्वरः । 011a
न चान्नाज्जायते तस्मिन्सूक्ष्मो नाम व्यतिक्रमः ॥ 011c
मनसा मन्यते यच्च यच्च वाचा निगद्यते । 012a
श्रोत्रेण श्रूयते यच्च चक्षुषा यच्च दृश्यते ॥ 012c
स्पर्शेन स्पृश्यते यच्च घ्राणेन घ्रायते च यत् । 013a
मनस्येतानि संयम्य हवींष्येतानि सर्वशः ॥ 013c
गुणवत्पावको मह्यं दीप्यतेऽन्तःशरीरगः । 014a
योगयज्ञः प्रवृत्तो मे ज्ञानं ब्रह्ममयो हविः । 014c
प्राणस्तोत्रोऽपानशस्त्रः सर्वत्यागसुदक्षिणः ॥ 014e
कर्ताऽनुमन्ता ब्रह्मात्मा होताऽध्वर्युः कृतस्तुतिः । 015a
ऋतं प्रशास्ता तच्छस्त्रमपवर्गोऽस्य दक्षिणा ॥ 015c
ऋचश्चाप्यत्र शंसन्ति नारायणविदो जनाः । 016a
नारायणाय देवाय यदविन्दन्पशून्पुरा ॥ 016c
तत्र सामानि गायन्ति तत्र चाहुर्निदर्शनम् । 017a
देवं नारायणं भीरु सर्वात्मानं निबोध तम् ॥ ॥ 017c
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि षड्विंशोऽध्यायः ॥ 26 ॥
14-26-11 अद्यमन्नमदन्नह्नि पुनरिति क.पाठः ॥ 14-26-14 दीप्यते हव्यवाहन इति क.ट.थ.पाठः ॥