अध्यायः 025

कृष्णेनार्जुनं प्रति ब्राह्मणेन ब्राह्मणीं प्रत्युक्तसृष्ट्यादिप्रतिपादकनारददेवमतसंवादानुवादः ॥ 1 ॥

ब्राह्मण उवाच । 001
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । 001a
नारदस्य च संवादमृषेर्देवमतस्य च ॥ 001c
देवमत उवाच । 002
जन्तोः सञ्जायमानस्य किन्नु पूर्वं प्रवर्तते । 002a
प्राणोऽपानः समानो वा व्यानो वोदान एव च ॥ 002c
नारद उवाच । 003
येनायं सृज्यते जन्तुस्ततोऽन्यः पूर्वमेति तम् । 003a
प्राणद्वन्द्वं हि विज्ञेयं तिर्यगूर्ध्वमधश्च यत् ॥ 003c
देवमत उवाच । 004
केनायं सृज्यते जन्तुः कश्चान्यः पूर्वमेति तम् । 004a
प्राणद्वन्द्वं च मे ब्रूहि तिर्यगूर्ध्वमधश्च यत् ॥ 004c
नारद उवाच । 005
सङ्कल्पाज्जायते हर्षः शब्दादपि च जायते । 005a
रसात्सञ्जायते चापि रूपादपि च जायते ॥ 005c
'स्पर्शात्सञ्जायते चापि गन्धादपि च जायते ।' 006a
शुक्राच्छोणितसंसृष्टात्पूर्वं प्राणः प्रवर्तते । 006c
प्राणेन विकृते शुक्रे ततोऽपानः प्रवर्तते ॥ 006e
शुक्रात्सञ्जायते चापि रसादपि च जायते । 007a
एतद्रूपमुदानस्य हर्षो मिथुनमन्तरा ॥ 007c
कामात्सञ्जायते शुक्रं शुक्रात्सञ्जायते रजः । 008a
समानव्यानजनिते सामान्ये शुक्रशोणिते ॥ 008c
प्राणापानाविदं द्वन्द्वमवाक् चोर्ध्वं च गच्छतः । 009a
व्यानः समानश्चैवोभौ तिर्यग्द्वन्द्वत्वमुच्यते ॥ 009c
अग्निर्वै देवताः सर्वा इति देवस्य शासनात् । 010a
सञ्जायते हि प्राणेषु ज्ञानं बुद्धिसमन्वितम् ॥ 010c
तस्य धूमस्तमोरूपं रजो भस्म सुतेजसः । 011a
सर्वं सञ्जायते तस्य यत्र प्रक्षिप्यते हविः ॥ 011c
हविः समानो व्यानश्च इति यज्ञविदो विदुः । 012a
प्राणापानावाज्यभागौ तयोर्मध्ये हुताशनः ॥ 012c
एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः । 013a
निर्द्वन्द्वमिति यत्त्वेतत्तन्मे निगदतः शृणु ॥ 013c
अहोरात्रमिदं द्वन्द्वं तयोर्मध्ये हुताशनः । 014a
एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः ॥ 014c
'उभे सत्यानृते द्वन्द्वं तयोर्मध्ये हुताशनः । 015a
एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः ॥' 015c
सच्चासच्चैव तद्द्वन्द्वं तयोर्मध्ये हुताशनः । 016a
एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः ॥ 016c
'उभे शुभाशुभे द्वन्द्वं तयोर्मध्ये हुताशनः । 017a
एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः ॥' 017c
ऊर्ध्वं समानो व्यानश्च व्यस्यते कर्म तेन तत् । 018a
द्वितीयं तु समानेन पुनरेव व्यवस्यते ॥ 018c
शान्त्यर्थं वामदेव्यं च शान्तिर्ब्रह्म सनातनम् । 019a
एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः ॥ ॥ 019c

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि पञ्चविंशोऽध्यायः ॥ 25 ॥

14-25-18 पूर्वं समानो व्यानोऽथ व्यस्यते तेन कर्मकृत् इति क.ट.पाठः ॥