अध्यायः 024
कृष्णेनार्जुनं प्रति प्राणापानादीनां स्वस्वश्रैष्ठ्यप्रकारकविवादादिप्रतिपादकब्राह्मणदम्पतिसंवादानुवादः ॥ 1 ॥
ब्राह्मण उवाच । 001
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । 001a
सुभगे पञ्चहोतॄणां विधानमिह यादृशम् ॥ 001c
प्राणापानावुदानश्च समानो व्यान एव च । 002a
पञ्चहोतॄंस्तथैतान्वै परं भावं विदुर्बुधाः ॥ 002c
ब्राह्मण्युवाच । 003
स्वभावात्सप्तहोतार इति मे पूर्विका मतिः । 003a
यथा वै पञ्च होतारः परो भावस्तदुच्यताम् ॥ 003c
ब्राह्मण उवाच । 004
प्राणेन सम्भृतो वायुरपानो जायते ततः । 004a
अपाने सम्भृतो वायुस्ततो व्यानः प्रवर्तते ॥ 004c
व्यानेन सम्भृतो वायुस्ततोदानः प्रवर्तते । 005a
उदाने सम्भृतो वायुः समानो नाम जायते ॥ 005c
तेऽपृच्छन्त पुरो गत्वा पूर्वजातं पितामहम् । 006a
यो नः श्रेष्ठस्तमाचक्ष्व स नः श्रेष्ठो भविष्यति ॥ 006c
ब्रह्मोवाच । 007
यस्मिन्प्रलीने प्रलयं व्रजन्ति सर्वे प्राणाः प्राणभृतां शरीरे । 007a
यस्मिन्प्रवृत्ते च पुनश्चरन्ति स वै श्रेष्ठो गच्छत यत्र कामः ॥ 007c
प्राण उवाच । 008
मयि प्रलीने प्रलयं व्रजन्ति सर्वे प्राणाः प्राणभृतां शरीरे । 008a
मयि प्रवृत्ते च पुनश्चरन्ति श्रेष्ठो ह्यहं पश्यत मां प्रलीनम् ॥ 008c
ब्राह्मण उवाच । 009
प्राणः प्रालीयत ततः पुनश्च प्रचचार ह । 009a
समानश्चाप्युदानश्च वचो ब्रूतां पुनः शुभे ॥ 009c
न त्वं सर्वमिदं व्याप्य तिष्ठसीह यथा वयम् । 010a
न त्वं श्रेष्ठो हि नः प्राण अपानो हि वशे तव । 010c
प्रचचार पुनः प्राणस्ततोऽपानोऽभ्यभाषत ॥ 010e
अपान उवाच । 011
मयि प्रलीने प्रलयं व्रजन्ति सर्वे प्राणाः प्राणभृतां शरीरे 011a
मयि प्रवृत्ते च पुनश्चरन्ति श्रेष्ठो ह्यहं पश्यत मां प्रलीनम् ॥ 011c
ब्राह्मण उवाच । 012
व्यानश्च तमुदानश्च भाषमाणमथोचतुः । 012a
अपान न त्वं श्रेष्ठोऽसि प्राणो हि वशगस्तव ॥ 012c
अपानः प्रचचाराथ व्यानस्तं पुनरब्रवीत् । 013a
श्रेष्ठोऽहमस्मि सर्वेषां श्रूयतां येन हेतुना ॥ 013c
मयि प्रलीने प्रलयं व्रजन्ति सर्वे प्राणाः प्राणभृतां शरीरे । 014a
मयि प्रवृत्ते च पुनश्चरन्ति श्रेष्ठो ह्यहं पश्यत मां प्रलीनम् ॥ 014c
ब्राह्मण उवाच । 015
प्रालीयत ततो व्यानः पुनश्च प्रचचार ह । 015a
प्राणापानावुदानश्च समानश्च तमब्रुवन् ॥ 015c
न त्वं श्रेष्ठोऽसि नो व्यान समानस्तु वशे तव । 016a
प्रचचार पुनर्व्यानः समानः पुनरब्रवीत् । 016c
श्रेष्ठोऽहमस्मि सर्वेषां श्रूयतां येन हेतुना ॥ 016e
मयि प्रलीने प्रलयं व्रजन्ति सर्वे प्राणाः प्राणभृतां शरीरे । 017a
मयि प्रवृत्ते च पुनश्चरन्ति श्रेष्ठो ह्यहं पश्यत मां प्रलीनम् ॥ 017c
'ततः समानः प्रालिल्ये पुनश्च प्रचचार ह । 018a
प्राणापानावुदानश्च व्यानश्चैव तमब्रवीत् । 018c
न त्वं समान श्रेष्ठोऽसि व्यान एव वशे तव ॥' 018e
समानः प्रचचाराथ उदानस्तमुवाच ह । 019a
श्रेष्ठोऽहमस्मि सर्वेषां श्रूयतां येन हेतुना ॥ 019c
मयि प्रलीने प्रलयं व्रजन्ति सर्वे प्राणाः प्राणभृतां शरीरे । 020a
मयि प्रवृत्ते च पुनश्चरन्ति श्रेष्ठो ह्यहं पश्यत मां प्रलीनम् ॥ 020c
ततः प्रालीयतोदानः पुनश्च प्रचचार ह । 021a
प्राणापानौ समानश्च व्यानश्चैव तमब्रुवन् । 021c
उदान न त्वं श्रेष्ठोऽसि व्यान एव वशे तव ॥ 021e
ब्राह्मण उवाच । 022
ततस्तानब्रवीत्सर्वान्स्मयमानः प्रजापतिः । 022a
सर्वे श्रेष्ठा न च श्रेष्ठाः सर्वे चान्योन्यकाङ्क्षिणः ॥ 022c
सर्वे स्वविषये श्रेष्ठाः सर्वे चान्योन्यधर्मिणः । 023a
इति तानब्रवीत्सर्वान्समवेतान्प्रजापतिः ॥ 023c
एकः स्थिरश्चराश्चान्ये विशेषात्पञ्च वायवः । 024a
एक एव च सर्वात्मा बहुधाऽप्युपचीयते ॥ 024c
परस्परस्य सुहृदो भावयन्तः परस्परम् । 025a
स्वस्ति व्रजत भद्रं वो धारयध्वं परस्परम् ॥ ॥ 025c
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि चतुर्विंशोऽध्यायः ॥ 24 ॥
14-24-24 बहुधाऽप्युपलीयते इति क.थ.पाठः ॥