अध्यायः 023

कृष्णेनार्जुनं प्रति पृथग्घ्राणादीन्द्रियगुणप्रतिपादनपूर्वकं तेषां मनसा सह विवादप्रतिपादकब्राह्मणदम्पतिसंवादानुवादः ॥ 1 ॥

ब्राह्मण उवाच । 001
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । 001a
सुभगे सप्तहोतॄणां विधानमिह यादृशम् ॥ 001c
घ्राणश्चक्षुश्च जिह्वा च त्वक् श्रोत्रं चैव पञ्चमम् । 002a
मनो बुद्धिश्च सप्तैते होतारः पृथगाश्रिताः ॥ 002c
सूक्ष्माकाशे समं प्राप्ते न पश्यन्तीतरेतरम् । 003a
एतद्वै सप्तहोतृत्वं स्वभावाद्विद्धि शोभने ॥ 003c
ब्राह्मण्युवाच । 004
सूक्ष्मे तु काशे सम्प्राप्ते कथं नान्योन्यदर्शिनः । 004a
कथं स्वभावाद्भगवन्नेतदाचक्ष्व मे प्रभो ॥ 004c
ब्राह्मण उवाच । 005
गुणज्ञानेषु विज्ञानं गुणज्ञानामभिज्ञता । 005a
परस्परं गुणानेते नाभिजानन्ति कर्हिचित् ॥ 005c
जिह्वा चक्षुस्तथा श्रोत्रं त्वङ्मनो बुद्धिरेव च । 006a
न गन्धानधिगच्छन्ति घ्राणस्तानधिगच्छति ॥ 006c
घ्राणं चक्षुस्तथा श्रोत्रं त्वङ्मनो बुद्धिरेव च । 007a
न रसानधिगच्छन्ति जिह्वा तानधिगच्छति ॥ 007c
घ्राणं जिह्वा तथा श्रोत्रं त्वङ्मनो बुद्धिरेव च । 008a
न रूपाण्यधिगच्छन्ति चक्षुस्तान्यधिगच्छति ॥ 008c
घ्राणं जिह्वा ततश्चक्षुः श्रोत्रं बुद्धिर्मनस्तथा । 009a
न स्पर्शानधिगच्छन्ति त्वक्च तानधिगच्छति ॥ 009c
घ्राणं जिह्वा च चक्षुश्च त्वङ्मनो बुद्धिरेव च । 010a
न शब्दानधिगच्छन्ति श्रोत्रं तानधिगच्छति ॥ 010c
घ्राणं जिह्वा च चक्षुश्च त्वक् श्रोत्रं बुद्धिरेव च । 011a
सङ्कल्पान्नाधिगच्छन्ति मनस्तानधिगच्छति ॥ 011c
घ्राणं जिह्वा च चक्षुश्च त्वक् श्रोत्रं मन एव च । 012a
न निष्ठामधिगच्छन्ति बुद्धिस्तामधिगच्छति ॥ 012c
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । 013a
इन्द्रियाणां च संवादं मनसश्चैव भामिनि ॥ 013c
मन उवाच । 014
नाघ्राति मामृते घ्राणं रसं जिह्वा न वेत्ति च । 014a
रूपं चक्षुर्न गृह्णाति त्वक् स्पर्शं नावबुध्यते ॥ 014c
न श्रोत्रं बुध्यते शब्दं मया हीनं कथञ्चन । 015a
प्रवरं सर्वभूतानामहमस्मि सनातनम् ॥ 015c
अगाराणीव शून्यानि शान्तार्चिष इवाग्नयः । 016a
इन्द्रियाणि न भासन्ते मया हीनानि नित्यशः ॥ 016c
काष्ठानीवार्द्रशुष्काणि यतमानैरपीन्द्रियैः । 017a
गुणार्थान्नाधिगच्छन्ति मामृते सर्वजन्तवः ॥ 017c
इन्द्रियाण्यूचुः । 018
एवमेतद्भवेत्सत्यं यथैतन्मन्यते भवान् । 018a
ऋतेऽस्मानस्मदर्थांस्त्वं भोगान्भुङ्क्ते भवान्यदि ॥ 018c
यद्यस्मासु प्रलीनेषु तर्पणं प्राणधारणम् । 019a
भोगान्भुङ्क्ते भवान्सत्यं यथैतन्मन्यते तथा ॥ 019c
अथवाऽस्मासु लीनेषु तिष्ठत्सु विषयेषु च । 020a
यदि सङ्कल्पमात्रेण भुङ्क्ते भोगान्यथार्थवत् ॥ 020c
अथ चेन्मन्यसे सिद्धिमस्मदर्थेषु नित्यदा । 021a
घ्राणेन रूपमादत्स्व रसमादत्स्व चक्षुषा ॥ 021c
श्रोत्रेण गन्धानादत्स्व स्पर्शानादत्स्व जिह्वया । 022a
त्वचा च शब्दमादत्स्व बुद्ध्या स्पर्शमथापि च ॥ 022c
बलवन्तो ह्यनियमा नियमा दुर्बलीयसाम् । 023a
भोगानपूर्वानादत्स्व नोच्छिष्टं भोक्तुमर्हति ॥ 023c
यथा हि शिष्यः शास्तारं श्रुत्यर्थमभिधावति । 024a
ततः श्रुतमुपादाय श्रुतार्थमुपतिष्ठति ॥ 024c
विषयानेवमस्माभिर्दर्शितानभिमन्यसे । 025a
अनुभूतानतीतांश्च स्वप्ने जागरणे तथा ॥ 025c
वैमनस्यं गतानां च जन्तूनामल्पचेतसाम् । 026a
अस्मदर्थे कृते दृश्यते प्राणधारणम् ॥ 026c
बहूनपि हि सङ्कल्पान्मत्वा स्वप्नानुपास्य च । 027a
बुभुक्षया पीड्यमानो विषयानेन धावति ॥ 027c
अगारमद्वारमिव प्रविश्य सङ्कल्पभोगान्विषयानविन्दन् । 028a
प्राणक्षये शान्तिमुपैति नित्यं दारुक्षयेऽग्निर्ज्वलितो यथैव ॥ 028c
कामं तु नष्टेषु गुणेषु सङ्गः कामं च नान्योन्यगुणोपलब्धिः । 029a
अस्मान्विना नास्ति तपोपलब्धिस्तामप्यृते त्वां न भजेत्प्रहर्षः ॥ ॥ 029c

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि त्रयोविंशोऽध्यायः ॥ 23 ॥