अध्यायः 022
कृष्णेनार्जुनं प्रति दशेन्द्रियगुणादिप्रतिपादकब्राह्मणदम्पतिसंवादानुवादः ॥ 1 ॥
ब्राह्मण उवाच । 001
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । 001a
निबोध दशहोतॄणां विधानमिह यादृशम् ॥ 001c
श्रोत्रं त्वक्चक्षुषी जिह्वा नासिका चरणौ करौ । 002a
उपस्थं पायुरिति वाग्घोतॄणि दश भामिनि ॥ 002c
शब्दस्पर्शौ रूपरसौ गन्धो वाक्यं क्रिया गतिः । 003a
रेतोमूत्रपुरीषाणां त्यागो दश हवींषि च ॥ 003c
दिशो वायू रविश्चन्द्रः पृथ्व्यग्नी विष्णुरेव च । 004a
इन्द्रः प्रजापतिर्मित्रमग्नयो दश भामिनि ॥ 004c
दशेन्द्रियाणि होतॄणि हवींषि दश भामिनि । 005a
विषया नाम समिधो हूयन्ते तु दशाग्निषु ॥ 005c
चित्तं स्रुवश्च वित्तं च पवित्रं ज्ञानमुत्तमम् । 006a
सुविभक्तमिदं पूर्वं जगदासीदिति श्रुतम् ॥ 006c
'ततो विविक्ता वित्तासीत्सा वित्तं पर्यवेक्षते ।' 007a
सर्वमेवात्र विज्ञेयं चित्ते ज्ञानमवेक्षता । 007c
रेतः शरीरभृत्काये विज्ञाता तु शरीरभृत् ॥ 007e
शरीरभृद्गार्हपत्यस्तस्मादग्निः प्रणीयते । 008a
मनश्चाहवनीयस्तु तस्मिन्प्रक्षिप्यते हविः ॥ 008c
ततो वाचस्पतिर्जज्ञे तं मनः पर्यवेक्षते । 009a
रूपं भवति वै वक्त्रं तदनुद्रवते मनः ॥ 009c
ब्राह्मण्युवाच । 010
कस्माद्वागभवत्पूर्वं कस्मात्पश्चान्मनोऽभवत् । 010a
मनसा चिन्तितं पूर्वं वाक्यं समभिपद्यते ॥ 010c
केन विज्ञानयोगेन मतिश्चित्तं समास्थिता । 011a
समुन्नीता नाध्यगच्छत्को वै तां प्रतिबाधते ॥ 011c
ब्राह्मण उवाच । 012
तन्मनस्थः पतिर्भूत्वा तस्मात्प्रेहन्निवायति । 012a
तां मतिं मनसः प्राहुर्मनस्तस्मादपेक्षते ॥ 012c
प्रश्नं तु वाङ्मनसयोर्यस्मात्त्वमनुपृच्छसि । 013a
तस्मात्ते वर्तयिष्यामि तयोरेव समाह्वयम् ॥ 013c
उभे वाङ्मनसी गत्वा भूतात्मानमपृच्छताम् । 014a
आवयोः श्रेष्ठमाचक्ष्व च्छिन्धि नौ संशयं विभो ॥ 014c
मन इत्येव भगवांस्तदा प्राह सरस्वतीम् । 015a
अहं वै कामधुक्तुभ्यमिति तं प्राह वागथ ॥ 015c
ब्राह्मण उवाच । 016
स्थावरं जङ्गमं चैव विद्ध्युभे मनसी मम । 016a
स्थावरं मत्सकाशे वै जङ्गमं विषये तव ॥ 016c
यस्तु ते विषये गच्छन्मन्त्रो वर्णः स्वरोपि वा । 017a
तन्मनो जङ्गमं नाम तस्मादसि गरीयसी ॥ 017c
तस्माद्भवितुमर्हामि स्वयमभ्येत्य शोभने । 018a
तस्मादुच्छ्वासमासाद्य प्रवक्ष्यामि सरस्वति ॥ 018c
प्राणापानावन्तरे यद्वाग्वै नित्यं स्म तिष्ठति । 019a
प्रीयमाणा महाभागे विना प्राणांश्च मामपि । 019c
प्रजापतिमुपाधावत्प्रसीद भगवन्निति ॥ 019e
ततः प्राणः प्रादुरभूद्वाचमाप्याययन्पुनः । 020a
तस्मादुच्छ्वासमासाद्य न वाग्वदति कर्हिचित् ॥ 020c
घोषिणी जातनिर्घोषा नित्यमेव प्रवर्तते । 021a
तयोरपि च घोषिण्या निर्घोषैव गरीयसी ॥ 021c
गौरिव प्रस्रवत्यर्थान्रसमुत्तमशालिनी । 022a
सततं स्यन्दते ह्येषा शाश्वतं ब्रह्मवादिनी ॥ 022c
दिव्यादिव्यप्रभावेन भारती गौः शुचिस्मिते । 023a
एतयोरन्तरं पश्य सूक्ष्मयोर्यतमानयोः ॥ 023c
ब्राह्मण्युवाच । 024
अनुत्पन्नेषु वाक्येषु चोद्यमाना सिसृक्षया । 024a
किन्नु पूर्वं तदा देवी व्याजहार सरस्वती ॥ 024c
ब्राह्मण उवाच । 025
प्राणेन या सम्भवते शरीरे प्राणादपानं प्रतिपद्यते च । 025a
उदानभूता च विसृज्य देहं व्यानेन सर्वं दिवमावृणोति ॥ 025c
ततः समाने प्रतितिष्ठतीह इत्येव पूर्वं प्रजजल्प वागपि । 026a
तस्मान्मनः स्थावरत्वाद्विशिष्टं तथा देवी जङ्गमत्वाद्विशिष्टाः ॥ ॥ 026c
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि द्वाविंशोऽध्यायः ॥ 22 ॥
14-22-9 जज्ञे समानः पर्युपेक्षत इति ट. थ. पाठः । 14-22-13 सम्यक्सुखम् आह्वयन्ते विजिगीषवोऽस्मिन्निति समाह्वयः संवादस्तम् । 14-22-22 मासमुत्तमशालिनीति क.ट.थ.पाठः ॥