अध्यायः 021

कृष्णेनार्जुनं प्रति भूतप्राणादिसृष्ट्यादिप्रतिपादकब्राह्मणदम्पतिसंवादानुवादः ॥ 1 ॥

वासुदेव उवाच । 001
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । 001a
दम्पत्योः पार्थ संवादो योऽभवद्भरतर्षभ ॥ 001c
ब्राह्मणी ब्राह्मणं कञ्चिज्ज्ञानविज्ञानपारगम् । 002a
दृष्ट्वा विविक्त आसीनं भार्या भर्तारमब्रवीत् ॥ 002c
कं नु लोकं गमिष्यामि त्वामहं पतिमाश्रिता । 003a
न्यस्तकर्माणमासीनं कीनाशमविचक्षणम् ॥ 003c
भार्याः पतिकृताल्ँलोकानाप्नुवन्तीति नः श्रुतम् । 004a
त्वामहं पतिमासाद्य कां गमिष्यामि वै गतिम् ॥ 004c
एवमुक्तः स शान्तात्मा तामुवाच हसन्निव । 005a
सुभगे नाभ्यसूयामि वाक्यस्यास्य तवानघे ॥ 005c
ग्राह्यं दृश्यं तथा श्राव्यं यदिदं कर्म विद्यते । 006a
एतदेव व्यवस्यन्ति कर्म कर्मेति कर्मिणः ॥ 006c
मोहमेव निगच्छन्ति कर्मिणो ज्ञानवर्जिताः । 007a
नैष्कर्म्यं न च लोकेऽस्मिन्मौर्तमित्युपलभ्यते ॥ 007c
कर्मणा मनसा वाचा शुभं वा यदि वाऽशुभम् । 008a
जन्मादिमूर्तिभेदानां कर्म भूतेषु वर्तते ॥ 008c
रक्षोभिर्वध्यमानेषु दृश्यश्राव्येषु कर्मसु । 009a
आत्मस्थमात्मना तेन दृष्टमायतनं मया ॥ 009c
यत्र तद्ब्रह्म निर्द्वन्द्वं यत्र सोमः सहाग्निना । 010a
व्यवायं कुरुते नित्यं धीरो भूतानि धारयन् ॥ 010c
यत्र ब्रह्मादयो युक्तास्तदक्षरमुपासते । 011a
विद्वांसः सुव्रता यत्र शान्तात्मानो जितेन्द्रियाः ॥ 011c
घ्राणेन न तदाघ्रेयं नाऽऽस्वाद्यं चैव जिह्वया । 012a
स्पर्शनेन तदस्पृश्यं मनसा त्ववगम्यते ॥ 012c
चक्षुषा न विषह्यं च यत्किञ्चिच्छ्रवणात्परम् । 013a
अगन्धमरसस्पर्शमरूपं शब्दवर्जितम् । 013c
यतः प्रवर्तते तन्त्रं यत्र चैतत्प्रतिष्ठितम् ॥ 013e
प्राणोऽपानः समानश्च व्यानश्चोदान एव च । 014a
तत एव प्रवर्तन्ते तदेव प्रविशन्ति च ॥ 014c
समानव्यानयोर्मध्ये प्राणापानौ विचेरतुः । 015a
तस्मिन्सुप्ते प्रलीयेते समानो व्यान एव च ॥ 015c
अपानप्राणयोर्मध्ये उदानो व्याप्य तिष्ठति । 016a
तस्माच्छयानं पुरुषं प्राणापानौ न मुञ्चतः ॥ 016c
प्राणेनोपहते यत्तु तमुदानं प्रचक्षते । 017a
तस्मात्तपो व्यवस्यन्ति तद्भवं ब्रह्मवादिनः ॥ 017c
तेषामन्योन्यसक्तानां सर्वेषां देहचारिणाम् । 018a
अग्निर्वैश्वानरो मध्ये सप्तधा विहितोऽन्तरा ॥ 018c
घ्राणं जिह्वा च चक्षुश्च त्वक्च श्रोत्रं च पञ्चमम् । 019a
मनो बुद्धिश्च सप्तैता जिह्वा वैश्वानरार्चिषः ॥ 019c
घ्रेयं दृश्यं च पेयं च स्पृश्यं श्राव्यं तथैव च । 020a
मन्तव्यमवबोद्धव्यं ताः सप्त समिधो मताः ॥ 020c
घ्राता भक्षयिता द्रष्टा स्प्रष्टा श्रोता च पञ्चमः । 021a
मन्ता बोद्धा च सप्तैते भवन्ति परमर्त्विजः ॥ 021c
घ्रेये पेये च दृश्ये च स्पृश्ये श्राव्ये तथैव च । 022a
मन्तव्येऽप्यथ बोद्धव्ये सुभगे पश्य सर्वदा ॥ 022c
हवींष्यग्निषु होतारः सप्तधा सप्तसप्तसु । 023a
सम्यक्प्रक्षिप्य विद्वांसो जनयन्ति स्वयोनिषु ॥ 023c
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् । 024a
मनो बुद्धिश्च सप्तैता योनिरित्येव शब्दिताः ॥ 024c
हविर्भूतगुणाः सर्वे प्रविशन्त्यग्निजं मुखम् । 025a
अन्तर्वासमुषित्वा च जायन्ते स्वासु योनिषु ॥ 025c
तत्रैव च निरुध्यन्ते प्रलये भूतभावने । 026a
ततः सञ्जायते गन्धस्ततः सञ्जायते रसः ॥ 026c
ततः सञ्जायते रूपं ततः स्पर्शोऽभिजायते । 027a
ततः सञ्जायते शब्दः संशयस्तत्र जायते । 027c
ततः सञ्जायते निष्ठा जन्मैतत्सप्तधा विदुः ॥ 027e
अनेनैव प्रकारेण प्रगृहीतं पुरातनैः । 028a
पूर्णाहुतिभिरापूर्णास्ते पूर्यन्ते हि तेजसा ॥ ॥ 028c

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि एकविंशोऽध्यायः ॥ 21 ॥

14-21-3 कर्म अग्निहोत्रादिकं न्यस्तं येन तम् । कीनाशं कर्कशं मयि निरनुक्रोशम् । अविचक्षणं मम अनन्यगतिकत्वमजानन्तम् ॥ 14-21-7 मौख्यमित्युपलभ्यते इति थ.द.पाठः ॥ 14-21-17 तत्परं ब्रह्मवादिन इति द.पाठः ॥