अध्यायः 020
कृष्णेनार्जुनं प्रति मोक्षसाधनादिप्रतिपादकसिद्धकाश्यपसंवादरूपानुगीतोपदेशः ॥ 1 ॥
ब्राह्मण उवाच । 001
यः स्यादेकान्त आसीनस्तूष्णीं किञ्चिदचिन्तयन् । 001a
पूर्वम्पूर्वं परित्यज्य स निरारम्भको भवेत् ॥ 001c
सर्वमित्रः सर्वसहः शमे रक्तो जितेन्द्रियः । 002a
व्यपेतभयमन्युश्च कामहा मुच्यते नरः ॥ 002c
आत्मवत्सर्वभूतेषु यश्चरेन्नियतः शुचिः । 003a
'नित्यमेव यथान्यायं यश्चरेन्नियतेन्द्रियः ।' 003c
अमानी निरभीमानः सर्वतो मुक्त एव सः ॥ 003e
जीवितं मरणं चोभे सुखदुःखे तथैव च । 004a
लाभालाभे प्रियद्वेष्ये यः समः स च मुच्यते ॥ 004c
न कस्यचित्स्पृहयते नावजानाति किञ्चन । 005a
निर्द्वन्द्वो वीतरागात्मा सर्वथा मुक्त एव सः ॥ 005c
अनमित्रश्च निर्बन्धुरनपत्यश्च यः क्वचित् । 006a
त्यक्तधर्मार्थकामश्च निराकाङ्क्षी च मुच्यते ॥ 006c
नैव धर्मी न चाधर्मी पूर्वोपचितहा च यः । 007a
क्षीणधातुः प्रशान्तात्मा निर्द्वन्द्वः स विमुच्यते ॥ 007c
अकर्मा चाविकाङ्क्षश्च पश्येज्जगदशाश्वतम् । 008a
अस्वस्थमवशं नित्यं जन्ममृत्युजरायुतम् ॥ 008c
वैराग्यबुद्धिः सततं तावद्दोषव्यपेक्षकः । 009a
आत्मबन्धविनिर्मोक्षं स करोत्यचिरादिव ॥ 009c
अगन्धमरसस्पर्शमशब्दमपरिग्रहम् । 010a
अरूपमनभिज्ञेयं दृष्ट्वाऽऽत्मानं विमुच्यते ॥ 010c
पञ्चभूतगुणैर्हीनममूर्तिमदलेपकम् । 011a
अगुणं गुणभोक्तारं यः पश्यति स मुच्यते ॥ 011c
विहाय सर्वसङ्कल्पान्बुद्ध्या शारीरमानसान् । 012a
शनैर्निर्वाणमाप्नोति निरिन्धन इवानलः ॥ 012c
सर्वसंस्कारनिर्मुक्तो निर्द्वन्द्वो निष्परिग्रहः । 013a
तपसा इन्द्रियग्रामं यश्चरेन्मुक्त एव सः ॥ 013c
विमुक्तः सर्वसंस्कारैस्ततो ब्रह्म सनातनम् । 014a
परमाप्नोति संशान्तमचलं नित्यमक्षरम् ॥ 014c
अतः परं प्रवक्ष्यामि योगशास्त्रमनुत्तमम् । 015a
यज्ज्ञात्वा सिद्धमात्मानं लोके पश्यन्ति योगिनः ॥ 015c
तस्योपदेशं वक्ष्यामि यथावत्तन्निबोध मे । 016a
यैर्योगैर्भावयन्नित्यं पश्यत्यात्मानमात्मनि ॥ 016c
इन्द्रियाणि तु संहृत्य मन आत्मनि धारयेत् । 017a
तीव्रं तप्त्वा तपः पूर्वं मोक्षयोगं समाचरेत् ॥ 017c
तपस्वी नित्यसङ्कल्पो दम्भाहङ्कारवर्जितः । 018a
मनीषी मनसा विप्रः पश्यत्यात्मानमात्मनि ॥ 018c
स चेच्छक्नोत्ययं साधुर्योक्तुमात्मानमात्मनि । 019a
तत एकान्तशीलः स पश्यत्यात्मानमात्मनि ॥ 019c
संयतः सततं युक्त आत्मवान्विजितेन्द्रियः । 020a
यथा य आत्मनाऽऽत्मानं सम्प्रयुक्तः प्रपश्यति ॥ 020c
यथाहि पुरुषः स्वप्ने दृष्ट्वा पश्यत्यसाविति । 021a
तथारूपमिवाऽऽत्मानं साधुयुक्तः प्रपश्यति ॥ 021c
इषीकां च यथा मुञ्जात्कश्चिन्निष्कृष्य दर्शयेत् । 022a
योगी निष्कृष्य चाऽऽत्मानं तथा पश्यति देहतः ॥ 022c
मुञ्जं शरीरमित्याहुरिषीकामात्मनि श्रिताम् । 023a
एतन्निदर्शनं प्रोक्तं योगविद्भिरनुत्तमम् ॥ 023c
यदा हि युक्तमात्मानं सम्यक् पश्यति देहभृत् । 024a
न तस्येहेश्वरः कश्चित्त्रैलोक्यस्यापि यः प्रभुः ॥ 024c
अन्यान्याश्चैव तनवो यथेष्टं प्रतिपद्यते । 025a
विनिर्भिद्य जरां मृत्युं न शोचति न हृष्यति ॥ 025c
देवानामपि देवत्वं युक्तः कारयते वशी । 026a
ब्रह्म चाव्ययमाप्नोति हित्वा देहमशाश्वतम् ॥ 026c
विनश्यत्सु च लोकेषु न भयं तस्य जायते । 027a
क्लिश्यमानेषु भूतेषु न स क्लिश्यति केनचित् ॥ 027c
दुःखशोकमलैर्घोरैः सङ्गस्नेहसमुद्भवैः । 028a
न विचाल्यति युक्तात्मा निस्पृहः शान्तमानसः ॥ 028c
नैनं शस्त्राणि विध्यन्ते न मृत्युश्चास्य विद्यते । 029a
नातः सुखतरं किञ्चिल्लोके क्वचन दृश्यते ॥ 029c
सम्यग्युक्त्वा स आत्मानमात्मन्येव प्रतिष्ठिते । 030a
विनिवृत्तजरादुःखः सुखं स्वपिति चापि सः ॥ 030c
देहान्यथेष्टमभ्येति हित्वेमां मानुषीं तनुम् । 031a
निर्वेदस्तु न कर्तव्यो भुञ्जानेन कथञ्चन ॥ 031c
सम्यग्युक्तो यदाऽऽत्मानमात्मन्येव प्रपश्यति । 032a
तदैव न स्पृहयते साक्षादपि शतक्रतोः ॥ 032c
योगमेकान्तशीलस्तु यथा विन्दति तच्छृणु । 033a
दृष्टपूर्वां दिशं चिन्त्य यस्मिन्सन्निवसेत्पुरे ॥ 033c
पुरस्याभ्यन्तरे तस्य मनः स्थाप्यं न बाह्यतः । 034a
पुरस्याभ्यन्तरे तिष्ठन्यस्मिन्नावसथे वसेत् । 034c
तस्मिन्नावसथे धार्यं सबाह्याभ्यन्तरं मनः ॥ 034e
प्रचिन्त्यावसथे कृत्स्नं यस्मिन्काये स पश्यति । 035a
तस्मिन्काये मनश्चास्य न च किञ्चन बाह्यतः ॥ 035c
सन्नियम्येन्द्रियग्रामं निर्घोषं निर्जने वने । 036a
कायमभ्यन्तरं कृत्स्नमेकाग्रः परिचिन्तयेत् ॥ 036c
दन्तांस्तालु च जिह्वां च गलं ग्रीवां तथैव च । 037a
हृदयं चिन्तयेच्चापि तथा हृदयबन्धनम् ॥ 037c
इत्युक्तः स मया शिष्यो मेधावी मधुसूदन । 038a
पप्रच्छ पुनरेवेमं मोक्षधर्मं सुदुर्वचम् ॥ 038c
भुक्तं भुक्तमिदं कोष्ठे कथमन्नं विपच्यते । 039a
कथं रसत्वं व्रजति शोणितत्वं कथं पुनः ॥ 039c
तथा मांसं च मेदश्च स्नाय्वस्थीनि च पोषयेत् । 040a
कथमेतानि सर्वाणि शरीराणि शरीरिणाम् ॥ 040c
वर्धन्ते वर्धमानस्य वर्धते च कथं बलम् । 041a
निरासनं निष्कसनं मलानां च पृथक् पृथक् ॥ 041c
कुतो वाऽयं प्रश्वसिति उच्छ्वसित्यपि वा पुनः । 042a
कं च देशमधिष्ठाय तिष्ठत्यात्माऽयमात्मनि ॥ 042c
जीवः कथं वहति च चेष्टमानः कलेवरम् । 043a
किंवर्णं कीदृशं चैव निवेशयति वै मनः ॥ 043c
याथातथ्येन भगवन्वक्तुमर्हसि मेऽनघ । 044a
इति सम्परिपृष्टोऽहं तेन विप्रेण माधव ॥ 044c
प्रत्यब्रवं महाबाहो यथाश्रुतमरिन्दम । 045a
यथा स्वकोष्ठे प्रक्षिप्य भाण्डं भाण्डमना भवेत् ॥ 045c
तथा स्वकाये प्रक्षिप्य मनोद्वारैरनिश्चलैः । 046a
आत्मानं तत्र मार्गेत प्रमादं परिवर्जयेत् ॥ 046c
एवं सततमुद्युक्तः प्रीतात्मा नचिरादिव । 047a
आसादयति तद्ब्रह्म यद्दृष्ट्वा स्यात्प्रधानवित् ॥ 047c
न त्वसौ चक्षुषा ग्राह्यो न च सर्वैरपीन्द्रियैः । 048a
मनसैव प्रदीपेन महानात्मा प्रदृश्यते ॥ 048c
सर्वतः पाणिपादान्तः सर्वतोक्षिशिरोमुखः । 049a
सर्वतः श्रुतिमाल्ँलोके सर्वमावृत्य तिष्ठति ॥ 049c
जीवो निष्क्रान्तमात्मानं शरीरात्सम्प्रपश्यति । 050a
स तमुत्सृज्य देहं स्वं पारयेद्ब्रह्म केवलम् ॥ 050c
आत्मानमालोकयति मनसा प्रहसन्निव । 051a
तदेवमाश्रयं कृत्वा मोक्षं याति ततो मयि ॥ 051c
इदं सर्वरहस्यं ते मया प्रोक्तं द्विजोत्तम । 052a
आपृच्छे साधयिष्यामि गच्छ विप्र यथासुखम् ॥ 052c
इत्युक्तः स तदा कृष्ण मया शिष्यो महातपाः । 053a
अगच्छत यथाकामं ब्राह्मणश्छिन्नसंशयः ॥ 053c
वासुदेव उवाच । 054
इत्युक्त्वा स तदा वाक्यं मां पार्थ द्विजसत्तमः । 054a
मोक्षधर्माश्रितं सम्यक् तत्रैवान्तरधीयत ॥ 054c
कच्चिदेतत्त्वया पार्थ श्रुतमेकाग्रचेतसा । 055a
तदाऽपि हि रथस्थस्त्वं श्रुतवानेतदेव हि ॥ 055c
नैतत्पार्थ सुविज्ञेयं व्यामिश्रेणेति मे मतिः । 056a
नरेणाकृतसङ्गेन विशुद्धेनान्तरात्मना ॥ 056c
सुरहस्यमिदं प्रोक्तं देवानां भरतर्षभ । 057a
कच्चित्त्विदं श्रुतं पार्थ मनुष्येणेह कर्हिचित् ॥ 057c
न ह्येतच्छ्रोतुमर्होऽन्यो मनुष्यस्त्वामृतेऽनघ । 058a
नैतदन्येन विज्ञेयं व्यामिश्रेणान्तरात्मना ॥ 058c
क्रियावद्भिर्हि कौन्तेय देवलोकः समावृतः । 059a
न चैतदिष्टं देवानां मर्त्यैरुपरि वर्तनम् ॥ 059c
परा हि सा गतिः पार्थ यत्तद्ब्रह्म सनातनम् । 060a
यत्रामृतत्वं प्राप्नोति त्यक्त्वा दुःखं सदा सुखी ॥ 060c
इमं धर्मं समास्थाय येऽपि स्युः पापयोनयः । 061a
स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् ॥ 061c
किं पुनर्ब्राह्मणाः पार्थ क्षत्रिया वा बहुश्रुताः । 062a
स्वधर्मरतयो नित्यं ब्रह्मलोकपरायणाः ॥ 062c
हेतुमच्चैतदुद्दिष्टमुपायाश्चास्य साधने । 063a
सिद्धिं फलं च मोक्षश्च दुःखस्य च विनिर्णियः ॥ 063c
नातः परं सुखं त्वन्यत्किञ्चित्स्याद्भरतर्षभ । 064a
श्रुतवाञ्श्रद्दधानश्च पराक्रान्तश्च पाण्डव ॥ 064c
यः परित्यज्यते मर्त्यो लोकसारमसारवत् । 065a
एतैरुपायैः स क्षिप्रं परां गतिमवाप्नुते ॥ 065c
एतावदेव वक्तव्यं नान्तो भूयोऽस्ति किञ्चन । 066a
षण्मासान्नित्ययुक्तस्य योगः पार्थ प्रवर्तते ॥ ॥ 066c
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि विंशोऽध्यायः ॥ 20 ॥
14-20-2 सर्वमित्रोऽद्रोही । सर्वसहः क्षमी ॥ 14-20-6 अनमित्रः शत्रुहीनः ॥ 14-20-11 अमूर्तिमदहेतुकमिति झ.पाठः ॥