अध्यायः 019
ब्राह्मणेन कृष्णं प्रति जीवस्य गर्भप्रवेशादिप्रतिपादककाश्यपसिद्धसंवादानुवादः ॥ 1 ॥
ब्राह्मण उवाच । 001
शुभानामशुभानां च नेह नाशोऽस्ति कर्मणाम् । 001a
प्राप्यप्राप्यानुपच्यन्ते क्षेत्रेक्षेत्रे तथातथा ॥ 001c
यथा प्रसूयमानस्तु फली दद्यात्फलं बहु । 002a
तथा स्याद्विपुलं पुण्यं शुद्धेन मनसा कृतम् ॥ 002c
पापं चापि तथैव स्यात्पापेन मनसा कृतम् । 003a
पुरोधाय मनो हीह कर्मण्यात्मा प्रवर्तते ॥ 003c
यथा कर्मसमाविष्टः काममन्युसमावृतः । 004a
नरो गर्भं प्रविशति तत्रापि शृणु चोत्तरम् ॥ 004c
शुक्रं शोणितसंसृष्टं स्त्रिया गर्भाशयं गतम् । 005a
क्षेत्रं कर्मजमाप्नोति शुभं वा यदि वाऽशुभम् ॥ 005c
सौक्ष्म्यादव्यक्तभावाच्च न च क्वचन सज्जति । 006a
सम्प्राप्य ब्राह्मणः कायं तस्मात्तद्ब्रह्म शाश्वतम् ॥ 006c
तद्बीजं सर्वभूतानां तेन जीवन्ति जन्तवः ॥ 007ac
स जीवः सर्वभूतानां गर्भमाविश्य भागशः । 008a
दधाति चेतनां सद्यः प्राणस्थानेष्ववस्थितः । 008c
ततः स्पन्दयतेऽङ्गानि स गर्भश्चेतनान्वितः ॥ 008e
यथा लोहस्य विष्यन्दो निषिक्तो बिम्बविग्रहम् । 009a
उपैति तद्वज्जानीहि गर्भे जीवप्रवेशनम् ॥ 009c
लोहपिण्डं यथा वह्निः प्रविश्य ह्यतितापयेत् । 010a
तथा त्वमपि जानीहि गर्भे जीवोपपादनम् । 010c
यथा च दीपः शरणं दीप्यमानः प्रकाशयेत् । 011a
एवमेव शरीराणि प्रकाशयति चेतनः ॥ 011c
यद्यच्च कुरुते कर्म शुभं वा यदि वाऽशुभम् । 012a
पूर्वदेहकृतं सर्वमवश्यमुपभुज्यते ॥ 012c
ततस्तु क्षीयते चैव पुनश्चान्यत्प्रचीयते । 013a
यावत्तु मोक्षयोगस्थं धर्मं नैवावबुध्यते ॥ 013c
तत्ते धर्मं प्रवक्ष्यामि सुखी भवति येन वै । 014a
आवर्तमानो जातीषु यथाऽन्योन्यासु सत्तम ॥ 014c
दानं व्रतं ब्रह्मचर्यं यथोक्तव्रतधारणम् । 015a
दमः प्रशान्तता चैव भूतानां चानुकम्पनम् ॥ 015c
संयमश्चानृशंस्यं च परस्वादानवर्जनम् । 016a
व्यलीकानामकरणं भूतानां मनसा भुवि ॥ 016c
मातापित्रोश्च शुश्रूषा देवतातिथिपूजनम् । 017a
गुरुपूजा घृणा शौचं नित्यमिन्द्रियसंयमः ॥ 017c
प्रवर्तनं शुभानां च तत्सतां व्रतमुच्यते । 018a
ततो धर्मः प्रभवति यः प्रजाः पाति शाश्वतीः ॥ 018c
'सद्भिराचरितो धर्मः सदाचारे प्रतिष्ठितः । 019a
उभयार्थो भवत्येव स्वर्गार्थो मोक्षतस्तथा ॥' 019c
एवं सत्सु सदा पश्येत्तत्राप्येषा ध्रुवा स्थितिः । 020a
आचारो धर्ममाचष्टे यस्मिन्सन्तो व्यवस्थिताः ॥ 020c
तेषु तत्कर्म निक्षिप्तं यः स धर्मः सनातनः । 021a
यस्तं समभिपद्येत न स दुर्गतिमाप्नुयात् ॥ 021c
अतो नियम्यते लोकः प्रच्यवन्धर्मवर्त्मसु । 022a
यश्च योगी च मुक्तश्च स एतेभ्यो विशिष्यते ॥ 022c
वर्तमानस्य धर्मेण पुरुषस्य यथा तथा । 023a
संसारतारणं ह्यस्य कालेन महता भवेत् ॥ 023c
एवं पूर्वकृतं कर्म सर्वो जन्तुः प्रपद्यते । 024a
सर्वं तत्कारणं येन निकृतोऽयमिहाऽऽगतः ॥ 024c
शरीरग्रहणं चास्य केन पूर्वं प्रकल्पितम् । 025a
इत्येवं संशये लोके तच्च वक्ष्याम्यतः परम् ॥ 025c
शरीरमात्मनः कृत्वा सर्वलोकपितामहः । 026a
त्रैलोक्यमसृजद्ब्रह्मा कृत्स्नं स्थावरजङ्गमम् ॥ 026c
ततः प्रधानमसृजच्चेतनां तु शरीरिणाम् । 027a
यया सर्वमिदं व्याप्तं यां लोके परमां विदुः ॥ 027c
इदं तत्क्षरमित्युक्तं परं त्वमृतमक्षरम् । 028a
त्रयाणां मिथुनं सर्वमेकैकस्य पृथक्पृथक् ॥ 028c
असृजत्सर्वभूतानि पूर्वदृष्टः प्रजापतिः । 029a
स्थावराणि च भूतानि इत्येषा पौर्विकी श्रुतिः ॥ 029c
तस्य कालपरीमाणमकरोत्स पितामहः । 030a
भूतेषु परिवृत्तिं च पुनरावृत्तिमेव च ॥ 030c
यथा तु कश्चिन्मेधावी दृष्टात्मा पूर्वजन्मनि । 031a
यत्प्रवक्ष्यामि तत्सर्वं यथावदुपपद्यते ॥ 031c
सुखदुःखे यथा सम्यगनित्ये यः प्रपश्यति । 032a
कायं चामेध्यसंस्थानं विनाशं कर्मसंहितम् ॥ 032c
यच्च किञ्चित्सुखं तच्च दुःखं दृष्टमिति स्मरन् । 033a
संसारसागरं घोरं तरिष्यति सुदुस्तरम् ॥ 033c
जनीमरणरोगैश्च समाविष्टः प्रधानवित् । 034a
चेतनावत्सु चैतन्यं समं भूतेषु पश्यति ॥ 034c
निर्विद्यते ततः कश्चिन्मार्गमाणः परं पदम् । 035a
तस्योपदेशं वक्ष्यामि याथातथ्येन सत्तम ॥ 035c
शाश्वतस्याव्ययस्याथ यदस्य ज्ञानमुत्तमम् । 036a
प्रोच्यमानं मया विप्र निबोधेदमशेषतः ॥ ॥ 036c
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि एकोनविंशोऽध्यायः ॥ 19 ॥
14-19-2 फली वृक्षः । 14-19-8 तथाऽपि तेजसा सम्यक्प्राणस्थाने इति थ. पाठः ॥ 14-19-9 यथा स्वर्णद्रवः स्वल्पोऽपि कृत्स्नां ताम्रप्रतिमां स्वर्णमयीमिव करोत्येवं गर्भे जीवप्रवेशनम् । शरीरे सूक्ष्मस्यापि चैतन्यस्य व्याप्तिरित्याद्यस्य परिहारः ॥ 14-19-28 क्षरं जडम् ॥