अध्यायः 018
ब्राह्मणेन कृष्णं प्रति प्राणिनां जननमरणादिप्रतिपादकसिद्धकश्यपसंवादानुवादः ॥ 1 ॥
वासुदेव उवाच । 001
ततस्तस्योपसङ्गृह्य पादौ प्रश्नान्सुदुर्वचान् । 001a
पप्रच्छ तांश्च धर्मान्स प्राह धर्मभृतांवरः ॥ 001c
काश्यप उवाच । 002
कथं शरीराच्च्यवते कथं चैवोपपद्यते । 002a
कथं कष्टाच्च संसारात्संसरन्परिमुच्यते ॥ 002c
आत्मानं वा कथं युक्त्वा तच्छरीरं विमुञ्चति । 003a
शरीरे च विनिर्मुक्तो कथमन्यत्प्रपद्यते ॥ 003c
कथं शुभाशुभे चायं कर्मणी स्वकृते नरः । 004a
उपभुङ्क्ते क्व वा कर्म विदेहस्योपतिष्ठते ॥ 004c
ब्राह्मण उवाच । 005
एवं सञ्चोदितः सिद्धः प्रश्नांस्तान्प्रत्यभाषत । 005a
आनुपूर्व्येण वार्ष्णेय तन्मे निगदतः शृणुः ॥ 005c
सिद्ध उवाच । 006
'अस्मिन्नेवाशु फलदा आयुष्यास्तु क्रियाः स्मृताः । 006a
आयुःकीर्तिकराणीह यानि कृत्यानि सेवते । 006c
शरीरग्रहणेऽन्यस्मिंस्तेषु क्षीणेषु सर्वशः ॥ 006e
आयुःक्षयपरीतात्मा विपरीतानि सेवते । 007a
बुद्धिर्व्यावर्तते चास्य विनाशे प्रत्युपस्थिते ॥ 007c
सत्त्वं बलं च कालं चाविदित्वा चात्मनस्तथा । 008a
अतिवेलमुपाश्नाति स्वविरुद्धान्यनात्मवान् ॥ 008c
यदाऽयमतिकष्टानि सर्वाण्युपनिषेवते । 009a
अत्यर्थमपि वा भुङ्क्ते न वा भुङ्क्ते कदाचन ॥ 009c
दुष्टान्नामिषपानं च यदन्योन्यविरोधि च । 010a
गुरु चाप्यमितं भुङ्क्ते नातिजीर्णे दिवा पुनः ॥ 010c
व्यायाममतिमात्रं च व्यवायं चोपसेवते । 011a
सततं कर्मलोभाद्वा प्राप्तं वेगं विधारयेत् ॥ 011c
रसाभियुक्तमन्नं वा दिवास्वप्नं च सेवते । 012a
अपक्वानागते काले स्वयं दोषान्प्रकोपयेत् ॥ 012c
स्वदोषकोपनाद्रोगं लभते मरणान्तिकम् । 013a
अपि वोद्बन्धनादीनि परीतानि व्यवस्यति ॥ 013c
तस्य तैः कारणैर्जन्तोः शरीरं च्यवते तदा । 014a
जीवितं प्रोच्यमानं तद्यथावदुपधारय ॥ 014c
ऊष्मा प्रकुपितः काये तीव्रवायुसमीरितः । 015a
शरीरमनुपर्येत्य सर्वान्प्राणान्रुणद्धि वै ॥ 015c
अत्यर्थं बलवानूष्मा शरीरे परिकोपितः । 016a
भिनत्ति जीवस्थानानि तानि कर्मणि विद्धि च ॥ 016c
ततः सवेदनः सद्यो जीवः प्रच्यवते क्षरन् । 017a
शरीरं त्यजते जन्तुश्छिद्यमानेषु मर्मसु । 017c
वेदनाभिः परीतात्मा तद्विद्धि द्विजसत्तम ॥ 017e
जनीमरणसंविग्नाः सततं सर्वजन्तवः । 018a
दृश्यन्ते सन्त्यजन्तश्च शरीराणि द्विजर्षभ ॥ 018c
गर्भसङ्क्रमणे चापि गर्भाणापुपसर्पणे । 019a
तादृशीमेव लभते वेदनां मानवः पुनः ॥ 019c
भिन्नसन्धिरथ क्लेदमद्भिः स लभते नरः ॥ 020ac
यथा पञ्चसु भूतेषु सम्भूतत्वं नियच्छति । 021a
शैत्यात्प्रकुपितः काये तीव्रवायुसमीरितः ॥ 021c
यः स पञ्चसु भूतेषु प्राणापाने व्यवस्थितः । 022a
स गच्छत्यूर्ध्वगो वायुः कृच्छ्रान्मुक्त्वा शरीरिणः । 022c
शरीरं च जहात्येवं निरुच्छ्वासश्च दृश्यते ॥ 022e
स निरूष्मा निरुच्छ्वासो निःश्रीको गतचेतनः । 023a
कर्मणा सम्परित्यक्तो मृत इत्युच्यते नरः ॥ 023c
स्रोतोभिर्यैर्विजानाति इन्द्रियार्थाञ्शरीरभृत् । 024a
तैरेव न विजानाति प्राणानाहारसम्भवान् ॥ 024c
तत्रैव कुरुते काये यः स जीवः सनातनः ॥ 025ac
तथा यद्यद्भवेन्मुक्तं सन्निपाते क्वचित्क्वचित् । 026a
तत्तन्मर्म विजानीहि शास्त्रदृष्टं हि तत्तथा ॥ 026c
तेषु मर्मसु भिन्नेषु ततः स समुदीरयन् । 027a
आविश्य हृदयं जन्तोः सत्त्वं चाशु रुणद्धि वै ॥ 027c
ततः सचेतनो जन्तुर्नाभिजानाति किञ्चन । 028a
तमसा संवृतज्ञानः संवृतेष्वेव मर्मसु । 028c
स जीवो निरधिष्ठानश्चाल्यते मातरिश्वना ॥ 028e
ततः स तं महोच्छ्वासं भृशमुच्छ्वस्य दारुणम् । 029a
निष्क्रमन्कम्पयत्याशु तच्छरीरमचेतनम् ॥ 029c
स जीवः प्रच्युतः कायात्कर्मभिः स्वैः समावृतः । 030a
अङ्कितः स्वैः शुभैः पुण्यैः पापैर्वाऽप्युपपद्यते ॥ 030c
ब्राह्मणा ज्ञानसम्पन्ना यथावच्छ्रुतनिश्चयाः । 031a
इतरं कृतपुण्यं वा तं विजानन्ति लक्षणैः ॥ 031c
यथाऽन्धकारे खद्योतं दीप्यमानं ततस्ततः । 032a
चक्षुष्मन्तः प्रपश्यन्ति तथा च ज्ञानचक्षुषः ॥ 032c
पश्यन्त्येवंविधं सिद्धा जीवं दिव्येन चक्षुषा । 033a
च्यवन्तं जायमानं च योनिं चानुप्रवेशितम् ॥ 033c
तस्य स्थानानि दृष्टानि विविधानीह शास्त्रतः । 034a
कर्मभूमिरियं भूमिर्यत्र तिष्ठन्ति जन्तवः ॥ 034c
ततः शुभाशुभं कृत्वा लभन्ते सर्वदेहिनः । 035a
इहैवोच्चावचान्भोगान्प्राप्नुवन्ति स्वकर्मभिः ॥ 035c
इहैवाशुभकर्माणः कर्मभिर्निरयं गताः । 036a
अवाग्गतिरियं कष्टा यत्र पच्यन्ति मानवाः । 036c
तस्मात्सुदुर्लभो मोक्षो रक्ष्यश्चाऽऽत्मा ततो भृशम् ॥ 036e
ऊर्ध्वं तु जन्तवो गत्वा येषु स्थानेष्ववस्थिताः । 037a
कीर्त्यमानानि तानीह तत्त्वतः सन्निबोध मे ॥ 037c
तच्छ्रुत्वा नैष्ठिकीं बुद्धिं बुद्ध्येथाः कर्मनिश्चयम् । 038a
तारारूपाणि सर्वाणि यत्रैतच्चन्द्रमण्डलम् ॥ 038c
यत्र विभ्राजते लोके स्वभासा सूर्यमण्डलम् । 039a
स्थानान्येतानि जानीहि जनानां पुण्यकर्मणाम् ॥ 039c
कर्मक्षयाच्च ते सर्वे च्यवन्ते वै पुनः पुनः । 040a
तत्रापि च विशेषोऽस्ति दिवि नीचोच्चमध्यमः ॥ 040c
न च तत्रापि सन्तोषो दृष्ट्वा दीप्ततरां श्रियम् । 041a
इत्येता गतयः सर्वाः पृथक्ते समुदीरिताः ॥ 041c
उपपत्तिं तु वक्ष्यामि गर्भस्याहमतः परम् । 042a
तथावत्तां निगदतः शृणुष्वावहितो द्विज ॥ ॥ 042c
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि अष्टादशोऽध्यायः ॥ 18 ॥
14-18-10 दुष्टान्नं विषमान्नं विते क.ट.थ.पाठः ॥ 14-18-12 अपक्वाशं गते काले स्वयं दोषप्रकोपनमिति क.ठ.थ.पाठः ॥ 14-18-19 गर्भसङ्क्रमणे गर्भस्थदेहप्रवेशे ॥ 14-18-21 श्लेष्मा प्रकुपित इति क.थ.पाठः ॥ 14-18-24 स्रोतोभिरिन्द्रियैः ॥