अध्यायः 017
अर्जुनेन कृष्णं प्रति पूर्वोपदिष्टगीतार्थस्य विस्मरणोक्त्या पुनस्तदुपदेशप्रार्थना ॥ 1 ॥ कृष्णेनार्जुनं प्रति स्वस्मै ब्राह्मणोक्तसिद्धकाश्यपसंवादानुवादः ॥ 2 ॥
जनमेजय उवाच । 001
सभायां वसतोस्तत्र निहत्यारीन्महात्मनोः । 001a
केशवार्जुनयोः का नु कथा समभवद्द्विज ॥ 001c
वैशम्पायन उवाच । 002
कृष्णेन सहितः पार्थः स्वं राज्यं प्राप्य केवलम् । 002a
तस्यां सभायां दिव्यायां विजहार मुदा युतः ॥ 002c
तत्र कञ्चित्सभोद्देशं स्वर्गोद्देशसमं नृप । 003a
यदृच्छया तौ मुदितौ जग्मतुः स्वजनावृतौ ॥ 003c
ततः प्रतीतः कृष्णेन सहितः पाण्डवोऽर्जुनः । 004a
निरीक्ष्य तां सभां रम्यामिदं वचनमब्रवीत् ॥ 004c
विदितं मे महाबाहो सङ्ग्रामे समुपस्थिते । 005a
माहात्म्यं देवकीपुत्र तच्च ते रूपमैश्वरम् ॥ 005c
यत्तु तद्भवता प्रोक्तं पुरा केशव सौहृदात् । 006a
तत्सर्वं पुरुषव्याघ्र नष्टं मे व्यग्रचेतसः ॥ 006c
मम कौतूहलं त्वस्ति तेष्वर्थेषु पुनः पुनः । 007a
भवांस्तु द्वारकां गन्ता नचिरादिव माधव ॥ 007c
वैशम्पायन उवाच । 008
एवमुक्तस्तु तं कृष्णः फाल्गुनं प्रत्यभाषत । 008a
परिष्वज्य महातेजा वचनं वदतांवरः ॥ 008c
वासुदेव उवाच । 009
श्रावितस्त्वं मया गुह्यं ज्ञापितश्च सनातनम् । 009a
धर्मं स्वरूपिणं पार्थ सर्वलोकांश्च शाश्वतान् ॥ 009c
अबुद्ध्या यन्न गृह्णीथास्तन्मे सुमहदप्रियम् । 010a
न च साऽद्य पुनर्भूयः स्मृतिर्मे सम्भविष्यति ॥ 010c
नूनमश्रद्दधानोऽसि दुर्मेधा ह्यसि पाण्डव । 011a
न च शक्यं पुनर्वक्तुमशेषेण धनञ्जय ॥ 011c
स हि धर्मः सुपर्याप्तो ब्रह्मणः पदवेदने । 012a
न शक्यं तन्मया भूयस्तथा वक्तुमशेषतः ॥ 012c
परं हि ब्रह्म कथितं योगयुक्तेन तन्मया । 013a
इतिहासं तु वक्ष्यामि तस्मिन्नर्थे पुरातनम् ॥ 013c
यथा तां बुद्धिमास्थाय गतिमग्र्यां गमिष्यसि । 014a
शृणु धर्मभृतांश्रेष्ठ गदतः सर्वमेव मे ॥ 014c
आगच्छद्ब्राह्मणः कश्चित्स्वर्गलोकादरिन्दम । 015a
ब्रह्मलोकाच्च दुर्धर्षः सोऽस्माभिः पूजितोऽभवत् ॥ 015c
अस्माभिः परिपृष्टश्च यदाह भरतर्षभ । 016a
दिव्येन विधिना पार्थ तच्छृणुष्वाविचारयन् ॥ 016c
ब्राह्मण उवाच । 017
मोक्षधर्मं समाश्रित्य कृष्ण यन्माऽनुपृच्छसि । 017a
भूतानामनुकम्पार्थं मन्मोहच्छेदनं विभो ॥ 017c
तत्तेऽहं सम्प्रवक्ष्यामि यथावन्मधुसूदन । 018a
शृणुष्वावहितो भूत्वा गदतो मम माधव ॥ 018c
कश्चिद्विप्रस्तपोयुक्तः काश्यपो धर्मवित्तमः । 019a
आससाद द्विजं कञ्चिद्धर्माणामागतागमम् ॥ 019c
गतागमं सुबहुशो ज्ञानविज्ञानपारगम् । 020a
लोकतत्त्वार्थकुशलं ज्ञातारं सुखदुःखयोः ॥ 020c
जातिस्मरणतत्त्वज्ञं कोविदं पापपुण्ययोः । 021a
द्रष्टारमुच्चनीचानां कर्मभिर्देहिनां गतिम् ॥ 021c
चरन्तं मुक्तवत्सिद्धं प्रशान्तं संयतेन्द्रियम् । 022a
दीप्यमानं श्रिया ब्राह्म्या क्रममाणं च सर्वशः ॥ 022c
अन्तर्धानगतिज्ञं च श्रुत्वा तत्त्वेन काश्यपः । 023a
तथैवान्तर्हितैः सिद्धैर्यान्तं चक्रधरैः सह ॥ 023c
सम्भाषमाणमेकान्ते समासीनं च तैः सह । 024a
यदृच्छया च गच्छन्तमसक्तं पवनं यथा ॥ 024c
तं समासाद्य मेधावी स तदा द्विजसत्तमः । 025a
चरणौ धर्मकामो वै स तस्य सुसमाहितः । 025c
प्रतिपेदे यथान्यायं भक्त्या परमया युतः ॥ 025e
विस्मितश्चाद्भुतं दृष्ट्वा काश्यपस्तं द्विजोत्तमम् । 026a
परिचारेण महता गुरुं तं पर्यतोषयत् ॥ 026c
उपपन्नं च तत्सर्वं श्रुतचारित्रसंयुतम् । 027a
भौमेनातोषयच्चैनं गुरुवृत्तिं समास्थितः ॥ 027c
तस्मै तुष्टः स शिष्याय यत्प्रसन्नोऽब्रवीद्गुरुः । 028a
सिद्धिं परामभिप्रेक्ष्य शृणु मत्तो जनार्दन ॥ 028c
सिद्ध उवाच । 029
विविधैः कर्मभिस्तात पुण्ययोगैश्च केवलैः । 029a
गच्छन्तीह गतिं मर्त्या देवलोके च वा स्थितिम् ॥ 029c
न क्वचित्सुखमत्यन्तं न क्वचिच्छाश्वती स्थितिः । 030a
स्थानाच्च महतो भ्रंशो दुःखलब्धात्पुनः पुनः ॥ 030c
अशुभा गतयः प्राप्ताः कष्टा मे पापसेवनात् । 031a
काममन्युपरीतेन तृष्णया मोहितेन च ॥ 031c
पुनः पुनश्च मरणं जन्म चैव पुनः पुनः । 032a
आहारा विविधा भुक्ताः पीता नानाविधाः स्तनाः ॥ 032c
मातरो विविधा दृष्टाः पितरश्च पृथग्विधाः । 033a
सुखानि च विचित्राणि दुःखानि च मयाऽनघ ॥ 033c
प्रियैर्विवासो बहुशः संवासश्चाप्रियैः सह । 034a
धननाशश्च सम्प्राप्तो लब्ध्वा दुःखेन तद्धनम् ॥ 034c
अवमानाः सुकष्टाश्च परतः स्वजनात्तथा । 035a
शारीरा मानसा वाऽपि वेदना भृशदारुणाः ॥ 035c
प्राप्ता विमाननाश्चोग्रा वधबन्धाश्च दारुणाः । 036a
पतनं निरये चैव यातनाश्च यमक्षये ॥ 036c
जरारोगाश्च सततं व्यसनानि च भूरिशः । 037a
लोकेऽस्मिन्ननुभूतानि द्वन्द्वजानि भृशं मया ॥ 037c
ततः कदाचिन्निर्वेदान्निकारान्निकृतेन च । 038a
लोकतन्त्रं परित्यक्तं दुःखार्तेन भृशं मया ॥ 038c
लोकेऽस्मिन्ननुभूयाहमिमं मार्गमनुष्ठितः । 039a
ततः सिद्धिरियं प्राप्ता प्रसादादात्मनो मया । 039c
नाहं पुनरिहागन्ता लोकानालोकयाम्यहम् ॥ 039e
आसिद्धेराप्रजासर्गादात्मनोऽपि गतीः शुभाः । 040a
उपलब्धा द्विजश्रेष्ठ तथेयं सिद्धिरुत्तमा ॥ 040c
इतः परं गमिष्यामि ततः परतरं पुनः । 041a
ब्रह्मणः पदमव्यक्तं मा तेऽभूदत्र संशयः ॥ 041c
नाहं पुनरिहाऽऽगन्ता मर्त्यलोकं परन्तप । 042a
प्रीतोऽस्मि ते महाप्राज्ञ ब्रूहि किं करवाणि ते ॥ 042c
यदीप्सुरुपपन्नस्त्वं तस्य कालोऽयमागतः । 043a
अभिजाने च तदहं यदर्थं मामुपागतः ॥ 043c
अचिरात्तु गमिष्यामि येनाहं त्वामचूचुदम् । 044a
भृशं प्रीतोऽस्मि भवतश्चारित्रेण विचक्षण ॥ 044c
परिपृच्छ यावद्भवतो भाषे यद्यत्तवेप्सितम् ॥ 045ac
बहुमन्ये च ते बुद्धिं भृशं सम्पूजयामि च । 046a
येनाहं भवता बुद्धो मेधावी ह्यसि काश्यप ॥ ॥ 046c
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि सप्तदशोऽध्यायः ॥ 17 ॥
14-17-19 आगतागमं प्राप्तशास्त्ररहस्यमूहापोहकुशलमित्यर्थः ॥ 14-17-46 बहुमन्ये भृशं पूजये । अहमन्तर्धानगतोऽपि यतस्त्वया ज्ञातः ॥