अध्यायः 016

वैशम्पायनेन कुरुविजयानन्तरं हास्तिनपुरे कृष्णार्जुनविहारप्रकारवर्णनम् ॥ 1 ॥ कृष्णेनार्जुनं प्रति युधिष्ठिरे स्वस्य निजनगरजिगमिषानिवेदनचोदना ॥ 2 ॥

जनमेजय उवाच । 001
विजिते पाण्डवेयैस्तु प्रशान्ते च द्विजोत्तम । 001a
राष्ट्रे ते चत्रतुर्वीरौ वासुदेवधनञ्जयौ ॥ 001c
वैशम्पायन उवाच । 002
विजिते पाण्डवै राजन्प्रशान्ते च विशाम्पतौ । 002a
राष्ट्रे बभूवतुर्हृष्टौ वासुदेवधनञ्जयौ ॥ 002c
विजह्राते मुदा युक्तौ दिवि देवेश्वराविव । 003a
तौ वनेषु विचित्रेषु पर्वतेषु ससानुषु ॥ 003c
तीर्थेषु चैव पुण्येषु पल्वलेषु नदीषु च । 004a
चङ्क्रम्यमाणौ संहृष्टावश्विनाविव नन्दने ॥ 004c
इन्द्रप्रस्थे महात्मानौ रेमाते कृष्णपाण्डवौ । 005a
प्रविश्य तां सभां रम्यां विजह्राते च भारत ॥ 005c
तत्र युद्धकथाश्चित्राः परिक्लेशांश्च पार्थिव । 006a
कथायोगे कथायोगे कथयामासतुः सदा ॥ 006c
ऋषीणां देवतानां च वंशांस्तावाहतुः सदा । 007a
प्रीयमाणौ महात्मानौ पुराणावृषिसत्तमौ ॥ 007c
मधुरास्तु कथाश्चित्राश्चित्रार्थपदनिश्चयाः । 008a
निश्चयज्ञः स पार्थाय कथयामास केशवः ॥ 008c
पुत्रशोकाभिसन्तप्तं ज्ञातीनां च सहस्रशः । 009a
कथाभिः शमयामास पार्थं शौरिर्जनार्दनः ॥ 009c
स तमाश्वास्य विधिवद्विधानज्ञो महातपाः । 010a
अपहृत्याऽऽत्मनो भारं विशश्रामेव सात्वतः ॥ 010c
ततः कथान्ते गोविन्दो गुडाकेशमुवाच ह । 011a
सान्त्वयञ्श्लक्ष्णया वाचा हेतुयुक्तमिदं वचः ॥ 011c
विजितेयं धरा कृत्स्ना सव्यसाचिन्परन्तप । 012a
त्वद्बाहुबलामाश्रित्य राज्ञा धर्मसुतेन ह ॥ 012c
असपत्नां महीं भुङ्क्ते धर्मराजो युधिष्ठिरः । 013a
भीमसेनानुभावेन यमयोश्च नरोत्तम ॥ 013c
धर्मेण राज्ञा धर्मज्ञ प्राप्तं राज्यमकण्टकम् । 014a
धर्मेण निहतः सङ्ख्ये स च राजा सुयोधनः ॥ 014c
अधर्मरुचयो लुब्धाः सदा चाप्रियवादिनः । 015a
धार्तराष्ट्रा दुरात्मानः सानुबन्धा निपातिताः ॥ 015c
प्रशान्तामखिलां पार्थ पृथिवीं पृथिवीपतिः । 016a
भुङ्क्ते धर्मसुतो राजा त्वया गुप्तः कुरूद्वह ॥ 016c
रमे चाहं त्वया सार्धमरण्येष्वपि पाण्डव । 017a
किमु यत्र जनोऽयं वै पृथा चामित्रकर्शन ॥ 017c
यत्र धर्मसुतो राजा यत्र भीमो महाबलः । 018a
यत्र माद्रवतीपुत्रौ रतिस्तत्र परा मम ॥ 018c
तथैव स्वर्गलोकेषु सभोद्देशेषु कौरव । 019a
रमणीयेषु पुण्येषु सहितस्य त्वयाऽनध ॥ 019c
कालो महांस्त्वतीतो मे शूरसूनुमपश्यतः । 020a
बलदेवं च कौरव्य तथाऽन्यान्वृष्णिपुङ्गवान् ॥ 020c
सोऽहं गन्तुमभीप्सामि पुरीं द्वारावतीं प्रति । 021a
रोचतां गमनं तुभ्यं ममापि पुरुषर्षभ ॥ 021c
उक्तो बहुविधं राजा तत्रतत्र युधिष्ठिरः । 022a
सह भीष्मेण यद्युक्तमस्माभिः शोककर्शितः ॥ 022c
शिष्टो युधिष्टिरोऽस्माभिः शास्ता सन्नपि पाण्डवः । 023a
तेन तत्तु वचः सम्यग्गृहीतं सुमहात्मना ॥ 023c
धर्मपुत्रे हि धर्मज्ञे कृतज्ञे सत्यवादिनि । 024a
सत्यं धर्मो मतिश्चाग्र्या स्थितिश्च सततं स्थिरा ॥ 024c
तत्र गत्वा महात्मानं यदि ते रोचतेऽर्जुन । 025a
अस्मद्गमनसंयुक्तं वचो ब्रूहि जनाधिपम् ॥ 025c
न हि तस्याप्रियं कुर्यां प्राणत्यागेऽप्युपस्थिते । 026a
कुतो गन्तुं महाबाहो पुरीं द्वारावतीं प्रति ॥ 026c
सर्वं त्विदमहं पार्थ त्वत्प्रीतिहितकाम्यया । 027a
ब्रवीमि सत्यं कौरव्य न मिथ्यैतत्कथञ्चन ॥ 027c
प्रयोजनं च निर्वृत्तमिह वासेन मेऽर्जुन । 028a
धार्तराष्ट्रो हतो राजा सबलः सपदानुगः ॥ 028c
पृथिवी च वशे तात धर्मपुत्रस्य धीमतः । 029a
स्थिता समुद्रवसना सशैलवनकानना ॥ 029c
चिता रत्नैर्बहुविधैः कुरुराजस्य पाण्डव । 030a
धर्मेण राजा धर्मज्ञः पातु सर्वां वसुन्धराम् ॥ 030c
उपास्यमानो मुनिभिः सिद्धैश्चापि महात्मभिः । 031a
स्तूयमानश्च सततं बन्दिभिर्भरतर्षभ ॥ 031c
तं मया सह गत्वाऽद्य राजानं कुरुवर्धनम् । 032a
आपृच्छ कुरुशार्दूल गमनं द्वारकां प्रति ॥ 032c
इदं शरीरं वसु यच्च मे गृहे निवेदितं पार्थ सदा युधिष्ठिरे । 033a
प्रियश्च मान्यश्च हि मे युधिष्ठिरः सदा कुरूणामधिपो महामतिः ॥ 033c
प्रयोजनं चापि निवासकारणे न विद्यते मे त्वदृते नृपात्मज । 034a
स्थिता हि पृथ्वी तव पार्थ शासने गुरोः सुवृत्तस्य युधिष्ठिरस्य च ॥ 034c
इतीदमुक्तः स तदा महात्मना जनार्दनेनामितविक्रमोऽर्जुनः । 035a
तथेति दुःखादिव वाक्यमैरयज्जनार्दनं सम्प्रतिपूज्य पार्थिव ॥ ॥ 035c

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अश्वमेधपर्वणि षोडशोऽध्यायः ॥ 16 ॥

14-16-4 शैलेषु गह्वरारण्ये पल्वलेष्विति क.थ.पाठः ॥