अध्यायः 015

वैशम्पायनेन जनमेजयं प्रति युधिष्ठिरस्य प्रजापालनकाले प्रजादीनामभ्युदयप्रकारवर्णनम् ॥ 1 ॥

'*वैशम्पायन उवाच । 001
स समाश्वास्य पितरं प्रज्ञाचक्षुषमीश्वरम् । 001a
अन्वशासत धर्मात्मा पृथिवीं भ्रातृभिः सह ॥ 001c
यथा मनुर्महाराजो रामो दाशरथिर्यथा । 002a
तथा भरतसिंहोऽपि पालयामास मेदिनीम् ॥ 002c
नाधर्म्यमभवत्तत्र सर्वो धर्मरुचिर्जनः । 003a
बभूव नरशार्दूल यथा कृतयुगे तथा ॥ 003c
कलिमासन्नमाविष्टं निवार्य नृपनन्दनः । 004a
भ्रातृभिः सहितो धीमान्बभौ धर्मबलोद्धतः ॥ 004c
ववर्ष भगवान्देवः काले देशे यथेप्सितम् । 005a
निरामयं जगदभूत्क्षुत्पिपासे न किञ्चन ॥ 005c
आधिर्नास्ति मनुष्याणां व्यसने नाभवन्मतिः । 006a
ब्राह्मणप्रमुखा वर्णास्ते स्वधर्मोत्तराः शुभाः ॥ 006c
धर्मसत्यप्रधानाश्च सत्यं सद्विषयान्वितम् । 007a
धर्मासनस्थः सद्भिः स स्त्रीबालातुरवृद्धकान् । 007c
वर्णक्रमान्पूर्णभृतान्साकल्याद्रक्षणोद्यतः ॥ 007e
अवृत्तिवृत्तिदानाद्यैर्यज्ञाद्यैर्व्याधितैरपि । 008a
आमुष्मिकं भयं नास्ति लौकिकं कृतमेव ॥ 008c
स्वर्गलोकोपमो लोकस्तदा तस्मिन्प्रशासति । 009a
बभूव सुखमेवाग्रं तद्विशिष्टतरं परम् ॥ 009c
नार्यः पतिव्रताः सर्वा रूपवत्यः स्वलङ्कृताः । 010a
यथोक्तवृत्ताः स्वगुणैर्बभूवुः प्रीतिहेतवः ॥ 010c
पुमांसः पुण्यशीलाढ्याः स्वंस्वं धर्ममनुव्रताः । 011a
सुखिनः सूक्ष्ममप्येनो न कुर्वन्ति कदाचन ॥ 011c
सर्वे नराश्च नार्यश्च सततं प्रियवादिनः । 012a
अजिह्ममनसः शुक्ला बभूवुः श्रमवर्जिताः ॥ 012c
भूषिताः कुण्डलैर्हारैः कटकैः कटिसूत्रकैः । 013a
सुवाससः सुगन्धाढ्याः प्रायशः पृथिवीतले ॥ 013c
सर्वे ब्रह्मविदो विप्राः सर्वत्र परिनिष्ठिताः । 014a
वलीपलितहीनास्तु सुखिनो दीर्घदर्शिनः ॥ 014c
इच्छा न जायतेऽन्यत्र वर्णेषु न च सङ्करः । 015a
मनुष्याणां महाराज मर्यादा सुव्यवस्थिता ॥ 015c
तस्मिञ्शासति राजेन्द्रे मृगव्यालसरीसृपाः । 016a
अन्योन्यमपि चान्येषु न बाधन्ते कदाचन ॥ 016c
गावः सुक्षीरभूयिष्ठाः सुस्ववालमुखोदराः । 017a
अपीडिताः कर्षकाद्यैर्हृतव्याधिकवत्सकाः ॥ 017c
अवन्ध्यकाला मनुजाः पुरुषार्थेषु च क्रमात् । 018a
विषयेष्वनिषिद्धेषु वेदशास्त्रेषु चोद्यताः ॥ 018c
सुवृत्ता वृषभाः पुष्टा रसनाभाः सुखोदयाः ॥ 019ac
अतीव मधुरः शब्दः स्पर्शश्चातिसुखं रसम् । 020a
रूपं दृष्टिक्षमं रम्यं मनोज्ञं गन्धवद्बभौ ॥ 020c
धर्मार्थकामसंयुक्तं मोक्षाभ्युदयसाधनम् । 021a
प्रह्लादजननं पुण्यं सम्बभूवाथ मानसम् ॥ 021c
स्थावरा बहुपुष्पाढ्याः फलच्छायावहास्तथा । 022a
सुस्पर्शा विषहीनाश्च सुपत्रत्वक्प्ररोहिणः ॥ 022c
मनोनुकूलाः सर्वेषां चेष्टाभूतापवर्जिताः । 023a
तथा बभूव राजर्षिस्तद्वृत्तमभवद्भुवि ॥ 023c
सर्वलक्षणसम्पन्नाः पाण्डवा धर्मचारिणः । 024a
ज्येष्ठानुवर्तिनः सर्वे बभूवुः प्रियदर्शनाः ॥ 024c
सिंहोरस्का जितक्रोधास्तेजोबलसमन्विताः । 025a
आजानुबाहवः सर्वे दानशीला जितेन्द्रियाः ॥ 025c
तेषु शासत्सु धरणीमृतवः स्वगुणैर्बभुः । 026a
सुखोदयाय वर्तन्ते ग्रहास्तारागणैः सह ॥ 026c
मही च सस्यबहुला सर्वरत्नगुणोदया । 027a
कामधुग्धेनुवद्भोगान्फलन्ति स्म सहस्रधा ॥ 027c
मन्वादिभिः कृताः पूर्वं मर्यादा मानवेषु याः । 028a
अनतिक्रम्य ताः सर्वाः कुलेषु समयानि च । 028c
अन्वशासत राजानो धर्मपुत्रप्रियङ्कराः ॥ 028e
महाकुलानि धर्मिष्ठा वर्धयन्तो विशेषतः । 029a
मनुप्रणीतया वृत्त्या तेऽन्वशासन्वसुन्धराम् ॥ 029c
राजवृत्तिर्हि सा शश्वद्धर्मिष्ठाऽभून्महीतले । 030a
प्रायो लोकमतिस्तात राजवृत्तानुगामिनी ॥ 030c
एवं भारतवर्षं स्वं राजा स्वर्गं सुरेन्द्रवत् । 031a
शशास जिष्णुना सार्धं गोत्रां गाण्डीवधन्वना' ॥ ॥ 031c

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अश्वमेधपर्वणि पञ्चदशोऽध्यायः ॥ 15 ॥

*अयमध्यायो दाक्षिणात्यकोशेष्वेव दृश्यते । 14-15-31 शशास विष्णुना सार्धं गुप्तो गाण्डीवधन्वनेति थ.पाठः ॥