अध्यायः 014
व्यासनारदकृष्णादिभिर्बन्धुनिधनपरिशोचिनो युधिष्ठिरस्य समाश्वासनेन तत्रान्तर्धानम् ॥ 1 ॥ युधिष्ठिरेण भीष्मादीनामौर्ध्वदेहिकदानेन हास्तिननगरप्रवेशः ॥ 2 ॥
वैशम्पायन उवाच । 001
एवं बहुविधैर्वाक्यैर्मुनिभिस्तैस्तपोधनैः । 001a
समाश्वस्यत राजर्षिर्हितबन्धुर्युधिष्ठिरः ॥ 001c
सोऽनुनीतो भगवता विष्टरश्रवसा स्वयम् । 002a
द्वैपायनेन कृष्णेन देवस्थानेन चाभिभूः ॥ 002c
नारदेनाथ भीमेन नकुलेन च पार्थिव । 003a
कृष्णया सहदेवेन विजयेन च धीमता ॥ 003c
अन्यैश्च पुरुषव्याघ्रैर्ब्राह्मणैः शास्त्रदृष्टिभिः । 004a
व्यजहाच्छोकजं दुःखं सन्तापं चैव मानसम् ॥ 004c
अर्चयामास देवांश्च ब्राह्मणांश्च युधिष्ठिरः । 005a
कृत्वाऽथ प्रेतकार्याणि सर्वेषां कुरुनन्दनः । 005c
अन्वशासच्च धर्मात्मा पृथिवीं सागराम्बराम् ॥ 005e
प्रशान्तचेताः कौरव्यः स्वराज्यं प्राप्य केवलम् । 006a
व्यासं च नारदं चैव तांश्चान्यानब्रवीन्नृपः ॥ 006c
आश्वासितोऽहं प्राग्वृद्धैर्भवद्भिर्मुनिपुङ्गवैः । 007a
न सूक्ष्ममपि मे किञ्चिद्व्यलीकमिह विद्यते ॥ 007c
अर्थश्च सुमहान्प्राप्तो येन यक्ष्यामि देवताः । 008a
पुरस्कृत्याद्य भवतः समानेष्यामहे मखम् ॥ 008c
हिमवन्तं त्वया गुप्ता गमिष्यामः पितामह । 009a
बह्वाश्चर्यो हि देशः स श्रूयते द्विजसत्तम ॥ 009c
तथा भगवता चित्रं कल्याणं बहु भाषितम् । 010a
देवर्षिणा नारदेन देवस्थानेन चैव ह ॥ 010c
नाभागधेयः पुरुषः कश्चिदेवंविधान्गुरून् । 011a
लभते व्यसनं प्राप्य सुहृदः साधुसम्मतान् ॥ 011c
वैशम्पायन उवाच । 012
एवमुक्तास्तु ते राज्ञा सर्व एव महर्षयः । 012a
अभ्यनुज्ञाप्य राजानं तथोभौ कृष्णफल्गुनौ ॥ 012c
पश्यतामेव सर्वेषां तत्रैवादर्शनं ययुः । 013a
ततो धर्मसुतो राजा तत्रैवोपाविशत्प्रभुः ॥ 013c
एवं नातिमहान्कालः स तेषां सन्न्यवर्तत । 014a
कुर्वतां शौचकार्याणि भीष्मस्य निधने तदा । 014c
महादानानि विप्रेभ्यो ददतामौर्ध्वदेहिकम् ॥ 014e
भीष्मकर्णपुरोगाणां कुरूणां कुरुसत्तम । 015a
सहितो धृतराष्ट्रेण स ददावौर्ध्वदेहिकम् ॥ 015c
ततो दत्त्वा बहुधनं विप्रेभ्यः पाण्डवर्षभः । 016a
धृतराष्ट्रं पुरस्कृत्य विवेश गजसाह्वयम् ॥ ॥ 016c
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अश्वमेधपर्वणि चतुर्दशोऽध्यायः ॥ 14 ॥