अध्यायः 013

कामस्य शक्तिकथनेन दुर्जयत्वकथनपूर्वकं तज्जयोपायकथनम् ॥ 1 ॥

वासुदेव उवाच । 001
न बाह्यं द्रव्यमुत्सृज्य सिद्धिर्भवति भारत । 001a
शारीरं द्रव्यमुत्सृज्य सिद्धिर्भवति वा न वा ॥ 001c
बाह्यद्रव्यविमुक्तस्य शारीरेषु च गृह्यतः । 002a
यो धर्मो यत्सुखं चैव द्विषतामस्तु तत्तव ॥ 002c
द्व्यक्षरस्तु भवेन्मृत्युस्त्र्यक्षरं ब्रह्म शाश्वतम् । 003a
ममेति द्व्यक्षरो मृत्युर्न ममेति च शाश्वतम् ॥ 003c
ब्रह्ममृत्यू ततो राजन्नात्मन्येव व्यवस्थितौ । 004a
अदृश्यमानौ भूतानि योधयेतामसंशयम् ॥ 004c
अविनाशोऽस्य तत्त्वस्य नियतो यदि भारत । 005a
भित्त्वा शरीरं भूतानामहिंसां प्रतिपद्यते ॥ 005c
लब्ध्वा हि पृथिवीं कृत्स्नां सहस्थावरजङ्गमाम् । 006a
ममत्वं यस्य नैव स्यात्किं तया स करिष्यति ॥ 006c
अथवा वसतः पार्थ वने वन्येन जीवतः । 007a
ममता यस्य वित्तेषु मृत्योरास्ये स वर्तते ॥ 007c
ब्राह्यान्तराणां शत्रूणां स्वभावं पश्य भारत । 008a
यन्न पश्यति तद्भूतं मुच्यते स महाभयात् ॥ 008c
कामात्मानं न प्रशंसन्ति लोके नेहाकामा काचिदस्ति प्रवृत्तिः । 009a
सर्वे कामा मनसोऽङ्ग प्रभूता यान्पण्डितः संहरते विचिन्त्य । 009c
भूयोभूयो जन्मनोऽभ्यासयोगाद्योगी योगं सारमार्गं विचिन्त्य ॥ 009e
दानं च वेदाध्ययनं तपश्च काम्यानि कर्माणि च वैदिकानि । 010a
व्रतं यज्ञान्नियमान्ध्यानयोगान्कामेन यो नाऽऽरभते विदित्वा । 010c
यद्यच्चायं कामयते स धर्मो नयो धर्मो नियमस्तस्य मूलम् ॥ 010e
अत्र गाथाः कामगीताः कीर्तयन्ति पुराविदः । 011a
शृणु सङ्कीर्त्यमानास्ता अखिलेन युधिष्ठिर ॥ 011c
काम उवाच । 012
नाहं शक्योऽनुपायेन हन्तुं भूतेन केनचित् ॥ 012ac
यो मां प्रयतते हन्तुं ज्ञात्वा प्रहरणे बलम् । 013a
तस्य तस्मिन्प्रहरणे पुनः प्रादुर्भवाम्यहम् ॥ 013c
यो मां प्रयतते हन्तुं यज्ञैर्विविधदक्षिणैः । 014a
जङ्गमेष्विव धर्मात्मा पुनः प्रादुर्भवाम्यहम् ॥ 014c
यो मां प्रयतते हन्तुं वेदैर्वेदान्तसाधनैः । 015a
स्थावरेष्विव भूतात्मा तस्य प्रादुर्भवाम्यहम् ॥ 015c
यो मां प्रयतते हन्तुं धृत्या सत्यपराक्रमः । 016a
भावो भवामि तस्याहं स च मां नावबुध्यते ॥ 016c
यो मां प्रयतते हन्तुं तपसा संशितव्रतः । 017a
ततस्तपसि तस्याथ पुनः प्रादुर्भवाम्यहम् ॥ 017c
यो मां प्रयतते हन्तुं मोक्षमास्थाय पण्डितः । 018a
तस्य मोक्षरतिस्थस्य नृत्यामि च हसामि च । 018c
अवध्यः सर्वभूतानामहमेकः सनातनः ॥ 018e
तस्मात्त्वमपि तं कामं यज्ञैर्विविधदक्षिणैः । 019a
धर्मे कुरु महाराज तत्र ते स भविष्यति ॥ 019c
यजस्व वाजिमेधेन विधिवद्दक्षिणावता । 020a
अन्यैश्च विविधैर्यज्ञैः समृद्धैराप्तदक्षिणैः ॥ 020c
मा ते व्यथाऽस्तु निहतान्बन्धून्वीक्ष्य पुनःपुनः । 021a
न शक्यास्ते पुनर्द्रष्टुं येऽहतास्मिन्रणाजिरे ॥ 021c
स त्वमिष्ट्वा महायज्ञैः समृद्धैराप्तदक्षिणैः । 022a
कीर्तिं लोके परां प्राप्य गतिमग्र्यां गमिष्यसि ॥ ॥ 022c

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अश्वमेधपर्वणि त्रयोदशोऽध्यायः ॥ 13 ॥

14-13-1 न बाह्यस्य राज्यादेरर्थस्य त्यागात्त्यागी भवति किन्तु शारीरं कामादिकं त्यक्त्वैव सिद्धिर्मोक्षः नवेति शुष्कवैराग्यवतो विवेकशून्यस्य सिद्ध्यभावं सूचयति । उत्सृज्य सिद्धिर्भवति भारतेति क.ध.पाठः ॥ 14-13-2 गृद्ध्यतः सक्तस्य यो धर्मः सः अधर्म एव यत्सुखं तद्दुःखमेव ॥ 14-13-3 मम त्वं संसारहेतुः तदभावो ब्रह्मप्राप्तिहेतुरित्यर्थः ॥