अध्यायः 012

कृष्णेन युधिष्ठिरम्प्रति शारीरमानसभेदनेन व्याधेर्द्वैविध्याभिधानपूर्वकं तत्परिहारोपायकथनम् ॥ 1 ॥

वासुदेव उवाच । 001
द्विविधो जायते व्याधिः शारीरो मानसस्तथा । 001a
परस्परं तयोर्जन्म निर्द्वन्द्वं नोपपद्यते ॥ 001c
शरीरे जायते व्याधिः शारीरः स निगद्यते । 002a
मानसे जायते व्याधिर्मानसस्तु निगद्यते ॥ 002c
शीतोष्णे चैव वायुश्च गुणा राजञ्शरीरजाः । 003a
तेषां गुणानां साम्यं चेत्तदाहुः स्वस्थलक्षणम् ॥ 003c
उष्णेन बाध्यते शीतं शीतेनोष्णं च बाध्यते ॥ 004ac
सत्वं रजस्तमश्चेति त्रय आत्मगुणाः स्मृताः । 005a
तेषां गुणानां साम्यं चेत्तदाहुः स्वस्थलक्षणम् ॥ 005c
तेषामन्यतमोत्सेके विधानमुपदिश्यते । 006a
हर्षेण बाध्यते शोको हर्षः शोकेन बाध्यते ॥ 006c
कश्चिद्दुःखे वर्तमानः सुखस्य स्मर्तुमिच्छति । 007a
कश्चित्सुखे वर्तमानो दुःखस्य स्मर्तुमिच्छति ॥ 007c
स त्वं न दुःखी दुःखस्य न सुखी सुसुखस्य वा । 008a
स्मर्तुमिच्छसि कौन्तेय दैवं हि बलवत्तरम् । 008c
अथवा ते स्वभावोऽयं येन पार्थावकृष्यसे ॥ 008e
दृष्ट्वा सभागतां कृष्णामेकवस्त्रां रजस्वलाम् । 009a
मिषतां पाण्डवेयानां न तस्य स्मर्तुमिच्छसि ॥ 009c
प्रव्राजनं च नगरादजिनैश्च विवासनम् । 010a
महारण्यनिवासश्च न तस्य स्मर्तुमिच्छसि ॥ 010c
जटासुरात्परिक्लेशश्चित्रसेनेन चाहवः । 011a
सैन्धवाच्च परिक्लेशो न तस्य स्मर्तुमिच्छसि ॥ 011c
पुनरज्ञातचर्यायां कीचकेन पदा वधः । 012a
याज्ञसेन्यास्तथा पार्थ न तस्य स्मर्तुमिच्छसि ॥ 012c
यच्च ते द्रोणभीष्माभ्यां युद्धमासीदरिन्दम । 013a
मनसैकेन योद्धव्यं तत्ते युद्धमुपस्थितम् ॥ 013c
तस्मादभ्युपगन्तव्यं युद्धाय भरतर्षभ । 014a
परमव्यक्तरूपस्य पारं युक्त्या स्वकर्मभिः ॥ 014c
यत्र नैव शरैः कार्यं न भृत्यैर्न च बन्धुभिः । 015a
आत्मनैकेन योद्धव्यं तत्ते युद्धमुपस्थितम् ॥ 015c
तस्मिन्ननिर्जिते युद्धे कामवस्थां गमिष्यसि । 016a
एतज्ज्ञात्वा तु कौन्तेय कृतकृत्यो भविष्यसि ॥ 016c
एतां बुद्धिं विनिश्चित्य भूतानामागतिं गतिम् । 017a
पितृपैतामहे वृत्ते शाधि राज्यं यथोचितम् ॥ ॥ 017c

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अश्वमेधपर्वणि द्वादशोऽध्यायः ॥ 12 ॥

14-12-3 शीतोष्णे कफपित्ते वायुर्वातः तेषां साम्ये स्वास्थ्यं वैषम्ये व्याधिर्भवतीत्यर्थः ॥ 14-12-4 शीतोष्णयोरन्यतराधिक्यजं दोषमितरवर्धकेनौषधादिनापनयेदित्यर्थः ॥ 14-12-12 कीचकेन पराभव इति क.पाठः ॥ 14-12-15 आत्मना मनसा ॥