अध्यायः 010

इन्द्रेण गन्धर्वमुखात्स्वेन याजनाय बृहस्पतिवरणं चोदितेनापि मरुत्तेन तदनङ्गीकारे यज्ञविघाताय साटोपं यज्ञवाटं प्रत्यागमनम् ॥ 1 ॥ संवर्तेन मरुत्तप्रार्थनया विद्याबलेनेन्द्रादीनां संस्तम्भनम् ॥ 2 ॥ ततः संवर्तानुवर्तिनेन्द्रेण सभानिर्मापणादिना यज्ञनिर्वर्तनपूर्वकं देवैः सह हविर्ग्रहणम् ॥ 3 ॥ व्यासेनैवं युधिष्ठिरं प्रति मरुत्तयज्ञप्रवृत्तिप्रकारकथनपूर्वकं तच्छिष्टद्रव्याहरणेनाश्वमेधकरणविधानम् ॥ 4 ॥

इन्द्र उवाच । 001
एवमेतद्ब्रह्मबलं गरीयो न ब्राह्मणात्किञ्चिदन्यद्ररीयः । 001a
आविक्षितस्य तु बलं न मृष्ये वज्रमस्मै प्रहरिष्यामि घोरम् ॥ 001c
धृतराष्ट्र गच्छ प्रहितो मरुत्तं संवर्तेन सङ्गतं तं वदस्व 002a
बृहस्पतिं त्वमुपशिक्षस्व राजन्वज्रं वा ते प्रहरिष्यामि घोरम् ॥ 002c
व्यास उवाच । 003
ततो गत्वा धृतराष्ट्रो नरेन्द्रं प्रोवाचेदं वचनं वासवस्य ॥ 003ac
गन्धर्वं मां धृतराष्ट्रं निबोध त्वामागतं वक्तुकामं नरेन्द्र । 004a
ऐन्द्रं वाक्यं शृणु मे राजसिंह यत्प्राह लोकाधिपतिर्महात्मा ॥ 004c
बृहस्पतिं याजकं त्वं वृणीष्व वज्रं वा ते प्रहरिष्यामि घोरम् । 005a
वचश्चेदेतन्न करिष्यसे मे प्राहैतदेतावदचिन्त्यकर्मा ॥ 005c
मरुत्त उवाच । 006
त्वं चैवैतद्वेत्थ पुरन्दरश्च विश्वेदेवा वसवश्चाश्विनौ च । 006a
मित्रद्रोहे निष्कृतिर्नास्ति लोके महत्पापं ब्रह्महत्यासमं तत् ॥ 006c
बृहस्पतिर्याजयतां महेन्द्रं देवश्रेष्ठं वज्रभृतां वरिष्ठम् । 007a
संवर्तो मां याजयिताऽद्य राजन्न ते वाक्यं तस्य वा रोचयामि ॥ 007c
गन्धर्व उवाच । 008
घोरो नादः श्रूयतां वासवस्य नभस्तले गर्जतो राजसिंह । 008a
व्यक्तं वज्रं मोक्ष्यते ते महेन्द्रः क्षेमं राजंश्चिन्त्यतामेष कालः ॥ 008c
व्यास उवाच । 009
इत्येवमुक्तो धृतराष्ट्रेण राजञ्श्रुत्वा नादं नदतो वासवस्य । 009a
तपोनित्यं धर्मविदां वरिष्ठं संवर्तं तं ज्ञापयामास कार्यम् ॥ 009c
मरुत्त उवाच । 010
पश्याऽऽत्मानं प्लवमानं त्वमारादध्वा दूरं तेन न दृश्यतेऽद्य । 010a
प्रपद्येऽहं शर्म विप्रेन्द्र त्वत्तः प्रयच्छ तस्मादभयं विप्रमुख्य ॥ 010c
अयमायाति वे वज्री दिशो विद्योतयन्दश । 011a
अमानुषेण घोरेण सदस्यास्त्रासिता हि नः ॥ 011c
संवर्त उवाच । 012
भयं शक्राद्व्येतु ते राजसिंह प्रणोत्स्येऽहं भयमेतत्सुघोरम् । 012a
संस्तम्भिन्या विद्यया क्षिप्रमेव मा भैस्त्वमस्याभिभवात्प्रतीतः ॥ 012c
अहं संस्तम्भयिष्यामि मा भैस्त्वं शक्रतो नृप । 013a
सर्वेषामेव देवानां क्षयितान्यायुधानि मे ॥ 013c
दिशो वज्रं व्रजतां वायुरेतु वर्षं भूत्वा वर्षतां काननेषु । 014a
आपः प्लवन्त्वन्तरिक्षे वृथा च सौदामनी दृश्यते माऽपि भैस्त्वम् ॥ 014c
वह्निर्देवस्त्रातु वा सर्वतस्ते कामान्सर्वान्वर्षतु वासवो वा । 015a
वज्रं तथा स्थापयतां वधाय महाघोरं प्लवमानं जलौघैः ॥ 015c
मरुत्त उवाच । 016
घोरः शब्दः श्रूयते वै महास्वनो वज्रस्यैष सहितो मारुतेन । 016a
आत्मा हि मे प्रव्यथते मुहुर्मुहुर्न मे स्वास्थ्यं जायते चाद्य विप्र ॥ 016c
संवर्त उवाच । 017
वज्रादुग्राद्व्येतु भयं तवाद्य वातो भूत्वा व्रजतु नरेन्द्र वज्रम् । 017a
भयं त्वक्त्वा वरमन्यं वृणीष्व कं ते कामं तपसा साधयामि ॥ 017c
मरुत्त उवाच । 018
इन्द्रः साक्षात्सहसाऽभ्येतु विप्र हविर्यज्ञे प्रतिगृह्णातु चैव । 018a
स्वंस्वं हविश्चैव जुषन्तु देवा हुतं सोमं प्रतिगृह्णन्तु चैव ॥ 018c
संवर्त उवाच । 019
अयमिन्द्रो हरिभिरायाति राजन्देवैः सर्वैस्त्वरितैः स्तूयमानः । 019a
मन्त्राहूतो यज्ञमिमं मयाऽद्य पश्यस्वैनं मन्त्रविस्रस्तकायम् ॥ 019c
व्यास उवाच । 020
ततो देवैः सहितो देवराजो रथे युङ्क्त्वा तान्हरीन्वाजिमुख्यान् । 020a
आयाद्यज्ञमथ राज्ञः पिपासुराविक्षितस्याप्रमेयस्य सोमम् ॥ 020c
तमायान्तं सहितं देवसङ्घैः प्रत्युद्ययौ सपुरोधा मरुत्तः । 021a
चक्रे पूजां देवराजाय चाग्र्यां यथाशास्त्रं विधिवत्प्रीयमाणः ॥ 021c
संवर्त उवाच । 022
सुस्वागतं ते पुरुहूतेह विद्वन्यज्ञोऽप्ययं सन्निहिते त्वयीन्द्र । 022a
शोशुभ्यते बलवृत्रघ्न भूयः पिबस्व सोमं सुतमुद्यतं मया ॥ 022c
मरुत्त उवाच । 023
शिवेन मां पश्य नमश्च तेऽस्तु प्राप्तो यज्ञः सफलं जीवितं मे । 023a
अयं यज्ञं कुरुते मे सुरेन्द्रबृहस्पतेरवरो जन्मना च । 023c
इन्द्र उवाच । 024
जानामि ते गुरुमेनं तपोधनं बृहस्पतेरनुजं तिग्मतेजसम् 024a
यस्याह्वानादागतोऽहं नरेन्द्र प्रीतिर्मेऽद्य त्वयि मन्युः प्रनष्टः ॥ 024c
संवर्त उवाच । 025
यदि प्रीतस्त्वमसि वै देवराज तस्मात्स्वयं शाधि यज्ञे विधानम् । 025a
स्वयं सर्वान्कुरु भागान्सुरेन्द्र जानात्वयं सर्वलोकश्च देव ॥ 025c
व्यास उवाच । 026
एवमुक्तस्त्वाङ्गिरसेन शक्रः समादिदेश स्वयमेव देवान् । 026a
सभाः क्रियन्तामावसथाश्च मुख्याः सहस्रशश्चित्रभूताः समृद्धाः ॥ 026c
क्लृप्ताः स्थूणाः कुरुताऽऽरोहणानि गन्धर्वाणामप्सरसां च शीघ्रम् । 027a
यत्र नृत्येरन्नप्सरसः समस्ताः स्वर्गोपमः क्रियतां यज्ञवाटः ॥ 027c
इत्युक्तास्ते चक्रुराशु प्रतीता दिवौकसः शक्रवाक्यान्नरेन्द्र । 028a
ततो वाक्यं प्राह राजानमिन्द्रः प्रीतो राजन्पूज्यमानो मरुत्तम् ॥ 028c
एष त्वयाऽहमिह राजन्समेत्य ये चाप्यन्ये तव पूर्वे नरेन्द्र । 029a
सर्वाश्चान्या देवताः प्रीयमाणा हविस्तुभ्यं प्रतिगृह्णन्तु राजन् ॥ 029c
आग्नेयं वै लोहितमालभन्तां वैश्वदेवं बहुरूपं हि राजन् । 030a
निलं चोक्षाणं मेद्यमप्यालभन्तां चलच्छिश्नं सम्प्रदिष्टं द्विजाग्र्याः ॥ 030c
ततो यज्ञो ववृधे तस्य राजन्यत्र देवाः स्वयमन्नानि जह्रुः । 031a
यस्मिञ्शक्रो ब्राह्मणैः पूज्यमानः सदस्योऽभूद्धरिमान्देवराजः ॥ 031c
ततः संवर्तश्चैत्यगतो माहात्मा यथा वह्निः प्रज्वलितो द्वितीयः । 032a
हवींष्युच्चैराह्वयन्देवसङ्घाञ्जुहावाग्नौ मन्त्रवत्सुप्रतीतः ॥ 032c
ततः पीत्वा बलभित्सोममग्र्यंये चाप्यन्ते सोमपा देवसङ्घाः । 033a
सर्वेऽनुज्ञाताः प्रययुः पार्थिवेन यथाजोषं तर्पिताः प्रीतिमन्तः ॥ 033c
ततो राजा जातरूपस्य राशीन्पदेपदे कारयामास हृष्टः । 034a
द्विजातिभ्यो विसृजन्भूरि वित्तं रराज वित्तेश इवारिहन्ता ॥ 034c
ततो वित्तं विविधं सन्निधाय यथोत्साहं कारयित्वा च कोशम् । 035a
अनुज्ञातो गुरुणा सन्निवृत्त्य शशास गामखिलां सागरान्ताम् ॥ 035c
एवङ्गुणः सम्बभूवेह राजा यस्य क्रतौ तत्सुवर्णं प्रभूतम् । 036a
तत्त्वं समादाय नरेन्द्र वित्तं यजस्व देवांस्तपनीयैर्विधानैः ॥ 036c
वैशम्पायन उवाच । 037
ततो राजा पाण्डवो हृष्टरूपः श्रुत्वा वाक्यं सत्यवत्याः सुतस्य । 037a
मनश्चक्रे तेन वित्तेन यष्टुन्ततोऽमात्यैर्मन्त्रयामास भूयः ॥ ॥ 037c

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अश्वमेधपर्वणि दशमोऽध्यायः ॥ 10 ॥

14-10-6 मित्रद्रोहे निष्कृतिर्वै यथेह नास्तीति सदैव वाद इति क.ट.थ.पाठः ॥ 14-10-8 क्षमं राजन्निति क.ट.थ.पाठः ॥ 14-10-30 विलोभ्य च्छित्त्वा मत्प्रतिष्ठा द्विनेन्द्राः इति क.ट.थ.पाठः ॥ 14-10-36 देवांस्तर्पयानो निवापैः इति झ.पाठः ॥