अध्यायः 009
बृहस्पतिना इन्द्रं प्रति स्वानुजेन संवर्तेन मरुत्तस्य याजनकथनपूर्वकं तद्विघटनचोदना ॥ 1 ॥ अग्निना मरुत्तमेत्य याजनाय बृहस्पतिस्वीकरणरूपेन्द्रसन्देशकथनम् ॥ 2 ॥ तथा पुनरिन्द्रमेत्य मरुत्तेन स्वसन्देशापरिग्रहणनिवेदनम् ॥ 3 ॥ तथा इन्द्रेण पुनर्मरुत्ते स्वसन्देशनिवेदनचोदने संवर्ततपोभयात्तदनङ्गीकरणम् ॥ 4 ॥
इन्द्र उवाच । 001
कच्चित्सुखं स्वपिषि त्वं बृहस्पते कच्चिन्मनोज्ञाः परिचारकास्ते । 001a
कच्चिद्देवानां सुखकामोऽसि विप्र कच्चिद्देवास्त्वां परिपालयन्ति ॥ 001c
बृहस्पतिरुवाच । 002
सुखं शये शयने देवराज तथा मनोज्ञाः परिचारका मे । 002a
तथा देवानां सुखकामोऽस्मि नित्यं देवाश्च मां सुभृशं पालयन्ति ॥ 002c
इन्द्र उवाच । 003
कुतो दुःखं मानसं देहजं वा पाण्डुर्विवर्णश्च कुतस्त्वमद्य । 003a
आचक्ष्व मे ब्राह्मण यावदेतान्निहन्मि सर्वांस्तव दुःखकर्तॄन् ॥ 003c
बृहस्पतिरुवाच । 004
मरुत्तमाहुर्मघवन्यक्ष्यमाणं महायज्ञेनोत्तमदक्षिणेन । 004a
संवर्तो याजयतीति मे श्रुतं तदिच्छामि न स तं याजयेत ॥ 004c
इन्द्र उवाच । 005
सर्वान्कामाननुयातोऽसि विप्र त्वं देवानां मन्त्रयसे पुरोधाः । 005a
उभौ च ते जरामृत्यू व्यतीतौ किं संवर्तस्तव कर्ताऽद्य विप्र ॥ 005c
बृहस्पतिरुवाच । 006
देवैः सह त्वमसुरान्सम्प्रणुद्य जिघांससे चाप्युत सानुबन्धान् । 006a
यंयं समृद्धं पश्यसि तत्रतत्र दुःखं सपत्नेषु समृद्धिभावः ॥ 006c
अतोऽस्मि देवेन्द्र विवर्णरूपः सपत्नो मे वर्धते तन्निशम्य । 007a
सर्वोपायैर्मघवन्सन्नियच्छ संवर्तं वा पार्थिवं वा मरुत्तम् ॥ 007c
इन्द्र उवाच । 008
एहि गच्छ प्रहितो जातवेदो बृहस्पतिं परिदातुं मरुत्ते । 008a
अयं वै त्वां याजयिता बृहस्पतिस्तथाऽमरं चैव करिष्यतीति ॥ 008c
अग्निरुवाच । 009
अहं गच्छामि तव शक्राद्य दूतो बृहस्पतिं परिदातुं मरुत्ते । 009a
वाचं सत्यां पुरुहूतस्य कर्तुं बृहस्पतेश्चापचितिं चिकीर्षुः ॥ 009c
व्यास उवाच । 010
ततः प्रायाद्धूमकेतुर्महात्मा वनस्पतीन्वीरुधश्चावमृद्नन् । 010a
कामाद्धिमान्ते परिवर्तमानः काष्ठातिगो मातरिश्वेव नर्दन् ॥ 010c
मरुत्त उवाच । 011
आश्चर्यमद्य पश्यामि रूपिणं वह्निमागतम् । 011a
आसनं सलिलं पाद्यं गां चोपानय वै मुने ॥ 011c
अग्निरुवाच । 012
आसनं सलिलं पाद्यं प्रतिनन्दामि तेऽनघ । 012a
इन्द्रेण तु समादिष्टं विद्धि मां दूतमागतम् ॥ 012c
मरुत्त उवाच । 013
कच्चिच्छ्रीमान्देवराजः सुखी च कच्चिच्चास्मान्प्रीयते धूमकेतो । 013a
कच्चिद्देवा अस्य वशे यथावत्प्रब्रूहि त्वं मम कार्त्स्न्येन देव ॥ 013c
अग्निरुवाच । 014
शक्रो भृशं सुसुखी पार्थिवेन्द्र प्रीतिं चेच्छत्यजरां वै त्वया सः । 014a
देवाश्च सर्वे वशगास्तस्य राजन्सन्देशं त्वं शृणु मे देवराज्ञः ॥ 014c
यदर्थं मां प्राहिणोत्त्वत्सकाशं बृहस्पतिं परिदातुं मरुत्ते । 015a
अयं गुरुर्याजयतां नृप त्वां मर्त्यं सन्तममरं त्वां करोतु ॥ 015c
मरुत्त उवाच । 016
संवर्तोऽयं याजयिता द्विजो मां बृहस्पतेरञ्जलिरेष तस्य । 016a
न चैवासौ याजयित्वा महेन्द्रं मर्त्यं सन्तं याजयन्नद्य शोभेत् ॥ 016c
अग्निरुवाच । 017
ये वै लोका देवलोके महान्तः सम्प्राप्स्यसे तान्देवराजप्रसादात् । 017a
त्वां चेदसौ याजयेद्वै बृहस्पतिर्नूनं स्वर्गं त्वं जयेः कीर्तियुक्तः ॥ 017c
तथा लोका मानुषा ये च दिव्याः प्रजापतेश्चापि ये वै महान्तः । 018a
ते ते जिता देवराज्यं च कृत्स्नं बृहस्पतिर्याजयेच्चेन्नरेन्द्र ॥ 018c
संवर्त उवाच । 019
मा स्मैव त्वं पुनरागाः कथञ्चिद्बृहस्पतिं परिदातुं मरुत्ते । 019a
मा त्वां धक्ष्ये चक्षुषा दारुणेन सङ्क्रुद्धोऽहं पावक त्वं निबोध ॥ 019c
व्यास उवाच । 020
ततो देवानगमद्धूमकेतुर्दाहाद्भीतो व्यथितोऽश्वत्थपर्णवत् । 020a
तं वै दृष्ट्वा प्राह शक्रो महात्मा बृहस्पतेः सन्निधौ हव्यवाहम् ॥ 020c
यस्त्वं गतः प्रहितो जातवेदो बृहस्पतिं परिदातुं मरुत्ते । 021a
तत्किं प्राह स नृपो यक्ष्यमाणः कच्चिद्वचः प्रतिगृह्णाति तच्च । 021c
अग्निरुवाच । 022
न ते वाचं रोचयते मरुत्तो बृहस्पतेरञ्जलिं प्राहिणोत्सः । 022a
संवर्तो मां याजयितेत्युवाच पुनः पुनः स मया याच्यमानः ॥ 022c
उवाचेदं मानुषा ये च दिव्या प्रजापतेर्ये च लोका महान्तः । 023a
तांश्चेल्लभेयं संविदं तेन कृत्वा तथाऽपि नेच्छेयमिति प्रतीतः ॥ 023c
इन्द्र उवाच । 024
पुनर्गत्वा पार्थिवं त्वं समेत्य वाक्यं मदीयं प्रापय स्वार्थयुक्तम् । 024a
पुनर्यद्युक्तो न करिष्यते वचस्त्वत्तो वज्रं सम्प्रहर्ताऽस्मि तस्मै ॥ 024c
अग्निरुवाच । 025
गन्धर्वराड्यात्वयं तत्र दूतो बिभेम्यहं वासव तत्र गन्तुम् । 025a
संरब्धो मामब्रवीत्तीक्ष्णरोषः संवर्तो वाक्यं चरितब्रह्मचर्यः ॥ 025c
यद्यागच्छेः पुनरेवं कथञ्चिद्बृहस्पतिं परिदातुं मरुत्ते । 026a
दहेयं त्वां चक्षुषा दारुणेन सङ्क्रुद्ध इत्येतदवैहि शक्र ॥ 026c
शक्र उवाच । 027
त्वमेवान्यान्दहसे जातवेदो न हि त्वदन्यो विद्यते भस्मकर्ता । 027a
त्वत्संस्पर्शात्सर्वलोको बिभेति अश्रद्धेयं वदसे हव्यवाह ॥ 027c
अग्निरुवाच । 028
दिवं देवेन्द्र पृथिवीं च सर्वां संवेष्टयेस्त्वं स्वबलेनैव शक्र । 028a
एवंविधस्येह सतस्तवासौ कथं वृत्रस्त्रिदिवं प्राग्जहार ॥ 028c
इन्द्र उवाच । 029
नगण्डिकाकारयोगं करेऽणुं न चारिसोमं प्रपिबामि वह्ने । 029a
न क्षीणशक्तौ प्रहारामि वज्रं को मे सुखाय प्रहरेत मर्त्यः ॥ 029c
प्रव्राजयेयं कालकेयान्पृथिव्यामपाकर्षन्दानवानन्तरिक्षात् । 030a
दिवः प्रह्लादमवसानमानयं को मेऽसुखाय प्रहरेत मानवः ॥ 030c
अग्निरुवाच । 031
यत्र शर्यातिं च्यवनो याजयिष्यन्सहाश्विभ्यां सोममगृह्णदेकः । 031a
तं त्वं क्रुद्धः प्रत्यषेधीः पुरस्ताच्छर्यातियज्ञं स्मर तं महेन्द्र ॥ 031c
वज्रं गृहीत्वा च पुरन्दर त्वं सम्प्राहार्षीश्च्यवनस्यातिघोरम् । 032a
स ते विप्रः सह वज्रेण बाहुमपागृह्णात्तपसा जातमन्युः ॥ 032c
ततो रोषात्सर्वतो घोररूपं सपत्नं ते जनयामास भूयः । 033a
मदं नाम्ना चासुरं विश्वरूपं यं त्वं दृष्ट्वा चक्षुषी सन्न्यमीलः ॥ 033c
हनुरेका जगतीस्था तथैका दिवं गता महतो दानवस्य । 034a
सहस्रं दन्तानां शतयोजनानां सुतीक्ष्णानां घोररूपं बभूव ॥ 034c
वृत्ताः स्थूला रजतस्तम्भवर्णा दंष्ट्राश्चतस्रो द्वे शते योजनानाम् । 035a
स त्वां दन्तान्विदशन्नभ्यधावज्जिघांसया शूलमुद्यम्य घोरम् ॥ 035c
तं नापश्यस्त्वं तदा घोररूपं सर्वे वै त्वां ददृशुर्दर्शनीयम् । 036a
यस्माद्भीतः प्राञ्जलिस्त्वं महर्षिमागच्छेथाः शरणं दानवघ्न ॥ 036c
क्षात्राद्बलाद्ब्रह्मबलं गरीयो न ब्रह्मतः किञ्चिदन्यद्गरीयः । 037a
सोऽहं जानन्ब्रह्मतेजो यथावन्न संवर्तं गन्तुमिच्छामि शक्र ॥ ॥ 037c
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अश्वमेधपर्वणि नवमोऽध्यायः ॥ 9 ॥
14-9-29 नाहं दौर्बल्याद्वृत्रेण जित इति वक्तं स्वसामर्थ्यमिन्द्रो वह्निं प्रति वदति नगण्डिकाकारयोगं करेणुम् । नगं पर्वतं डीयते विहायसा गच्छतीति डीः पक्षी अल्पो डीर्डिका मक्षिकामशकादिस्तस्या आकारेण योगोऽस्यास्तीत्येवं रूपं अणुं सूक्ष्मं करे कुर्वे । कृञश्छान्दसं भौवादिकत्वम् । करेणेतिपाठे करोमीत्यध्याहारः । पाथोधिं करे कर्तुमगस्त्य इवाहं पर्वतमपि मशकीकर्तुं समर्थोऽस्मीत्यर्थः । कुतस्तर्हि वृत्रस्त्वां नाराधितवानित्यत आह न चारिसोमं प्रपिबामि वह्ने । अरिसोमं शत्रुदत्तं सोमम् । त्वयैव स कुती न निर्जित इत्यत आह न क्षीणशक्तौ प्रहरामि वज्रमित्यादिना न दण्डकान्नारकान्नो कलिङ्गान्न करूशान्सोमं प्रपिबामि वह्ने । न दुर्बलायावसृजामि वज्रं को मे सुखी यः प्रहरेन्मनुष्यः इति क.थ.पाठः ॥