अध्यायः 008
संवर्तेन मरुत्तं प्रति हिमवत्सन्निहिते मुञ्जवतिगिरौ महादेवस्य निवासकथनपूर्वकं स्वोक्तनामशतकेन स्तुत्या तत्प्रसादनेन यागाय तत्रत्यबहुसुवर्णहरणचोदना ॥ 1 ॥ संवर्तेन तदाहरणेन शिल्पिभिर्यागोपयोगिभाण्डनिर्मापणम् ॥ 2 ॥ इन्द्रेण तच्छ्रवणनिर्विण्णस्य बृहस्पतेः समीपं प्रत्यागमनम् ॥ 3 ॥
संवर्त उवाच । 001
गिरेर्हिमवतः पृष्ठे मुञ्जवान्नाम पर्वतः । 001a
तप्यते यत्र भगवांस्तपो नित्यमुमापतिः ॥ 001c
वनस्पतीनां मूलेषु शृङ्गेषु विषमेषु च । 002a
गुहासु शैलराजस्य यथाकामं यथासुखम् ॥ 002c
उमासहायो भगवान्यत्र नित्यं महेश्वरः । 003a
आस्ते शूली महातेजा नानाभूतगणावृतः ॥ 003c
तत्र रुद्राश्च साध्याश्च विश्वेऽथ वसवस्तथा । 004a
यमश्च वरुणश्चैव कुबेरश्च सहानुगः ॥ 004c
भूतानि च पिशाचाश्च नासत्यावपि चाश्विनौ । 005a
गन्धर्वाप्सरसश्चैव यक्षा देवर्षयस्तथा ॥ 005c
आदित्या मरुतश्चैव यातुधानाश्च सर्वशः । 006a
उपासन्ते महात्मानं बहुरूपमुमापतिम् ॥ 006c
रमते भगवांस्तत्र कुबेरानुचरैः सह । 007a
विकृतैर्विकृताकारैः क्रीडद्भिः पृथिवीपते ॥ 007c
श्रिया ज्वलन्दृश्यते वै बालादित्यसमद्युतिः । 008a
न रूपं शक्यते तस्य संस्थानं वा कदाचन । 008c
निर्देष्टुं प्राणिभिः कैश्चित्प्राकृतैर्मांसलोचनैः ॥ 008e
नोष्णं न शिशिरं तत्र न वायुर्न च भास्करः । 009a
न जरा क्षुत्पिपासे वा न मृत्युर्न भयं नृप ॥ 009c
तस्य शैलस्य पार्श्वेषु सर्वेषु जयतांवर । 010a
धातवो जातरूपस्य रश्मयः सवितुर्यथा ॥ 010c
रक्ष्यन्ते ते कुबेरस्य सहायैरुद्यतायुधैः । 011a
चिकीर्षद्भिः प्रियं राजन्कुबेरस्य महात्मनः ॥ 011c
'तत्र गत्वा समन्वास्य महायोगेश्वरं शिवम् । 012a
कुरु प्रणामं राजर्षे भक्त्या परमया यतुः ॥' 012c
तस्मै भगवते कृत्वा नमः शर्वाय वेधसे । 013a
'एभिस्तं नामभिर्देवं सर्वविद्याधरं स्तुहि ॥' 013c
रुद्राय शितिकण्ठाय सुरूपाय सुवर्चसे । 014a
कपर्दिने करालाय हर्यक्ष्णे वरदाय च ॥ 014c
त्र्यक्ष्णे पूष्णो दन्तभिदे वामनाय शिवाय च । 015a
याम्यायाव्यक्तरूपाय सद्वृत्ते शङ्कराय च ॥ 015c
क्षेम्याय हरिकेशाय स्थाणवे पुरुषाय च । 016a
हरिनेत्राय मुण्डाय क्रुद्धायोत्तरणाय च ॥ 016c
भास्वराय सुतीर्थाय देवदेवाय रंहसे । 017a
उष्णीषिणे सुवक्त्राय सहस्राक्षाय मीढुषे ॥ 017c
गिरिशाय प्राशान्ताय यतये चीरवाससे । 018a
बिल्वदण्डाय सिद्धाय सर्वदण्डधराय च ॥ 018c
मृगव्याधाय महते धन्विनेऽथ भवाय च । 019a
वराय सोमवक्त्राय सिद्धमन्त्राय चक्षुषे ॥ 019c
हिरण्यबाहवे राजन्नुग्राय पतये दिशाम् । 020a
लेलिहानाय गोष्ठाय सिद्धमन्त्राय वृष्णये ॥ 020c
पशूनां पतये चैव भूतानां पतये नमः । 021a
वृषाय मातृभक्ताय सेनान्ये मध्यमाय च ॥ 021c
'अभिवक्त्राय पतये सर्वदेवमयाय च ।' 022a
स्रुवहस्ताय पतये धन्विने भार्गवाय च । 022c
अजाय कृष्णनेत्राय विरूपाक्षाय चैव ह ॥ 022e
तीक्ष्णदंष्ट्राय तीक्ष्णाय वैश्वानरमुखाय च । 023a
महात्मने चानङ्गाय सर्वाय पतये विशाम् ॥ 023c
'तथा रुद्राय पतये पृथवे कृत्तिवाससे ।' 024a
विलोहिताय दीप्ताय दीप्ताक्षाय महौजसे । 024c
वसुरेतःसुवपुषे पृथवे कृत्तिवाससे ॥ 024e
कपालमालिने चैव सुवर्णमुकुटाय च । 025a
महादेवाय कृष्णाय त्र्यम्बकायानघाय च ॥ 025c
क्रोधनायाऽऽनृशंसाय मृदवे बाहुशालिने । 026a
दण्डिने तप्ततपसे तथैवाक्रूरकर्मणे ॥ 026c
सहस्रशिरसे चैव सहस्रचरणाय च । 027a
नमः स्वधास्वरूपाय बहुरूपाय दंष्ट्रिणे ॥ 027c
पिनाकिनं महादेवं महाभोगिनमव्ययम् । 028a
त्रिशूलहस्तं वरदं त्र्यम्बकं भुवनेश्वरम् ॥ 028c
त्रिपुरघ्नं त्रिनयनं त्रिलोकेशं महौजसम् । 029a
प्रभवं सर्वभूतानां दातारं धरणीधरम् ॥ 029c
ईशानं शङ्करं सर्वं शिवं विश्वेश्वरं भवम् । 030a
उमापतिं पशुपतिं विश्वरूपं महेश्वरम् ॥ 030c
विरूपाक्षं दशभुजं विष्यन्दं गोवृषध्वजम् । 031a
उग्रं स्थाणुं शिवं रौद्रं शर्वं गौरीशमीश्वरम् ॥ 031c
शितिकण्ठमजं शुक्रं पृथुं पृथुहरं वरम् । 032a
विश्वरूपं विरूपाक्षं बहुरूपमुमापतिम् ॥ 032c
प्रणम्य शिरसा देवमनङ्गाङ्गहरं हरम् । 033a
शरण्यं शरणं याहि महादेवं चतुर्मुखम् ॥ 033c
'विरोचमानं वपुषा दिव्याभरणभूषितम् । 034a
अनाद्यन्तमजं शम्भुं सर्वव्यापिनमीश्वरम् ॥ 034c
निस्त्रैगुण्यं निरुद्वेगं निर्मलं निधिमोजसाम् । 035a
प्रणम्य प्राञ्जलिः शर्वं प्रयामि शरणं हरम् ॥ 035c
सम्मान्यं निश्चलं नित्यमकारुण्यमलेपनम् । 036a
अध्यात्मवेदमासाद्य प्रयामि शरणं मुहुः ॥ 036c
यस्य नित्यं विदुः स्थानं मोक्षमध्यात्मचिन्तकाः । 037a
योगीशं तत्वमार्गस्थाः कैवल्यं पदमक्षरम् ॥ 037c
यं विदुः सङ्गिनं मुक्ताः सामान्यं समदर्शिनः । 038a
तं प्रपद्ये जगद्योनिमयोनिं निर्गुणात्मकम् ॥ 038c
असृजद्यस्तु भूतादीन्सप्त लोकान्सनातनान् । 039a
स्थितः सत्योपरि स्थाणुस्तं प्रपद्ये सनातनम् ॥ 039c
भक्तानां सुलभं तं हि दुर्लभं दूरपातिनाम् । 040a
अदूरस्थममुं देवं प्रकृतेः परतः स्थितम् ॥ 040c
नमामि सर्वलोकस्थं व्रजामि शरणं शिवम् ।' 041a
एवं कृत्वा नमस्तस्मै महादेवाय रंहसे । 041c
महात्मने क्षितिपते तत्सुवर्णमवाप्स्यसि ॥ 041e
'लभन्ते गाणपत्यं च तदेकाग्रा हि मानवाः । 042a
किं पुनः स्वर्णिभाण्डानि तस्मात्त्वं गच्छ मा चिरं ॥ 042c
महत्तरं हि ते लाभं हस्त्यश्वोष्ट्रादिभिः सह ।' 043a
सुवर्णमाहरिष्यन्तस्तत्र गच्छन्तु ते नराः ॥ 043c
व्यास उवाच । 044
इत्युक्तः स वचस्तस्य चक्रे कारन्धमात्मजः । 044a
'गङ्गाधरं नमस्कृत्य लब्धवान्धनमुत्तमम् ॥ 044c
कुबेर इव तत्प्राप्य महादेवप्रसादतः ।' 045a
ततोऽतिमानुषं सर्वं चक्रे यज्ञस्य संविधिम् ॥ 045c
सौवर्णानि च भाण्डानि सञ्चक्रुस्तत्र शिल्पिनः । 046a
'शालाश्च सर्वसम्भारांस्तत्र संवर्तशासनात् ॥' 046c
बृहस्पतिस्तु तां श्रुत्वा मरुत्तस्य महीपतेः । 047a
समृद्धिमति देवेभ्यः सन्तापमकरोद्भृशम् ॥ 047c
सन्तप्यमानो वैवर्ण्यं कृशत्वं चागमत्परम् । 048a
भविष्यति हि मे शत्रुः संवर्तो वसुमानिति ॥ 048c
तं श्रुत्वा भृशसन्तप्तं देवराजो बृहस्पतिम् । 049a
अभिगम्यामरवृतः प्रोवाचेदं वचस्तदा ॥ ॥ 049c
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अश्वमेधपर्वणि अष्टमोऽध्यायः ॥ 8 ॥
14-8-15 दैत्यानामशिवाय चेति क. ट. थ. पाठः ॥ 14-8-19 धन्विने भार्गवाय चेति ट. पाठः ॥ वराय सौम्यवक्त्राय पशुहस्ताय वर्षिणे इति क. ट. थ. पाठः ॥ 14-8-27 विरूपाय सुरूपाय महारूपाय दंष्ट्रिणे इति थ. पाठः ॥