अध्यायः 007

संवर्तमरुत्तसंवादः ॥ 1 ॥ संवर्तेन समयबन्धनपूर्वकं मरुत्तं प्रति याजनप्रतिज्ञानम् ॥ 2 ॥

संवर्त उवाच । 001
कथमस्मि त्वया ज्ञातः केन वा कथितोऽस्मि ते । 001a
एतदाचक्ष्व मे तत्त्वमिच्छसे चेन्मम प्रियम् ॥ 001c
सत्यं ते ब्रुवतः सर्वे सम्पत्स्यन्ते मनोरथाः । 002a
मिथ्या च ब्रुवतो मूर्धा शतधा ते स्फुटिष्यति ॥ 002c
मरुत्त उवाच । 003
नारदेन भवान्मह्यमाख्यातो ह्यटता पथि । 003a
गुरुपुत्रो ममेति त्वं ततो मे प्रीतिरुत्तमा ॥ 003c
संवर्त उवाच । 004
सत्यमेतद्भवानाह स मां जानाति सत्रिणम् । 004a
कथयस्व तदेतन्मे क्वनु सम्प्रति नारदः ॥ 004c
मरुत उवाच । 005
भवन्तं कथयित्वा तु मम देवर्षिसत्तमः । 005a
ततो मामभ्यनुज्ञाय प्रविष्टो हव्यवाहनम् ॥ 005c
व्यास उवाच । 006
श्रुत्वा तु पार्थिवस्यैत्संवर्तः प्रमुदं गतः । 006a
एतावदहमप्येवं शक्नुयामिति सोऽब्रवीत् ॥ 006c
ततो मरुत्तमुन्मत्तो वाचा निर्भर्त्सयन्निव । 007a
रूक्षया ब्राह्मणो राजन्पुनःपुनरथाब्रवीत् ॥ 007c
वातप्रधानेन मया स्वचित्तवशवर्तिना । 008a
एवं विकृतरूपेण कथं याजितुमिच्छसि ॥ 008c
भ्राता मम समर्थश्च वासवेन च सङ्गतः । 009a
वर्तते याजने चैव तेन कर्माणि कारय ॥ 009c
गार्हस्थ्यं चैव याज्याश्च सर्वा गृह्याश्च देवताः । 010a
पूर्वजेन ममाऽऽक्षिप्तं शरीरं वर्जितं त्विदम् ॥ 010c
नाहं तेनाननुज्ञातस्त्वामाविक्षित कर्हिचित् । 011a
याजयेयं कथञ्चिद्वै स हि पूज्यतमो मम ॥ 011c
स त्वं बृहस्पतिं गच्छ तमनुज्ञाप्य चाव्रज । 012a
ततोऽहं याजयिष्ये त्वां यदि यष्टुमिहेच्छसि ॥ 012c
मरुत्त उवाच । 013
बृहस्पतिं गतः पूर्वमहं संवर्ते तच्छृणु । 013a
न मां कामयते याज्यं मुनिर्वासववारितः ॥ 013c
अमरं याज्यमासाद्य याजयिष्ये न मानुषम् । 014a
शक्रेण प्रतिषिद्धोऽहं मरुत्तं मा स्म याजये ॥ 014c
स्पर्धते हि मया विप्र सदा हि स तु पार्थिवः । 015a
एवमस्त्विति चाप्युक्तो भ्रात्रा ते बलसूदनः ॥ 015c
स मामधिगतं प्रेम्णा याज्यत्वे न बुभूषति । 016a
देवराजं समाश्रित्य तद्विद्धि मुनिपुङ्गव ॥ 016c
सोऽहमिच्छामि भवता सर्वस्वेनापि याजितुम् । 017a
कामये समतिक्रान्तुं वासवं त्वत्कृतैर्गुणैः ॥ 017c
न हि मे वर्तते बुद्धिर्गन्तुं ब्रह्मन्बृहस्पतिम् । 018a
प्रत्याख्यातो हि तेनास्मि तथाऽनपकृते सति ॥ 018c
संवर्त उवाच । 019
चिकीर्षसि यथाकामं सर्वमेतत्त्वयि ध्रुवम् । 019a
यदि सर्वानभिप्रायान्कर्ताऽसि मम पार्थिव ॥ 019c
याज्यमानं मया हि त्वां बृहस्पतिपुरन्दरौ । 020a
द्विषेतां समभिक्रुद्धावेतदेकं समर्थये ॥ 020c
स्थैर्यमत्र कथं मे स्यात्स त्वं निःसंशयं कुरु । 021a
कुपितस्त्वां न हीदानीं भस्म कुर्यां सबान्धवम् ॥ 021c
मरुत्त उवाच । 022
यावत्तपेत्सहस्रांशुस्तिष्ठेरंश्चापि पर्वताः । 022a
तावल्लोकान्न लभेयं त्यजेयं सङ्गतं यदि ॥ 022c
मा चापि शुभबुद्धित्वं लभेयमिह कर्हिचित् । 023a
विषयैः सङ्गतं चास्तु त्यजेयं सङ्गतं यदि ॥ 023c
संवर्त उवाच । 024
आविक्षित शुभा बुद्धिर्वर्ततां तव कर्मसु । 024a
याजनं हि ममाप्येव वर्तते हृदि पार्थिव ॥ 024c
अभिधास्ये च ते राजन्नक्षयं द्रव्यमुत्तमम् । 025a
येन देवान्सगन्धर्वाञ्शक्रं चाभिभविष्यसि ॥ 025c
न तु मे वर्तते बुद्धिर्धने याज्येषु वा पुनः । 026a
विप्रियं तु करिष्यामि भ्रातुश्चेन्द्रस्य चोभयोः ॥ 026c
गमयिष्यामि शक्रेण समतामपि ते ध्रुवम् । 027a
प्रियं च ते करिष्यामि सत्यमेतद्ब्रवीमि ते ॥ ॥ 027c

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अश्वमेधपर्वणि सप्तमोऽध्यायः ॥ 7 ॥

14-7-1 मे सत्यं जीवितं चेत्प्रियं तवेति क.थ.पाठः ॥ 14-7-4 सत्रिणं कपटवेषच्छन्नम् ॥ 14-7-6 अहमप्येनं कुर्यामिति तमब्रवीदिति क.थ.पाठः ॥ 14-7-8 मधुप्रयोगदानेन स्वचित्तपरिवर्तिनेति क.थ.पाठः ॥ 14-7-23 भोगेषु सम्यग्भोगांश्च त्यजेयमिति क.थ.पाठः ॥