अध्यायः 006

बृहस्पतिना इन्द्रे स्वेन मरुत्तस्यायाजनप्रतिज्ञानश्रवणामर्षिणा मरुत्तेनि स्वयाजनप्रार्थेन तत्प्रत्याख्यानम् ॥ 1 ॥ ततः प्रतिनिवृत्तस्य मरुत्तस्य मध्येमार्गं नारदसमागमः ॥ 2 ॥ नारदचोदनया मरुत्तेन वाराणसीद्वारे स्वेन स्थापितकुणपावलोकनेन प्रलायमानं संवर्तं प्रत्यनुगमनम् ॥ 3 ॥ संवर्तेन तत्प्रतिनिवर्तनाय पांसुकर्दमप्रक्षेपेऽप्यनिवर्तमानं तमवलोक्य विजने न्यग्रोधमूले समुपवेशः ॥ 4 ॥

व्यास उवाच । 001
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । 001a
बृहस्पतेश्च संवादं मरुत्तस्य च धीमतः ॥ 001c
देवराजस्य समयं कृतमाङ्गिरसेन ह । 002a
श्रुत्वा मरुत्तो नृपतिर्मन्युमाहारयत्परम् ॥ 002c
सङ्कल्प्य मनसा यज्ञं करन्धमसुतात्मजः । 003a
बृहस्पतिमुपागम्य वाग्मी वचनमब्रवीत् ॥ 003c
भगवन्यन्मया पूर्वमभिगम्य तपोधन । 004a
कृतोऽभिसन्धिर्यज्ञस्य भवतो वचनाद्गुरो ॥ 004c
तमहं यष्टुमिच्छामि सम्भाराः सम्भृताश्च मे । 005a
याज्योऽस्मि भवतः साधो तत्प्राप्नुहि विधत्स्व च ॥ 005c
बृहस्पतिरुवाच । 006
न कामये याजयितुं त्वामहं पृथिवीपते । 006a
वृतोऽस्मि देवराजेन प्रतिज्ञातं च तस्य मे ॥ 006c
मरुत्त उवाच । 007
पित्र्यमस्मि तव क्षेत्रं बहुमन्ये च ते भृशम् । 007a
तवास्मि याज्यतां प्राप्तो भजमानं भजस्व माम् ॥ 007c
बृहस्पतिरुवाच । 008
अमर्त्यं याजयित्वाऽहं याजयिष्ये कथं नरम् । 008a
मरुत्त गच्छ वा मा वा निवृत्तोऽस्म्यद्य याजनात् ॥ 008c
न त्वां याजयिताऽस्म्यद्य वृणु यं त्वमिहेच्छसि । 009a
उपाध्यायं महाबाहो यस्ते यज्ञं करिष्यति ॥ 009c
व्यास उवाच । 010
एवमुक्तस्तु नृपतिर्मरुत्तो व्रीडितोऽभवत् । 010a
प्रत्यागच्छन्सुसंविग्नो ददर्श पथि नारदम् ॥ 010c
देवर्षिणा समागम्य नारदेनि स पार्थिवः । 011a
विधिवत्प्राञ्जलिस्तस्थावथैनं नारदोऽब्रवीत् ॥ 011c
राजर्षे नातिहृष्टोऽसि कच्चित्क्षेमं तवानघ । 012a
क्व गतोऽसि कुतश्चेदमप्रीतिस्थानमागतम् ॥ 012c
श्रोतव्यं चेन्मया राजन्ब्रूहि मे पार्थिवर्षभ । 013a
व्यपनेष्यामि ते मन्युं सर्वयत्नैर्नराधिप ॥ 013c
एवमुक्तो मरुत्तः स नारदेन महर्षिणा । 014a
विप्रलम्भमुपाध्यायात्सर्वज्ञे तं न्यवेदयत् ॥ 014c
मरुत्त उवाच । 015
गतोऽस्म्यङ्गिरसः पुत्रं देवाचार्यं बृहस्पतिम् । 015a
यज्ञार्थमृत्विजं प्रष्टुं स च मां नाभ्यनन्दत ॥ 015c
प्रत्याख्यातश्च तेनाहं जीवितुं नाद्य कामये । 016a
परित्यक्तश्च गुरुणा दूषितश्चास्मि नारद ॥ 016c
व्यास उवाच । 017
एवमुक्तस्तु राज्ञा स नारदः प्रत्युवाच ह । 017a
आविक्षितं महाराज वाचा सञ्जीवयन्निव ॥ 017c
राजन्नङ्गिरसः पुत्रः संवर्तो नाम धार्मिकः । 018a
चङ्क्रमीति दिशः सर्वा दिग्वासा मोहयन्प्रजाः ॥ 018c
तं गच्छ यदि याज्यं त्वां न वाञ्छति बृहस्पतिः । 019a
प्रसन्नस्त्वां महातेजाः संवर्तो याजयिष्यति ॥ 019c
मरुत्त उवाच । 020
सञ्जीवितोऽहं भवता वाक्येनानेन नारद । 020a
पश्येयं क्व नु संवर्तं शंस मे वदतांवर ॥ 020c
कथं च तस्मै वर्तेयं कथं मां न परित्यजेत् । 021a
प्रत्याख्यातश्च तेनापि नाहं जीवितुमुत्सहे ॥ 021c
नारद उवाच । 022
उन्मत्तवेषं बिभ्रत्स चङ्क्रमीति यथासुखम् । 022a
वाराणसीं तु नगरीमभीक्ष्णमुपसेवते ॥ 022c
तस्या द्वारं समासाद्य न्यसेथाः कुणपं क्वचित् । 023a
तं दृष्ट्वा यो निवर्तेत संवर्तः स महीपते ॥ 023c
तं पृष्ठतोऽनुगच्छेथा यत्र गच्छेत्स वीर्यवान् । 024a
तमेकान्ते समासाद्य प्राञ्जलिः शरणं व्रजेः ॥ 024c
पृच्छेत्त्वां यदि केनाहं तवाऽऽख्यात इति स्म ह । 025a
ब्रूयास्त्वं नारदेनेति स कुत्र इति शत्रुहन् ॥ 025c
स चेत्त्वामनुयुञ्जीत ममानुगमनेप्सया । 026a
शंसेथा वह्निमारूढं मामपि त्वमशङ्कया ॥ 026c
व्यास उवाच । 027
स तथेति प्रतिश्रुत्य पूजयित्वा च नारदम् । 027a
अभ्यनुज्ञाय राजर्षिर्ययौ वाराणसीं पुरीम् ॥ 027c
तत्र गत्वा यथोक्तं स पुर्या द्वारे महायशाः । 028a
कुणपं स्थापयामास नारदस्य वचः स्मरन् ॥ 028c
यौगपद्येन विप्रश्च पुरीद्वारमथाविशत् । 029a
ततः स कुणपं दृष्ट्वा सहसा सन्न्यवर्तत ॥ 029c
स तं निवृत्तमालक्ष्य प्राञ्जलिः पृष्ठतोऽन्वगात् । 030a
आविक्षितो महीपालः संवर्तमुपशिक्षितुम् ॥ 030c
स च तं विजने दृष्ट्वा पांसुभिः कर्दमेन च । 031a
श्लेष्मणा चैव राजानं ष्ठीवनैश्च समाकिरत् ॥ 031c
स तथा बाध्यमानो वै संवर्तेन महीपतिः । 032a
अन्वगादेव तमृषिं प्राञ्जलिः सम्प्रसादयन् ॥ 032c
ततो निवर्त्य संवर्तः परिश्रान्त उपाविशत् । 033a
शीतलच्छायमासाद्य न्यग्रोधं बहुशाखिनम् ॥ ॥ 033c

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अश्वमेधपर्वणि षष्ठोऽध्यायः ॥ 6 ॥

14-6-13 मन्युं दैन्यम् ॥