अध्यायः 005

अङ्गीरसः पुत्रेण संवर्तेनाकारणवैरिणः स्वाग्रजन्मनो बृहस्पतेरुपद्रवासहनेन सर्वस्वत्यागपूर्वकमरण्यप्रवेशः ॥ 1 ॥ इन्द्रेण स्वातिशायिनि मरुत्ते राजनि स्पर्धया बृहस्पतिसाचिव्येन ततोप्यतिशयलिप्सया मरुत्तपुरोहितस्य बृहस्पतेर्भेदोपायेन वशीकरणम् ॥ 2 ॥ बृहस्पतिनेन्द्रम्प्रति मरुत्तस्य स्वेनायाजनप्रतिज्ञानम् ॥ 3 ॥

युधिष्ठिर उवाच । 001
कथंवीर्यः समभवत्स राजा ददतांवरः । 001a
कथं च जातरूपेण समयुज्यत वै नृपः ॥ 001c
क्व च तत्साम्प्रतं द्रव्यं भगवन्नवतिष्ठते । 002a
कथं च शक्यमस्माभिस्तदवाप्तुं तपोधन ॥ 002c
व्यास उवाच । 003
असुराश्चैव देवाश्च दक्षस्याऽऽसन्प्रजापतेः । 003a
अपत्यं बहुलं तात तेऽस्पर्धन्त परस्परम् ॥ 003c
तथैवाऽऽङ्गिरसः पुत्रौ पितृतुल्यौ बभूवतुः । 004a
बृहस्पतिर्बृहत्तेजाः संवर्तश्च तपोधनः ॥ 004c
तावति स्पर्धिनौ राजन्पृथगास्तां परस्परम् । 005a
बृहस्पतिः स संवर्तं बाधते स्म पुनःपुनः ॥ 005c
स बाध्यमानः सततं भ्रात्रा ज्येष्ठेन भारत । 006a
अर्थानुत्सृज्य दिग्वासा वने वासमरोचयत् ॥ 006c
वासवोऽप्यसुरान्सर्वान्विजित्य च निपात्य च । 007a
इन्द्रत्वं प्राप्य लोकेषु ततो वव्रे पुरोहितम् ॥ 007c
पुत्रमङ्गिरसो ज्येष्ठं विप्रज्येष्ठं बृहस्पतिम् । 008a
याज्यस्त्वङ्गिरसः पूर्वमासीद्राजा करन्धमः ॥ 008c
वीर्येणाप्रतिमो लोके वृत्तेन च बलेन च । 009a
शतक्रतुरिवौजस्वी धर्मात्मा संशितव्रतः । 009c
वाहनं यस्य योधाश्च मित्राणि विविधानि च । 010a
शयनानि च मुख्यानि महार्हाणि च सर्वशः ॥ 010c
ध्यानादेवाभवद्राजन्मुखवातेन सर्वशः । 011a
स गुणैः पार्थिवान्सर्वान्वशे चक्रे नराधिपः ॥ 011c
सञ्जीव्य कालमिष्टं च सशरीरो दिवं गतः । 012a
बभूव तस्य पुत्रस्तु ययातिरिव धर्मवित् ॥ 012c
अविक्षिन्नाम शत्रुञ्जित्स वशे कृतवान्महीम् । 013a
विक्रमेण गुणैश्चैव पितेवाऽऽसीत्स पार्थिवः ॥ 013c
तस्य वासवतुल्योऽभून्मरुत्तो नाम वीर्यवान् । 014a
पुत्रस्तमनुरक्ताऽभूत्पृथिवी सागराम्बरा ॥ 014c
स्पर्धते स स्म सततं देवराजेन नित्यदा । 015a
वासवोऽपि मरुत्तेन स्पर्धते पाण्डुनन्दन ॥ 015c
शुचिः स गुणवानासीन्मरुत्तः पृथिवीपतिः । 016a
यतमानोऽपि यं शक्रो न विशेषयति स्म ह ॥ 016c
सोऽशक्नुवन्विशेषाय समाहूय बृहस्पतिम् । 017a
उवाचेदं वचो देवैः सहितो हरिवाहनः ॥ 017c
बृहस्पते मरुत्तस्य मा स्म कार्षीः कथञ्चन । 018a
दैवं कर्माथ पित्र्यं वा कर्ताऽसि मम चेत्प्रियम् ॥ 018c
अहं हि त्रिषु लोकेषु सुराणां च बृहस्पते । 019a
इन्द्रत्वं प्राप्तवानेको मरुत्तस्तु महीपतिः ॥ 019c
कथं ह्यमर्त्यं ब्रह्मंस्त्वं याजयित्वा सुराधिपम् । 020a
याजयेर्मृत्युसंयुक्तं मरुत्तमविशङ्कया ॥ 020c
मां वा वृणीष्व भद्रं ते मरुत्तं वा महीपतिम् । 021a
परित्यज्य मरुत्तं वा यथाजोषं भजस्व माम् ॥ 021c
एवमुक्तः स कौरव्य देवराज्ञा बृहस्पतिः । 022a
मुहूर्तमिव सञ्चिन्त्य देवराजानमब्रवीत् ॥ 022c
त्वं भूतानामधिपतिस्त्वयि लोकाः प्रतिष्ठिताः । 023a
नमुचेर्विश्वरूपस्य निहन्ता त्वं बलस्य च ॥ 023c
त्वमाजहर्थ देवानामेको वीरश्रियं पराम् । 024a
त्वं बिभर्षि भुवं द्यां च सदैव बलसूदन ॥ 024c
पौरोहित्यं कथं कृत्वा तव देवगणेश्वर । 025a
याजयेयमहं मर्त्यं मरुत्तं पाकशासन ॥ 025c
समाश्वसिहि देवेन्द्र नाहं मर्त्यस्य कर्हिचित् । 026a
ग्रहीष्यामि स्रुवं यज्ञे शृणु चेदं वचो मम ॥ 026c
हिरण्यरेता नोष्णः स्यात्परिवर्तेत मेदिनी । 027a
भासं तु न रविः कुर्यान्न तु सत्यं चलेन्मयि ॥ 027c
व्यास उवाच । 028
बृहस्पतिवचः श्रुत्वा शक्रो विगतमत्सरः । 028a
प्रशस्यैनं विवेशाथ स्वमेव भवनं तदा ॥ ॥ 028c

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अश्वमेधपर्वणि पञ्चमोऽध्यायः ॥ 5 ॥