अध्यायः 004
व्यासेन युधिष्ठिरं प्रति संवर्तमरुत्तीयोपाख्यानकथनारम्भः ॥ 1 ॥ मरुत्तेन राज्ञा हिमवदुत्तरपार्श्वे सौवणैंरेव कुण्डभाण्डाद्युपकरणैर्यज्ञारम्भः ॥ 1 ॥
युधिष्ठिर उवाच । 001
शुश्रूषे तस्य धर्मज्ञ राजर्षेः परिकीर्तनम् । 001a
द्वैपायन मरुत्तस्य कथां प्रब्रूहि मेऽनघ ॥ 001c
व्यास उवाच । 002
आसीत्कृतयुगे तात मनुर्दण्डिधरः प्रभुः । 002a
तस्य पुत्रो महोष्वासः प्रजातिरभवन्नृपः ॥ 002c
प्रजातेरभवत्पुत्रः क्षुत इत्यभिविश्रुतः । 003a
क्षुतस्य पुत्र इक्ष्वाकुर्महीपालोऽभवत्प्रभुः ॥ 003c
तस्य पुत्रशतं राजन्नासीत्परमधार्मिकम् । 004a
तांस्तु सर्वान्महीपालानिक्ष्वाकुरकरोत्प्रभुः ॥ 004c
तेषां ज्येष्ठस्तु विंशोऽभूत्प्रतिमानं धनुष्मताम् । 005a
विंशस्य पुत्रः कल्याणो विविंशो नाम भारत ॥ 005c
विविंशस्य सुता राजन्बभूवुर्दश पञ्च च । 006a
सर्वे धनुषि विक्रान्ता ब्रह्मण्याः सत्यवादिनः ॥ 006c
दानधर्मरताः शान्ताः सततं प्रियवादिनः । 007a
तेषां ज्येष्ठः खनीनेत्रः स तान्सर्वानपीडयत् ॥ 007c
खनीनेत्रस्तु विक्रान्तो जित्वा राज्यमकण्टकम् । 008a
नाशकद्रक्षितुं राज्यं नान्वरज्यन्त तं प्रजाः ॥ 008c
तमपास्य च तद्राज्ये तस्य पुत्रं सुवर्चसम् । 009a
अभ्यषिञ्चन्त राजेन्द्र मुदिता ह्यभवंस्तदा ॥ 009c
स पितुर्विक्रियां दृष्ट्वा राज्यान्निरसनं च तत् । 010a
नियतो वर्तयामास प्रजाहितचिकीर्षया ॥ 010c
ब्रह्मण्यः सत्यवादी च शुचिः शमदमान्वितः । 011a
प्रजास्तं चान्वरज्यन्त धर्मनित्यं मनस्विनम् ॥ 011c
तस्य धर्मप्रवृत्तस्य व्यशीर्यत्कोशवाहनम् । 012a
तं क्षीणकोशं सामन्ताः समन्तात्पर्यपीडयन् ॥ 012c
स पीड्यमानो बहुभिः क्षीणकोशाश्ववाहनः । 013a
आर्तिमार्च्छत्परां राजा सह भृत्यैः पुरेण च ॥ 013c
न चैनमभिहन्तुं ते शक्नुवन्ति बलक्षये । 014a
सम्यग्वृत्तो हि राजा स धर्मनित्यो युधिष्ठिर ॥ 014c
यदा तु परमामार्तिं गतोऽसौ सपुरो नृपः । 015a
ततः प्रदध्मौ स करं प्रादुरासीत्ततो बलम् ॥ 015c
ततस्तानजयत्सर्वान्प्रातिसीमान्नराधिपान् । 016a
एतस्मात्कारणाद्राजन्विश्रुतः स करन्धमः ॥ 016c
आवीक्षित्तस्य पुत्रोऽभूत्त्रेतायुगमुखे पुरा । 017a
इन्द्रादनवरः श्रीमान्देवैरपि सुदुर्जयः ॥ 017c
'कारन्धम इति ख्यातो बभूव जगतीपतिः ।' 018a
तस्य सर्वे महीपाला वर्तन्ते स्म वशे तदा । 018c
स हि सम्राडभूत्तेषां वृत्तेन च बलेन च ॥ 018e
अविक्षिन्नाम धर्मात्मा शौर्येणेन्द्रसमोऽभवत् । 019a
यज्ञशीलो धर्मरतिर्धृतिमान्संयतेन्द्रियः ॥ 019c
तेजसाऽऽदित्यसदृशः क्षमया पृथिवीसमः । 020a
बृहस्पतिसमो बुद्ध्या हिमवानिव सुस्थिरः ॥ 020c
कर्मणा मनसा वाचा दमेन प्रशमेन च । 021a
मनांस्याराधयामास प्रजानां स महीपतिः ॥ 021c
य ईजे हयमेधानां शतेन विधिवत्प्रभुः । 022a
याजयामास यं विद्वान्स्वयमेवाङ्गिराः प्रभुः ॥ 022c
तस्य पुत्रोऽतिचक्राम पितरं गुणवत्तया । 023a
मरुत्तो नाम धर्मज्ञश्चक्रवर्ती महायशाः । 023c
नागायुतसमप्राणः साक्षाद्विष्णुरिवापरः ॥ 023e
स यक्ष्यमाणो धर्मात्मा शातकुम्भमयान्युत । 024a
कारयामास शुभ्राणि भाजनानि सहस्रशः ॥ 024c
मेरुं पर्वतमासाद्य हिमवत्पार्श्व उत्तरे । 025a
काञ्चनः सुमहान्पादस्तत्र कर्म चकार सः ॥ 025c
ततः कुण्डानि पात्रीश्च पिठराण्यासनानि च । 026a
चक्रुः सुवर्णकर्तारो येषां सङ्ख्या न विद्यते ॥ 026c
तस्यैव च समीपे तु यज्ञवाटो बभूव ह । 027a
ईजे तत्र स धर्मात्मा विधिवत्पृथिवीपतिः । 027c
मरुत्तः सहितैः सर्वैः प्रजापालैर्नराधिपः ॥ ॥ 027e
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अश्वमेधपर्वणि चतुर्थाध्यायः ॥ 4 ॥
14-4-1 शुश्रूषे श्रोतुमिच्छामि ॥ 14-4-21 पूर्वजानां महीपतिरिति क.थ.पाठः ॥ 14-4-25 दैवं तत्र समासाद्येति क.थ.पाठः ॥