अध्यायः 003

व्यासेन युधिष्ठिरं प्रति पुरुषकर्मणामीश्वरप्रेरणायत्ततया दोषानापादकत्वकथनपूर्वकं तदभ्युपगमेनापि पापापनोदायाश्वमेधादिविधानम् ॥ 1 ॥ युधिष्ठिरेण स्वस्य तावद्द्रव्याभावनिवेदने व्यासेन तं प्रति हिमवति गिरौ विद्यमानमरुत्तयागावशिष्टद्रव्यानयनेनाश्वमेधकरणचोदना ॥ 2 ॥

व्यास उवाच । 001
युधिष्ठिर तव प्रज्ञा न सम्यगिति मे मतिः । 001a
न हि कश्चित्स्वयं मर्त्यः स्ववशः कुरुते क्रियाम् ॥ 001c
ईश्वरेण च युक्तोऽयं साध्वसाधु च मानवः । 002a
करोत्यसुकरं कर्म तत्र का परिदेवना ॥ 002c
आत्मानं मन्यसे चाथ पापकर्माणमन्ततः । 003a
शृणु तत्र यथा पापमपकृष्येत भारत ॥ 003c
तपोभिः क्रतुभिश्चैव दानेन च युधिष्ठिर । 004a
तरन्ति नित्यं पुरुषा ये स्म पापानि कुर्वते ॥ 004c
यज्ञेन तपसा चैव दानेन च नराधिप । 005a
पूयन्ते नरशार्दूल नरा दुष्कृतकारिणः ॥ 005c
असुराश्च सुराश्चैव पुण्यहेतोर्मखक्रियाम् । 006a
प्रवर्तन्ते महात्मानस्तस्माद्यज्ञः परायणम् ॥ 006c
यज्ञैरेव महात्मानो बभूवुरधिकाः सुराः । 007a
ततो देवाः क्रियावन्तो दानवानभ्यधर्षयन् ॥ 007c
राजसूयाश्वमेधौ च सर्वमेधं च भारत । 008a
नरमेधं च नृपते त्वमाहर युधिष्ठिर ॥ 008c
यजस्व वाजिमेधेन विधिवद्दक्षिणावता । 009a
बहुकामान्नवित्तेन रामो दाशरथिर्यथा ॥ 009c
यथा च भरतो राजा दौष्यन्तिः पृथिवीपतिः । 010a
शाकुन्तलो महावीर्यस्तव पूर्वपितामहः ॥ 010c
युधिष्ठिर उवाच । 011
असंशयं वाजिमेधः पारयेत्पृथिवीमपि । 011a
अभिप्रायस्तु मे कश्चित्तं त्वं श्रोतुमिहार्हसि ॥ 011c
इमं ज्ञातिवधं कृत्वा सुमहान्तं द्विजोत्तम । 012a
'अहमाराधयिष्यामि कथं शोकपरायणः ।' 012c
दानमल्पं न शक्नोमि दातुं वित्तं च नास्ति मे ॥ 012e
न तु बालानिमान्दीनानुत्सहे वसु याचितुम् । 013a
तथैवाऽऽद्रविणान्कृच्छ्रे वर्तमानान्नृपात्मजान् ॥ 013c
स्वयं विनाश्य पृथिवीं यज्ञार्थं द्विजसत्तम । 014a
करमाहारयिष्यामि कथं शोकपरायणः ॥ 014c
दुर्योधनापराधेन वसुधायां नराधिपाः । 015a
प्रनष्टा योजयित्वाऽस्मानकीर्त्या मुनिसत्तम ॥ 015c
दुर्योधनेन पृथिवी क्षपिता जयकारणात् । 016a
कोशश्चापि विशीर्णोऽसौ धार्तराष्ट्रस्य दुर्मतेः ॥ 016c
पृथिवी दक्षिणा चात्र वाजिमेधे महाक्रतौ । 017a
विद्वद्भिः परिदृष्टोऽयं शिष्टो विधिविपर्ययः ॥ 017c
न च प्रतिनिधिं कर्तुं चिकीर्षामि तपोधन । 018a
अत्र मे भगवन्सम्यक्साचिव्यं कर्तुमर्हसि ॥ 018c
एवमुक्तस्तु पार्थेन कृष्णद्वैपायनस्तदा । 019a
मुहूर्तमनुसञ्चिन्त्य धर्मराजानमब्रवीत् ॥ 019c
कोशश्चापि विशीर्णोऽयं परिपूर्णो भविष्यति । 020a
विद्यते द्रविणं पार्थ गिरौ हिमवति स्थितम् ॥ 020c
उत्सृष्टं ब्राह्मणैर्यज्ञे मरुत्तस्य महीपते । 021a
तदानयस्व कौन्तेय पर्याप्तं तद्भविष्यति ॥ 021c
युधिष्ठिर उवाच । 022
कथं यज्ञे मरुत्तस्य द्रविणं तत्समाचितम् । 022a
कस्मिंश्च काले स नृपो बभूव ददतांवर ॥ 022c
व्यास उवाच । 023
यदि शुश्रूषसे पार्थ शृणु कारन्धमं नृपम् । 023a
यस्मिन्काले महावीर्यः स राजाऽऽसीन्महाधनः ॥ ॥ 023c

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अश्वमेधपर्वणि तृतीयोऽध्यायः ॥ 3 ॥

14-3-18 प्रतिनिधिमनुकल्पम् ॥