अध्यायः 002
धृतराष्ट्रेण समाश्वासनेऽपि तूष्णीं तिष्ठन्तो युधिष्ठिरस्य कृष्णेन परिसान्त्वनम् ॥ 1 ॥ पुनर्भीष्मद्रोणकर्णमारणानुस्मरणविषादेनारण्यगमनाय कृष्णानुज्ञानमाकाङ्क्षमाणस्य युधिष्ठिरस्य व्यासेन परिसान्त्वनम् ॥ 2 ॥
वैशम्पायन उवाच । 001
एवमुक्तस्तु राजाऽसौ धृतराष्ट्रेण धीमता । 001a
तूष्णीम्बभूव मेधावी तमुवाचाथ केशवः ॥ 001c
अतीव मनसा शोकः क्रियमाणो जनाधिप । 002a
सन्तपयति चैतस्य पूर्वप्रेतान्पितामहान् ॥ 002c
यजस्व विविधैर्यज्ञैर्बहुभिः स्वाप्तदक्षिणैः । 003a
देवांस्तर्पय सोमेन स्वधया च पितॄनपि ॥ 003c
अतिथीनन्नपानेन कामैरन्यैरकिञ्चनान् । 004a
'त्वद्विधस्य महाबुद्धे नैतदद्योपपद्यते ।' 004c
विदितं वेदितव्यं ते कर्तव्यमपि ते कृतम् ॥ 004e
श्रुताश्च राजधर्मास्ते भीष्माद्भागीरथीसुतात् । 005a
कृष्णद्वैपायनाच्चैव नारदाद्विदुरात्तथा ॥ 005c
नेमामर्हसि मूढानां वृत्तिं त्वमनुवर्तितुम् । 006a
पितृपैतामहं वृत्तमास्थाय धुरमुद्वह ॥ 006c
युक्तं हि यशसा क्षात्रं स्वर्गं प्राप्तुमसंशयम् । 007a
नहि कश्चिद्धि शूराणां निहतोऽत्र पराङ्मुखः ॥ 007c
त्यज शोकं महाराज भवितव्यं हि तत्तथा । 008a
न शक्यास्ते पुनर्द्रष्टुं त्वया येऽस्मिन्रणे हताः ॥ 008c
एतावदुक्त्वा गोविन्दो धर्मराजं युधिष्ठिरम् । 009a
विरराम महातेजास्तमुवाच युधिष्ठिरः ॥ 009c
गोविन्द मयि या प्रीतिस्तव सा विदिता मम । 010a
सौहृदेन तथा प्रेम्णा सदा मय्यनुकम्पसे ॥ 010c
प्रियं तु मे स्यात्सुमहत्कृतं चक्रगदाधर । 011a
श्रीमन्प्रीतेन मनसा सर्वं यादवनन्दन ॥ 011c
यदि मामनुजानीयाद्भवान्गन्तुं तपोवनम् । 012a
'कृतकृत्यो भविष्यामि इति मे निश्चिता मतिः' ॥ 012c
न हि शान्तिं प्रपश्यामि पातयित्वा पितामहम् । 013a
'नृशंसः पुरुषव्याघ्रं गुरुं वीर्यबलान्वितम् ।' 013c
कर्णं च पुरुषव्याघ्रं सङ्ग्रामेष्वपलायिनम् ॥ 013e
कर्मणा येन मुच्येयमस्मात्क्रूरादरिन्दम । 014a
कर्मणा तद्विधत्स्वेह येन शुध्यति मे मनः ॥ 014c
तमेवंवादिनं पार्थं व्यासः प्रोवाच धर्मवित् । 015a
सान्त्वयन्सुमहातेजाः शुभं वचनमर्थवत् ॥ 015c
सुकृता ते मतिस्तात पुनर्बाल्येन मुह्यसे । 016a
किमाकाशे वयं सर्वे प्रलपामो मुहुर्मुहुः ॥ 016c
विदिताः क्षत्रधर्मास्ते येषां युद्धेन जीविका । 017a
तथा प्रवृत्तो नृपतिर्नाधिबन्धेन युज्यसे ॥ 017c
मोक्षधर्माश्च निखिला याथातथ्येन ते श्रुताः । 018a
'यथा वै कामजां मायां परित्युक्तं त्वमर्हसि ॥' 018c
असकृच्चापि सन्देहाश्छिन्नास्ते कामजा मया । 019a
अश्रद्दधानो दुर्मेधा लुप्तस्मृतिरसि ध्रुवम् ॥ 019c
मैवं भव न ते युक्तमिदमज्ञानमीदृशम् ॥ 020ac
प्रायश्चित्तानि सर्वाणि विदितानि च तेऽनघ । 021a
राजधर्माश्च ते सर्वे दानधर्माश्च ते श्रुताः ॥ 021c
स कथं सर्वधर्मज्ञः सर्वागमविशारदः । 022a
परिमुह्यसि भूयस्त्वमज्ञानादिव भारत ॥ ॥ 022c
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अश्वमेधपर्वणि द्वितीयोऽध्यायः ॥ 2 ॥
14-2-16 पुनर्बाह्मेन मुह्यसे इति क.ट.थ.पाठः ॥