अध्यायः 001
गङ्गायां भीष्मायोदकदानानन्तरं बन्धुशोकविषण्णं युधिष्ठिरं प्रति धृतराष्ट्रेण समाश्वासनम् ॥ 1 ॥ तथा विदुरवचनानादरेण स्वस्यैतादृशानर्थप्राप्तिकथनम् ॥ 2 ॥
श्रीवेदव्यासाय नमः । 001
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । 001a
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ 001c
वैशम्पायन उवाच । 002
कृतोदकस्तु राजानं धृतराष्ट्रं युधिष्ठिरः । 002a
पुरस्कृत्य महाबाहुरुत्तताराकुलेन्द्रियः ॥ 002c
उत्तीर्य तु महाबाहुर्बाष्पव्याकुललोचनः । 003a
पपात तीरे गङ्गाया व्याधविद्ध इव द्विपः ॥ 003c
तं सीदमानं जग्राह भीमः कृष्णेन चोदितः । 004a
मैवमित्यब्रवीच्चैनं कृष्णः परबलार्दनः ॥ 004c
तमार्तं पतितं भूमौ श्वसन्तं च पुनः पुनः । 005a
ददृशुः पार्थिवा राजन्धर्मपुत्रं युधिष्ठिरम् ॥ 005c
तं दृष्ट्वा दीनमनसं गतसत्वं नरेश्वरम् । 006a
भूयः शोकसमाविष्टाः पाण्डवाः समुपाविशन् ॥ 006c
राजा तु धृतराष्ट्रस्तं तथा दीनो महाभुजम् । 007a
वाक्यमाह महाबुद्धिः प्रज्ञाचक्षुर्नरेश्वरम् ॥ 007c
उत्तिष्ठ कुरुशार्दूल कुरु कार्यमनन्तरम् । 008a
क्षत्रधर्मेण कौन्तेय जितेयमवनी त्वया ॥ 008c
भुङ्क्ष्व सार्धं भ्रातृभिस्तां सुहृद्भिश्च जनेश्वर । 009a
शोचितव्यं न पश्यामि त्वया धर्मभृतांवर ॥ 009c
शोचितव्यं मया चैव गान्धार्या च महीपते । 010a
ययोः पुत्रशतं नष्टं स्वप्नलब्धं यथा धनम् ॥ 010c
अश्रुत्वा हितकामस्य विदुरस्य महात्मनः । 011a
वाक्यानि सुमहार्थानि परितप्यामि दुर्मतिः ॥ 011c
उक्तवान्विदुरो यन्मां धर्मात्मा दिव्यदर्शनः । 012a
दुर्योधनापराधेन कुलं ते विनशिष्यति ॥ 012c
स्वस्ति चेदिच्छसे राजन्कुलस्य कुरु मे वचः । 013a
वध्यतामेष दुष्टात्मा मन्दो राजा सुयोधनः ॥ 013c
कर्णश्च शकुनिश्चैव नैनं पश्यतु कर्हिचित् । 014a
द्यूतसङ्घातमप्येषामप्रमादेन वारय ॥ 014c
अभिषेचय राजानं धर्मात्मानं युधिष्ठिरम् । 015a
स पालयिष्यति वशी धर्मेण पृथिवीमिमाम् ॥ 015c
अथ नेच्छसि राजानं कुन्तीपुत्रं युधिष्ठिरम् । 016a
'विनाशमुपयास्तन्ति तव पुत्रा न संशयः ।' 016c
मेढीभूतः स्वयं राज्यं प्रतिगृह्णीष्व पार्थिव ॥ 016e
समं सर्वेषु भूतेषु वर्तमानं नराधिप । 017a
अनुजीवन्तु सर्वे त्वां ज्ञातयो ज्ञातिवर्धन्न ॥ 017c
एवं ब्रुवति कौन्तेय विदुरे दीर्घदर्शिनि । 018a
दुर्योधनमहं पापमन्ववर्तं वृथामतिः ॥ 018c
अश्रुत्वा तस्य धीरस्य वाक्यानि मधुराण्यहम् । 019a
फलं प्राप्य महद्दुःखं निमग्नः शोकसागरे ॥ 019c
वृद्धौ हि तेऽद्य पितरौ पश्य नौ दुःखितौ नृप । 020a
न शोचितव्यं भवता पश्यामीह जनाधिप ॥ ॥ 020c
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अश्वमेधपर्वणि प्रथमोऽध्यायः ॥ 1 ॥
14-1-1 कृतोदकं त्विति झ.पाठः ॥ 14-1-2 उत्ततार गङ्गात इति शेषः ॥