अध्यायः 274
अथ भीषस्वर्गारोहणपर्व ॥ 2 ॥
भीष्मेण भगवद्ध्यानपूर्वकं स्वशरीरमूर्धमध्योद्भेदनेन तेजो ज्वालारूपेण सर्वापरोक्षमाकाशप्रवेशनेन क्षणादन्तर्धानम् ॥ 1 ॥ ततो धृतराष्ट्रयुधिष्ठिरादिभी राजवैभवेन चितारोपणेन विधिवदग्निना समुद्दीपनम् ॥ 2 ॥ ततो गङ्गामवगाह्य कृतोदकेषु युधिष्ठिरादिषु मूर्तीभूय जलादुद्गत्य भीष्मम्प्रति सकरुणं विलापेन शोचन्तीं गङ्गाम्प्रति कृष्णादिभिराश्वासनम् ॥ 3 ॥
वैशम्पायन उवाच । 001
एवमुक्त्वा कुरून्सर्वान्भीष्मः शान्तनवस्तदा । 001a
तूष्णीं बभूव कौरव्यः स मुहूर्तमरिन्दम ॥ 001c
धारयामास चात्मानं धारणासु यथाक्रमम् । 002a
तस्योर्ध्वमगमन्प्राणाः सन्निरुद्धा महात्मनः ॥ 002c
इदमाश्चर्यमासीच्च मध्ये तेषां महात्मनाम् । 003a
सहितैर्ऋषिभिः सर्वैस्तदा व्यासादिभिः प्रभो ॥ 003c
यद्यन्मुञ्चति गात्रं हि स शन्तनुसुतस्तदा । 004a
तत्तद्विशल्यमभवद्योगयुक्तस्य वै क्रमात् । 004c
क्षणेन प्रेक्षतां तेषां विशल्यः सोऽभवत्तदा ॥ 004e
तद्दृष्ट्वा विस्मिताः सर्वे वासुदेवपुरोगमाः । 005a
सह तैर्मुनिभिः सर्वैस्तदा व्यासादिभिर्नृप ॥ 005c
सन्निरुद्धस्तु तेनात्मा सर्वेष्वायतनेषु च । 006a
जगाम भित्त्वा मूर्धानं दिवमभ्युत्पपात ह ॥ 006c
देवदुन्दुभिनादश्च पुष्पवर्षैः सहाभवत् । 007a
सिद्धा ब्रह्मर्षयश्चैव साधुसाध्विति हर्षिताः ॥ 007c
महोल्केव च भीष्मस्य मूर्धदेशाज्जनाधिप । 008a
निःसृकत्याकाशमाविश्य क्षणेनान्तरधीयत ॥ 008c
एवं स राजशार्दूल नृपः शान्तनवस्तदा । 009a
समयुज्यत लोकैः स्वैर्भरतानां कुलोद्वहः ॥ 009c
ततस्त्वादाय दारूणि गन्धांश्च विविधान्बहून् । 010a
चितां चक्रुर्महात्मानः पाण्डवा विदुरस्तथा । 010c
युयुत्सुश्चापि कौरव्यं प्रेक्षकास्त्वितरेऽभवन् ॥ 010e
युधिष्ठिरश्च गाङ्गेयं धृतराष्ट्रश्च दुःखितौ । 011a
छादयामासतुरुभौ क्षौमैर्माल्यैश्च कौरवम् ॥ 011c
धारयामास तस्याथ युयुत्सुश्छत्रमुत्तमम् । 012a
चामरे व्यजने शुभ्रे भीमसेनार्जुनावुभौ । 012c
उष्णीषे परिगृह्णीतां माद्रीपुत्रावुभौ तथा ॥ 012e
युधिष्ठिरेण सहितो धृतराष्ट्रश्च पादतः । 013a
वृद्धा स्त्रियः कौरवाणां भीष्मं कुरुकुलोद्वहम् । 013c
तालवृन्तान्युपादाय पर्यवीजन्त सर्वशः ॥ 013e
ततोस्य विधिवच्चक्रुः पितृमेधं महात्मनः । 014a
याजका जुहुवुश्चाग्नौ जगुः सामानि समागाः ॥ 014c
ततश्चन्दनकाष्ठैश्च तथा कालीयकैरपि । 015a
कालागुरुप्रभृतिभिर्गन्धैश्चोच्चावच्चैस्तथा ॥ 015c
समवच्छाद्य गाङ्गेयं सम्प्रज्वाल्य हुताशनम् । 016a
अपसव्यमकुर्वन्त धृतराष्ट्रमुखाश्चिताम् ॥ 016c
संस्कृत्य च कुरुश्रेष्ठं गाङ्गेयं कुरुसत्तमाः । 017a
जग्मुर्भागीरथीं पुण्यामृषिजुष्टां कुरूद्वहाः ॥ 017c
अनुगम्यमाना व्यासेन नारदेनासितेन च । 018a
कृष्णेन भरतस्त्रीभिर्ये च पौराः समागताः ॥ 018c
उदकं चक्रिरे सर्वे गाङ्गेयस्य महात्मनः । 019a
विधिवत्क्षत्रियश्रेष्ठाः स च सर्वो जनस्तदा ॥ 019c
ततो भागीरथी देवी तनयस्योदके कृते । 020a
उत्थाय सलिलात्तस्माद्रुदती शोकविह्वला । 020c
परिदेवयती तत्र कौरकवानभ्यभाषत ॥ 020e
निबोधत यथावृत्तमुच्यमानं मया नृपाः । 021a
राजवृत्तेन सम्पन्नः प्रज्ञयाभिजनेन च । 021c
सत्कर्ता कुरुवृद्धानां पितृभक्तो दृढव्रतः ॥ 021e
जामदग्न्येन रामेण यः पुरा न पराजितः । 022a
दिव्यैरस्त्रैर्महावीर्यः स हतोऽद्य शिखण्डिना ॥ 022c
अश्मसारमयं नूनं हृदयं मम पार्थिवाः । 023a
अपश्यन्त्याः प्रियं पुत्रं यन्न दीर्यति मेऽद्य वै ॥ 023c
समेतं पार्थिवं क्षत्रं काशिपुर्यां स्वयंवरे । 024a
विजित्यैकरथेनाजौ कन्याश्चायं जहारह ॥ 024c
यस्य नास्ति बले तुल्यः पृथिव्यामपि कश्चन । 025a
हतं शिखण्डिना श्रुत्वा यन्न दीर्यति मे मनः ॥ 025c
जामदग्न्यः कुरुक्षेत्रे युधि येन महात्मना । 026a
पीडितो नातियत्नेन स हतोऽद्य शिखण्डिना ॥ 026c
एवंविधं बहु तदा विलपन्तीं महानदीम् । 027a
आश्वासयामास तदा साम्ना दामोदरो विभुः ॥ 027c
समाश्वसिहि भद्रे त्वं मा शुचः शुभदर्शने । 028a
गतः स परमं लोकं तव पुत्रो न संशयः ॥ 028c
वसुरेष महातेजाः शापदोषेण शोभने । 029a
मानुषत्वमनुप्राप्तो नैनं शोचितुमर्हसि ॥ 029c
स एष क्षत्रधर्मेण युध्यमानो रणाजिरे । 030a
धनञ्जयेन निहतो नैष देवि शिखण्डिना ॥ 030c
भीष्मं हि कुरुशार्दूलमुद्यतेषुं महारणे । 031a
न शक्तः संयुगे हन्तुं साक्षादपि शतक्रतुः ॥ 031c
स्वच्छन्दतस्तव सुतो गतः स्वर्गं शुभानने । 032a
न शक्ता विनिहन्तुं हि रणे तं सर्वदेवताः ॥ 032c
तस्मान्मा त्वं सरिच्छ्रेष्ठे शोचस्य कुरुनन्दनम् । 033a
वसूनेष गतो देवि पुत्रस्ते विज्वरा भव ॥ 033c
वैशम्पायन उवाच । 034
इत्युक्ता सा तु कृष्णेन व्यासेन तु सरिद्वरा । 034a
त्यक्त्वा शोकं महाराज स्वं वार्यवततार ह ॥ 034c
सत्कृत्य ते तां सरितं ततः कृष्णमुखा नृप । 035a
अनुज्ञातास्तया सर्वे न्यवर्तन्त जनाधिपाः ॥ ॥ 035c
इति श्रीमन्महाभारते शतसाहस्रिकायां संहितायां वैयासिक्यां अनुशासनपर्वणि भीष्मस्वर्गारोहणपर्वणि चतुःसप्तत्यधिकद्विशततमोऽध्यायः ॥ 274 ॥ इति अनुशासनपर्व समाप्तम् ॥ 13 ॥
13-274-2 समादधत्स्वमात्मानं धारणानुक्रमस्थितः । इति क.ध.पाठः ॥ 13-274-12 उष्णीषे किरीटशिरोवेष्टे ॥ 13-274-21 समर्थः कुरुवृद्धानामिति ट.थ.पाठः ॥ 13-274-23 दृष्टाप्येवंविधं पुत्रं न दीर्यति सहस्रधेति क.ट.थ.पाठः ॥ 13-274-35 अनुज्ञाप्य च ते सर्वे इति ट.थ.ध.पाठः ॥
अतः परमाश्वमेधिकं पर्व भविष्यति ॥ 14 ॥ तस्यायमाद्यः श्लोकः ॥ वैशम्पायन उवाच । कृतोदकं तु राजनं धृतराष्ट्रं युधिष्ठिरः । पुरस्कृत्य महाबाहुरुत्तताराकुलेन्द्रियः ॥
इदं अनुशासनपर्व कुम्भघोणस्थेन टी.आर्.कृष्णाचार्येण टी.आर्.व्यासाचार्येण च मुम्बय्यां निर्णयसागरमुद्रायन्त्रे मुद्रापितम् । शकाब्दाः 1831 सन 1910.