अध्यायः 273
अथ भीषस्वर्गारोहणपर्व ॥ 2 ॥
युधिष्ठिरेण भीष्मसंस्कारोपयोगिसम्भारप्रस्थापनपूर्वकं कृष्णधृतराष्ट्रादिभिःसह भीष्मसमीपं प्रत्यागमनम् ॥ 1 ॥ युधिष्ठिरेणाभिवादनपूर्वकं कृष्णाद्यागमनं निवेदितेन भीष्मेण स्वस्य कृष्णयाथात्म्यज्ञानप्रकाशनेन तत्प्रणामस्तुतिपूर्वकं व्यासकृष्णधृतराष्ट्रादिभ्यः स्वस्य प्राणोत्सर्गाभ्यनुज्ञानप्रार्थना ॥ 2 ॥
वैशम्पायन उवाच । 001
ततः कुन्तीसुतो राजा पौरजानपदं जनम् । 001a
पूजयित्वा यथान्यायमनुजज्ञे गृहान्प्रति ॥ 001c
सान्त्वयामास नारीश्च हतपुत्रा हतेश्वराः । 002a
विपुलैरर्थदानैः स तदा पाण्डुसुतो नृपः ॥ 002c
सोभिषिक्तो महाप्राज्ञः प्राप्य राज्यं युधिष्ठिरः । 003a
अवस्थाप्य नरश्रेष्ठः सर्वाः स्वप्रकृतीस्तथा ॥ 003c
द्विजेभ्यो बलमुख्येभ्यो नैगमेभ्यश्च सर्वशः । 004a
प्रतिगृह्याशिषो मुख्यास्तथा धर्मभृतांवरः ॥ 004c
उषित्वा शर्वरीः श्रीमान्पञ्चाशन्नगरोत्तमे । 005a
समयं कौरवाग्र्यस्य सस्मार पुरुषर्षभः ॥ 005c
स निर्ययौ गजपुराद्याजकैः परिवारितः । 006a
दृष्ट्वा निवृत्तमादित्यं प्रवृत्तं चोत्तरायणम् ॥ 006c
घृतं माल्यं च गन्धांश्च क्षौमाणि च युधिष्ठिरः । 007a
चन्दनागरुमुख्यानि तथा कालगरूणि च ॥ 007c
प्रस्थाप्यच पूर्वं कौन्तेयो भीष्मसंस्करणाय वै । 008a
माल्यानि च वरार्हाणि रत्नानि विविधानि च ॥ 008c
धृतराष्ट्रं पुरुस्कृत्य गान्धारीं च यशस्विनीम् । 009a
मातरं च पृथां धीमान्भ्रातॄंश्च पुरुषर्षभान् ॥ 009c
जनार्दनेनानुगतो विदुरेण च धीमता । 010a
युयुत्सुना च कौरव्यो युयुधानेन चाभिभो ॥ 010c
महता राजभोगेन पारिबर्हेण संवृतः । 011a
स्तूयमानो महातेजा भीष्मस्याग्नीननुव्रजन् ॥ 011c
निश्चक्राम पुरात्तस्माद्यथा देवपतिस्तथा । 012a
आससाद कुरुक्षेत्रे ततः शान्तनवं नृपः ॥ 012c
उपास्यमानं व्यासेन पाराशर्येण धीमता । 013a
नारदेन च राजर्षे देवलेनासितेन च ॥ 013c
हतशिष्टैर्नृपैश्चान्यैर्नानादेशसमागतैः । 014a
रक्षिभिश्च महात्मानं रक्ष्यमाणं समन्ततः ॥ 014c
शयानं वीरशयने ददर्श नृपतिस्ततः । 015a
ततो रथादवारोहद्भ्रातृभिः सह धर्मराट् ॥ 015c
अभिवाद्याथ कौन्तेयः पितामहमरिन्दमम् । 016a
द्वैपायनादीन्विप्रांश्च तैश्च प्रत्यभिनन्दितः ॥ 016c
ऋत्विग्भिर्ब्रह्मकल्पैश्च भ्रातृभिः सह धर्मजः । 017a
आसाद्य शरतल्पस्थमृषिभिः परिवारितम् ॥ 017c
अब्रवीद्भरतश्रेष्ठं धर्मराजो युधिष्ठिरः । 018a
भ्रातृभिः सह कौरव्यः शयानं निम्नगासुतम् ॥ 018c
युधिष्ठिरोऽहं नृपते नमस्ते जाह्नवीसुत । 019a
शृणोषि चेन्महाबाहो ब्रूहि किं करवाणि ते ॥ 019c
प्राप्तोस्मि समये राजन्नग्नीनादाय ते विभो । 020a
आचार्यान्ब्राह्मणांश्चैव ऋत्विजो भ्रातरश्च मे ॥ 020c
पुत्रश्च ते महातेजा धृतराष्ट्रो जनेश्वरः । 021a
उपस्थितः सहामात्यो वासुदेवश्च वीर्यवान् ॥ 021c
हतशिष्टाश्च राजानः सर्वे च कुरुजाङ्गलाः । 022a
तान्पश्य नरशार्दूल समुन्मीलय लोचने ॥ 022c
यच्चेह किञ्चित्कर्तव्यं तत्सर्वं प्रापितं मया । 023a
यथोक्तं भवता काले सर्वमेव च तत्कृतम् ॥ 023c
वैशम्पायन उवाच । 024
एवमुक्तस्तु गाङ्गेयः कुन्तीपुत्रेण धीमता । 024a
ददर्श भारतान्सर्वान्स्थितान्सम्परिवार्य ह ॥ 024c
ततश्चलवपुर्भीष्मः प्रगृह्य विपुलं भुजम् । 025a
ओघमेघस्वरो वाग्मी काले वचनमब्रवीत् ॥ 025c
दिष्ट्या प्राप्तोसि कौन्तेय सहामात्यो युधिष्ठिर । 026a
परिवृत्तो हि भगवान्सहस्रांशुर्दिवाकरः ॥ 026c
अष्टपञ्चाशतं रात्र्यः शयानस्याद्य मे गताः । 027a
शरेषु निशिताग्रेषु यथा वर्षशतं तथा ॥ 027c
माघोऽयं समनुप्राप्तो मासः पुण्यो युधिष्ठिर । 028a
त्रिभागशेषः पक्षोऽयं शुक्लो भवितुमर्हति ॥ 028c
एवमुक्त्वा तु गाङ्गेयो धर्मपुत्रं युधिष्ठिरम् । 029a
धृतराष्ट्रमथामन्त्र्य काले वचनमब्रवीत् ॥ 029c
भीष्म उवाच । 030
राजन्विदितधर्मोसि सुनिर्णीतार्थसंशयः । 030a
बहुश्रुता हि ते विप्रा बहवः पर्युपासिताः ॥ 030c
वेद शास्त्राणि सूक्ष्माणि धर्मांश्च मनुजेश्वर । 031a
वेदांश्च चतुरः सर्वान्षडङ्गैरुपबृंहितान् ॥ 031c
न शोचितव्यं कौरव्य भवितव्यं हि तत्तथा । 032a
श्रुतं देवरहस्यं ते कृष्णद्वैपायनादपि ॥ 032c
यथा पाण्डोः सुता राजंस्तथैव तव धर्मतः । 033a
तान्पालय स्थितो धर्मे गुरुशुश्रूषणे रतान् ॥ 033c
धर्मराजो हि शुद्धात्मा निदेशे स्थास्यते तव । 034a
आनृशंस्यपरं ह्येनं जानामि गुरुवत्सलम् ॥ 034c
तव पुत्रा दुरात्मानः क्रोधलोभपरायणाः । 035a
ईर्ष्याभिभूता दुर्वृत्तास्तान्न शोचितुमर्हसि ॥ 035c
वैशम्पायन उवाच । 036
एतावधुक्त्वा वचनं धृतराष्ट्रं मनीषिणम् । 036a
वासुदेवं महाबाहुमभ्यभाषय कौरवः ॥ 036c
भीष्म उवाच । 037
भगवन्देवदेवेश सुरासुरनमस्कृत । 037a
त्रिविक्रम नमस्तुभ्यं शङ्खचक्रगदाधर ॥ 037c
वासुदेवो हिरण्यात्मा पुरुषः सविता विराद् । 038a
जीवभूतोऽनुरूपस्त्वं परमात्मा सनातनः ॥ 038c
त्वद्भक्तं त्वद्गतिं शान्तमुदारमपरिग्रहम् । 039a
त्रायस्व पुण्डरीकाक्ष पुरुषोत्तम नित्यशः । 039c
अनुजानीहि मां कृष्ण वैकुण्ठ पुरुषोत्तम ॥ 039e
रक्ष्याश्च ते पाण्डवेया भवान्येषां परायणम् । 040a
उक्तवानस्मि दुर्बुद्धिं मन्दं दुर्योधनं तदा ॥ 040c
यतः कृष्णस्ततो धर्मो यतो धर्मस्ततो जयः । 041a
वासुदेवेन तीर्थेन पुत्र संशाम्य पाण्डवैः ॥ 041c
सन्धानस्य परः कालस्तवेति च पुनःपुनः । 042a
न च मे तद्वचो मूढः कृतवान्स सुमन्दधीः । 042c
घातयित्वेह पृथिवीं ततः स निधनं गतः ॥ 042e
त्वां तु जानाम्यहं देवं पुराणमृषिसत्तमम् । 043a
नरेण सहितं देव बदर्यां सुचिरोषितम् ॥ 043c
तथा मे नारदः प्राह व्यासश्च सुमहातपाः । 044a
नरनारायणावेतौ सम्भूतौ मनुजेष्विति ॥ 044c
स मां त्वमनुजानीहि कृष्ण मोक्ष्ये कलेवरम् । 045a
त्वयाऽहं समनुज्ञातो गच्छेयं परमां गतिम् ॥ 045c
वासुदेव उवाच । 046
अनुजानामि भीष्म त्वां वसून्प्राप्नुहि पार्थिव । 046a
न तेऽस्ति वृजिनं किञ्चिच्छुद्धात्मैश्वर्यसंयुतः ॥ 046c
पितृभक्तोसि राजर्षे मार्कण्डेय इवापरः । 047a
तेन मृत्युस्तव वशे स्थितो भृत्य इवानतः ॥ 047c
वैशम्पायन उवाच । 048
एवमुक्तस्तु गाङ्गेयः पाण्डवानिदमब्रवीत् । 048a
धृतराष्ट्रमुखांश्चापि सर्वांश्च सुहृदस्तथा ॥ 048c
प्राणानुत्स्रष्टुमिच्छामि तत्रानुज्ञातुमर्हथ । 049a
सत्येषु यतितव्यं वः सत्यं हि परमं बलम् ॥ 049c
आनृशंस्यपरैर्भाव्यं सदैव नियतात्मभिः । 050a
ब्रह्मण्यैर्धर्मशीलैश्च तपोनित्यैश्च भारताः ॥ 050c
इत्युक्त्वा सुहृदः सर्वांस्तथा सम्पूज्य चैव ह । 051a
'धनं बहुविधं राजन्दत्त्वा नित्यं द्विजातिषु ।' 051c
पुनरेवाब्रवीद्धीमान्युधिष्ठिरमिदं वचः ॥ 051e
ब्राह्मणाश्चैव ते नित्यं प्राज्ञाश्चैव विशेषतः । 052a
आचार्या ऋत्विजश्चैव पूजनीया जनाधिप ॥ ॥ 052c
इति श्रीमन्महाभारते अनुशासनपर्वणि भीष्मस्वर्गारोहणपर्वणि त्रिसप्तत्यधिकद्विशततमोऽध्यायः ॥ 273 ॥
13-273-28 मासः सौम्य इति झ.पाठः । सौम्यश्चान्द्रः । मासस्य चतुर्भागकरणे सार्धसप्ततिथेरेकैकभागत्वात् । अष्टम्यर्धस्यानतीतत्वेन प्रथमभागस्य विद्यमानत्वात् त्रिभागशेषो भवितुमर्हतीत्यर्थः । तेनाद्याष्टमीत्यर्थः ॥