अध्यायः 272

अथ दानधर्मपर्व ॥ 1 ॥

युधिष्ठिराय निखिलधर्मोपदेशानन्तरं स्वावसानकालाऽऽसत्त्यवगमेन भगवद्ध्यानाय वाक्प्रसारणादुपरते भीष्मे तम्प्रति व्यासेन युधिष्ठिरस्य नगरगमनाभ्यनुज्ञानचोदना ॥ 1 ॥ युधिष्ठिरेण भीष्माभ्यनुज्ञया सहकृष्णादिभिर्हास्तिनपुरप्रवेशनम् ॥ 2 ॥

जनमेजय उवाच । 001
शरतल्पगते भीष्मे कौरवाणां धुरन्धरे । 001a
शयाने वीरशयने पाण्डवैः समुपस्थिते ॥ 001c
युधिष्ठिरो महाप्राज्ञो मम पूर्वपितामहः । 002a
धर्माणामागमं श्रुत्वा विदित्वा सर्वसंशयान् ॥ 002c
दानानां च विधिं श्रुत्वा च्छिन्नधर्मार्थसंशयः । 003a
यदन्यदकरोद्विप्र तन्मे शंसितुमर्हसि ॥ 003c
वैशम्पायन उवाच । 004
अभून्मुहूर्तं स्तिमितं सर्वं तद्राजमण्डलम् । 004a
तूष्णीम्भूते ततस्तस्मिन्पटे चित्रमिवार्पितम् ॥ 004c
मुहूर्तमिव च ध्यात्वा व्यासः सत्यवतीसुतः । 005a
नृपं शयानं गाङ्गेयमिदमाह वचस्त्वरन् ॥ 005c
राजन्प्रकृतिमापन्नः कुरुराजो युधिष्ठिरः । 006a
सहितो भ्रातृभिः सर्वैः पार्थिवैश्चानुयायिभिः ॥ 006c
उपास्ते त्वां नरव्याघ्र सह कृष्णेन धीमता । 007a
तमिमं पुरयानाय समनुज्ञातुमर्हसि ॥ 007c
एवमुक्तो भगवता व्यासेन पृथिवीपतिः । 008a
युधिष्ठिरं सहामात्यमनुजज्ञे नदीसुतः ॥ 008c
उवाच चैनं मधुरं नृपं शान्तनवो नृपः । 009a
प्रविशस्व पुरीं राजन्धर्मे च ध्रियतां मनः ॥ 009c
यजस्व विविधैर्यजैर्बह्वन्नैः स्वाप्तदक्षिणैः । 010a
ययातिरिव राजेन्द्र श्रद्धादमपुरःसरः ॥ 010c
क्षत्रधर्मरतः पार्थ पितॄन्देवांश्च तर्पय । 011a
श्रेयसा योक्ष्यसे चैव व्येतु ते मानसो ज्वरः ॥ 011c
रञ्जयस्व प्रजाः सर्वाः प्रकृतीः परिसान्त्वय । 012a
सुहृदः फलसत्कारैरर्चयस्व यथार्हतः ॥ 012c
अनुं त्वां तात जीवन्तु मित्राणि सुहृदस्तथा । 013a
चैत्यस्थाने स्थितं वृक्षं फलवन्तमिव द्विजाः ॥ 013c
आगन्तव्यं च भवता समये मम पार्थिव । 014a
विनिवृत्ते दिनकरे प्रवृत्ते चोत्तरायणे ॥ 014c
तथेत्युक्त्वा च कौन्तेयः सोभिवाद्य पितामहम् । 015a
प्रययौ सपरीवारो नगरं नागसाह्वयम् ॥ 015c
धृतराष्ट्रं पुरस्कृत्य गान्धारीं च पतिव्रताम् । 016a
सह तैर्ऋषिभिः सर्वैर्भ्रातृभिः केशवेन च ॥ 016c
पौरजानपदैश्चैव मन्त्रिवृद्धैश्च पार्थिव । 017a
प्रविवेश कुरुश्रेष्ठः पुरं वारणसाह्वयम् ॥ ॥ 017c

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि द्विसप्तत्यधिकद्विशततमोऽध्यायः ॥ 272 ॥

13-272-4 पटे चित्र इवार्पिते इति थ.पाठः ॥ 13-272-7 तमिमं पुनरागन्तुमिति थ.पाठः ॥