अध्यायः 271

अथ दानधर्मपर्व ॥ 1 ॥

भीष्मेण युधिष्ठिरम्प्रति देवदेवर्षिगिरिनदीतीर्थक्षेत्रादीनां विस्तरेण पृथङ्नामनिर्देशपूर्वकं प्रातःसायं तत्कीर्तनस्य दुरितनिवृत्तिसुकृतप्राप्तिहेतुत्वोत्कीर्तनम् ॥ 1 ॥

वैशम्पायन उवाच । 001
शरतल्पगतं भीष्मं पाण्डवोऽथ कुरूद्वहः । 001a
युधिष्ठिरो हितं प्रेप्सुरपृच्छत्कल्मषापहम् ॥ 001c
युधिष्ठिर उवाच । 002
किं श्रेयः पुरुषस्येह किं कुर्वन्सुखमेधते । 002a
विपाप्मा स भवेत्केन किं वा कल्मषनाशनम् ॥ 002c
वैशम्पायन उवाच । 003
तस्मै शुश्रूषमाणाय भूयः शान्तनवस्तदा । 003a
दैवं वंशं यथान्यायमाचष्ट पुरुषर्षभ ॥ 003c
भीष्म उवाच । 004
अयं दैवतवंशो वै ऋषिवंशसमन्वितः । 004a
त्रिसन्ध्यं पठितः पुत्र कल्मषापहरः परः ॥ 004c
यदह्ना कुरुते पापमिन्द्रियैः पुरुषश्चरन् । 005a
बुद्धिपूर्वमबुद्धिर्वा रात्रौ यच्चापि सन्ध्ययोः ॥ 005c
मुच्यते सर्वपापेभ्यः कीर्तयन्वै शुचिः सदा । 006a
नान्धो न बधिरः काले कुरुते स्वस्तिमान्सदा ॥ 006c
तिर्यग्योनिं न गच्छेच्च नरकं सङ्कराणि च । 007a
न च दुःखभयं तस्य मरणे स न मुह्यति ॥ 007c
देवासुरगुरुर्देवः सर्वभूतनमस्कृतः । 008a
अचिन्त्योथाप्यनिर्देश्यः सर्वप्राणो ह्ययोनिजः ॥ 008c
पितामहो जगन्नाथः सावित्री ब्रह्मणः सती । 009a
वेदभूरथ कर्ता च विष्णुर्नारायणः प्रभुः ॥ 009c
उमापतिर्विरूपाक्षः स्कन्दः सेनापतिस्तथा । 010a
विशाखो हुतभुग्वायुश्चन्द्रसूर्यौ प्रभाकरौ ॥ 010c
शक्रः शचीपतिर्देवो यमो धूमोर्णया सह । 011a
वरुणः सह गौर्या च सह ऋद्ध्या धनेश्वरः ॥ 011c
सौम्या गौः सुरभिर्देवी विश्रवाश्च महानृषिः । 012a
सङ्कल्पः सागरो गङ्गा स्रवन्त्योऽथ मरुद्गणः ॥ 012c
वालखिल्यास्तपःसिद्धाः कृष्णद्वैपायनस्तथा । 013a
नारदः पर्वतश्चैव विश्वावसुर्हहाहुहूः ॥ 013c
तुम्बुरुश्चित्रसेनश्च देवदूतश्च विश्रुतः । 014a
देवकन्या महाभागा दिव्याश्चाप्सरसां गणाः ॥ 014c
उर्वशी मेनका रम्भा मिश्रकेशी ह्यलम्बुषा । 015a
विश्वाची च घृताची च पञ्चचूडा तिलोत्तमा ॥ 015c
आदित्या वसवो रुद्राः साश्विनः पितरोपि च । 016a
धर्मः श्रुतं तपो दीक्षा व्यवसायः पितामहः ॥ 016c
शर्वर्यो दिवसाश्चैव मारीचः कश्यपस्तथा । 017a
शुक्रो बृहस्पतिर्भौमो बुधो राहुः शनैश्चरः ॥ 017c
नक्षत्राण्यृतवश्चैव मासाः पक्षाः सवत्सराः । 018a
वैनतेयाः समुद्राश्च कद्रुजाः पन्नगास्तथा ॥ 018c
शतद्रुश्च विपाशा च चन्द्रभागा सरस्वती । 019a
सिन्धुश्च देविका चैव प्रभासं पुष्कराणि च ॥ 019c
गङ्गा महानदी वेणा कावेरी नर्मदा तथा । 020a
कुलम्पुना विशल्या च करतोयाम्बुवाहिनी ॥ 020c
सरयूर्गण्डकी चैव लोहितश्च महानदः । 021a
ताम्रारुणा वेत्रवती पर्णाशा गौतमी तथा ॥ 021c
गोदावरी च वेण्या च कृष्णवेणा तथाऽद्रिजा । 022a
दृषद्वती च कावेरी चक्षुर्मन्दाकिनी तथा ॥ 022c
प्रयागं च प्रभासं च पुण्यं नैमिषमेव च । 023a
तच्च विश्वेश्वरस्थानं यत्र तद्विमलं सरः ॥ 023c
पुण्यतीर्थं सुसलिलं कुरुक्षेत्रं प्रकीर्तितम् । 024a
सिन्धूत्तमं तपो दानं जम्बूमार्गमथापि च ॥ 024c
हिरण्वती वितस्ता च तथा प्लक्षवती नदी । 025a
वेदस्मृतिर्वेदवती मालवाऽथाश्ववत्यपि ॥ 025c
भूमिभागास्तथा पुण्या गङ्गाद्वारमथापि च । 026a
ऋषिकुल्यास्तथा मेध्या नद्यः सिन्धुवहास्तथा ॥ 026c
चर्मण्वती नदी पुण्या कौशिकी यमुना तथा । 027a
नदी भीमरथी चैव बाहुदा च महानदी ॥ 027c
माहेन्द्रवाणी त्रिदिवा नीलिका च सरस्वती । 028a
नन्दा चापरनन्दा च तथा तीर्थमहाह्रदः ॥ 028c
गयाऽथ फल्गुतीर्थं च धर्मारण्यं सुरैर्वृतम् । 029a
तथा देवनदी पुण्या सरश्च ब्रह्मनिर्मितम् ॥ 029c
पुण्यं त्रिलोकविख्यातं सर्वपापहरं शिवम् । 030a
हिमवान्पर्वतश्चैव दिव्यौषधिसमन्वितः ॥ 030c
विन्ध्यो धातुविचित्राङ्गस्तीर्थवानौषधान्वितः । 031a
मेरुर्महेन्द्रो मलयः श्वेतश्च रजतावृतः ॥ 031c
शृङ्गवान्मन्दरो नीलो निषधो दर्दुरस्तथा । 032a
चित्रकूटोऽञ्जनाभश्च पर्वतो गन्धमादनः ॥ 032c
पुण्यः सोमगिरिश्चैव तथैवान्ये महीधराः । 033a
दिशश्च विदिशश्चैव क्षितिः सर्वे महीरुहाः ॥ 033c
विश्वेदेवा नभश्चैव नक्षत्राणि ग्रहास्तथा । 034a
पान्तु नः सततं देवाः कीर्तिताऽकीर्तिता मया ॥ 034c
कीर्तयानो नरो ह्येतान्मुच्यते सर्वकिल्बिषैः । 035a
स्तुवंश्च प्रतिनन्दंश्च मुच्यते सर्वतो भयात् ॥ 035c
सर्वसङ्करपापेभ्यो देवतास्तवनन्दकः । 036a
देवतानन्तरं विप्रांस्तपःसिद्धांस्तपोधिकान् ॥ 036c
कीर्तितान्कीर्तयिष्यामि सर्वपापप्रमोचनान् । 037a
यवक्रीतोऽथ रैम्यश्च कक्षीवानौशिजस्तथा ॥ 037c
भृग्वङ्गिरास्तथा कण्वो मेधातिथिरथ प्रभुः । 038a
बर्ही च गुणसम्पन्नः प्राचीं दिशमुपाश्रिताः ॥ 038c
भद्रां दिशं महाभागा उल्मुचुः प्रमुचुस्तथा । 039a
मुमुचुश्च महाभागः स्वस्त्यात्रेयश्च वीर्यवान् ॥ 039c
मित्रावरुणयोः पुत्रस्तथाऽगस्त्यः प्रतापवान् । 040a
दृढायुश्चोर्ध्वबाहुश्च विश्रुतावृषिसत्तमौ ॥ 040c
पश्चिमां दिशमाश्रित्य य एधन्ते निबोध तान् । 041a
उषङ्गुः सह सोदर्यैः परिव्याधश्च वीर्यवान् ॥ 041c
ऋषिर्दीर्घतमाश्चैव गौतमः काश्यपस्तथा । 042a
एकतश्च द्वितश्चैव त्रितश्चैव महानृषिः ॥ 042c
अत्रेः पुत्रश्च धर्मात्मा तथा सारस्वतः प्रभुः । 043a
उत्तरां दिशमाश्रित्य य एधन्ते निबोध तान् । 043c
अत्रिर्वसिष्ठः शक्तिश्च पाराशर्यश्च वीर्यवान् । 044a
विश्वामित्रो भरद्वाजो जमदग्निस्तथैव च ॥ 044c
ऋचीकपुत्रो रामश्च ऋषिरौद्दालकिस्तथा । 045a
श्वेतकेतुः कोहलश्च विपुलो देवलस्तथा ॥ 045c
देवशर्मा च धौम्यश्च हस्तिकाश्यप एव च । 046a
लोमशो नाचिकेतश्च लोमहर्षण एव च ॥ 046c
ऋषिरुग्रश्रवाश्चैव भार्गवश्च्यवनस्तथा । 047a
एष वै समवायश्च ऋषिदेवसमन्वितः ॥ 047c
आद्यः प्रकीर्तितो राजन्सर्वपापप्रमोचनः । 048a
नृगो ययातिर्नहुषो यदुः पूरुश्च वीर्यवान् ॥ 048c
धुन्धुमारो दिलीपश्च सगरश्च प्रतापवान् । 049a
कृशाश्वो यौवनाश्वश्च चित्राश्वः सत्यवांस्तथा ॥ 049c
दुष्यन्तो भरतश्चैव चक्रवर्ती महायशाः । 050a
पवनो जनकश्चैव तथा दृष्टरथो नृपः ॥ 050c
रघुर्नरवरश्चैव तथा दशरथो नृपः । 051a
रामो राक्षसहा वीरः शशबिन्दुर्भगीरथः ॥ 051c
हरिश्चन्द्रो मरुत्तश्च तथा दृढरथो नृपः । 052a
महोदर्यो ह्यलर्कश्च ऐलश्चैव नराधिपः ॥ 052c
करन्धमो नरश्रेष्ठः कध्मोरश्च नराधिपः । 053a
दक्षोऽम्बरीषः कुकुरो रैवतश्च महायशाः ॥ 053c
कुरु संवरणश्चैव मान्धाता सत्यविक्रमः । 054a
मुचुकुन्दश्च राजर्षिर्जह्नुर्जाह्नविसेवितः ॥ 054c
आदिराजः पृथुर्वैन्यो मित्रभानुः प्रियङ्करः । 055a
त्रसद्दस्युस्तथा राजा श्वेतो राजर्षिसत्तमः ॥ 055c
महाभिषश्च विख्यातो निमी राजा तथाऽष्टकः । 056a
आयुः क्षुपश्च राजर्षिः कक्षेयुस्च नराधिपः ॥ 056c
प्रतर्दनो दिवोदासः सुदासः कोसलेश्वरः । 057a
ऐलो नलश्च राजर्षिर्मनुश्चैव प्रजापतिः ॥ 057c
हविध्रश्च पृषध्रश्च प्रतीपः शान्तनुस्तथा । 058a
अजः प्राचीनबर्हिश्च तथैक्ष्वाकुर्महायशाः ॥ 058c
अनरण्यो नरपतिर्जानुजङ्घस्तथैव च । 059a
कक्षसेनश्च राजर्षिर्ये चान्ये चानुकीर्तिताः ॥ 059c
कल्यमुत्थाय यो नित्यं सन्ध्ये द्वेऽस्तमयोदये । 060a
पठेच्छुचिरनावृत्तः स धर्मफलभाग्भवेत् ॥ 060c
देवा देवर्षयश्चैव स्तुता राजर्षयस्तथा । 061a
पुष्टिमायुर्यशः स्वर्गं विधास्यन्ति ममेश्वराः ॥ 061c
मा विघ्नं मा च मे पापं मा च मे परिपन्थिनः । 062a
ध्रुवो जयो मे नित्यः स्यात्परत्र च शुभा गतिः ॥ 062c
'पालय त्वं प्रजाः सर्वाः शान्तात्मा त्वनुशासिता । 063a
द्वैपायनः स्वयञ्चक्षुः कृष्णस्तेऽस्तु परायणम् ॥ 063c
वैशम्पायन उवाच । 064
इत्युक्त्वोपासनार्थाय विरराम महामतिः ॥' ॥ 064ac

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकसप्तत्यधिकद्विशततमोऽध्यायः ॥ 271 ॥