अध्यायः 269

अथ दानधर्मपर्व ॥ 1 ॥

भीष्मेण युधिष्ठिरम्प्रत्यन्वयव्यतिरेकाभ्यां सुकृतदुष्कृतयोः सदृष्टान्तप्रदर्शनं सुखदुःखकारणत्वोपपादनम् ॥ 1 ॥

युधिष्ठिर उवाच । 001
नाभागधेयः प्राप्नोति धनं सुबलवानपि । 001a
भागधेयान्वितस्त्वर्थान्कृशो बालश्च विन्दति ॥ 001c
नालाभकाले लभते प्रयत्नेऽपि कृते सति । 002a
लाभकालेऽप्रयत्नेन लभते विपुलं धनम् ॥ 002c
कृतयत्नाफलाश्चैव दृश्यन्ते शतशो नराः । 003a
अयत्नेनैधमानाश्च दृश्यन्ते बहवो जनाः ॥ 003c
यदि यत्नो भवेन्मर्त्यः स सर्वं फलमाप्नुयात् । 004a
नालभ्यं चोपलभ्येत नृणां भरतसत्तम ॥ 004c
प्रयत्नं कृतवन्तोपि दृश्यन्ते ह्यफला नराः । 005a
मार्गत्यायशतैरर्थानमार्गश्चापरः सुखी ॥ 005c
अकार्यमसकृत्कृत्वा दृश्यन्ते ह्यधना नराः । 006a
धनयुक्ताः स्वकर्मस्था दृश्यन्ते चापरेऽधनाः ॥ 006c
अधीत्य नीतिशास्त्राणि नीतियुक्तो न दृश्यते । 007a
अनभिज्ञश्च साचिव्यं गमितः केन हेतुना ॥ 007c
विद्यायुक्तो ह्यविद्यश्च धनवान्दुर्मतिस्तथा । 008a
यदि विद्यामुपाश्रित्य नरः सुखमवाप्नुयात् ॥ 008c
न विद्वान्विद्यया हीनं वृत्त्यर्थमुपसंश्रयेत् । 009a
यथा पिपासां जयति पुरुषः प्राप्य वै जलम् ॥ 009c
इष्टार्थो विद्यया ह्येव न विद्यां प्रजहेन्नरः ॥ 010ac
नाप्राप्तकालो म्रियते विद्धः शरशतैरपि । 011a
तृणाग्रेणापि संस्पृष्टः प्राप्तकालो न जीवति ॥ 011c
भीष्म उवाच । 012
ईहमानः समारम्भान्यदि नासादयेद्धनम् । 012a
उग्रं तपः समारोहेन्न ह्यनुप्तं प्ररोहति ॥ 012c
दानेन भोगी भवति मेधावी वृद्धसेवया । 013a
अहिंसया च दीर्घायुरिति प्राहुर्मनीषिणः ॥ 013c
तस्माद्दद्यान्न याचेत पूजयेद्धार्मिकानपि । 014a
सुभाषी प्रियकृच्छान्तः सर्वसत्वाविहिंसकः ॥ 014c
यदा प्रमाणं प्रसवः स्वभावश्च सुखासुखे । 015a
दंशकीटपिपीलानां स्थिरो भव युधिष्ठिर ॥ ॥ 015c

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकोनसप्तत्यधिकद्विशततमोऽध्यायः ॥ 269 ॥

13-269-3 कृतो यत्नोऽफलो येषां ते कृतयत्नाफलाः ॥ 13-269-4 भवेत्समर्थः स्यात् ॥ 13-269-5 आयशतैः उपायशतैः । सुखी धनेन ॥ 13-269-13 तपसेह भोगी भवतीति ट.थ.पाठः ॥ 13-269-15 प्रसवः प्रसवकारणं कर्मैव । दंशादीनां सुखाद्याप्तौ प्रमाणं नियामकम् । एवं स्वस्यापि ज्ञात्वा स्थिरोऽचञ्चलो भव ॥