अध्यायः 268
अथ दानधर्मपर्व ॥ 1 ॥
भीष्मेण युधिष्ठिरम्प्रति धार्मिकाधार्मिकाणां स्वर्गनरकप्राप्तिप्रतिपादनम् ॥ 1 ॥ तथा साध्वसाधुजनकलक्षणाभिधानपूर्वकं सामान्यतो नानाधर्मप्रतिपादनम् ॥ 3 ॥
युधिष्ठिर उवाच । 001
ये च धर्ममसूयन्ते ये चैनं पर्युपासते । 001a
ब्रवीतु मे भवानेतत्क्व ते गच्छन्ति तादृशाः ॥ 001c
भीष्म उवाच । 002
रजसा तमसा चैव समवस्तीर्णचेतसः । 002a
नरकं प्रतिपद्यन्ते धर्मविद्वेषिणो जनाः ॥ 002c
ये तु धर्मं महाराज सततं पर्युपासते । 003a
सत्यार्जवपराः सन्तस्ते वै स्वर्गभूजो नराः ॥ 003c
धर्म एव रतिस्तेषामाचार्योपासनाद्भवेत् । 004a
देवलोकं प्रपद्यन्ते ये धर्मं पर्युपासते ॥ 004c
मनुष्या यदि वा देवाः शरीरमुपताप्य वै । 005a
धर्मिणः सुखमेधन्ते लोभद्वेषविवर्जिताः ॥ 005c
प्रथमं ब्रह्मणः पुत्रं धर्ममाहुर्मनीषिणः । 006a
धर्मिणः पर्युपासन्ते फलं पक्वमिवाशिनः ॥ 006c
युधिष्ठिर उवाच । 007
असाधोः कीदृशं शीलं साधोश्चैव तु कीदृशम् । 007a
ब्रवीतु मे भवानेतत्सन्तोऽसन्तश्च कीदृशाः ॥ 007c
भीष्म उवाच । 008
दुराधाराश्च दुर्धर्षा दुर्मुखाश्चाप्यसाधवः । 008a
साधवः शीलसम्पन्नाः शिष्टाचारस्य लक्षणम् ॥ 008c
राजमार्गे गवां मध्ये जनमध्ये च धर्मिणः । 009a
नोपसेचन्ति राजेन्द्र सर्गं मूत्रपुरीषयोः ॥ 009c
पञ्चानां यजनं कृत्वा शेषमश्नन्ति साधवः । 010a
न जल्पन्ति च भुञ्जाना न निद्रान्त्यार्द्रपाणयः ॥ 010c
चित्रभानुमपां देवं गोष्ठं चैव चतुष्पथम् । 011a
ब्राह्मणं धार्मिकं वृद्धं ये कुर्वन्ति प्रदक्षिणम् ॥ 011c
वृद्धानां भारतप्तानां स्त्रीणां बालातुरस्य च । 012a
ब्राह्मणानां गवां राज्ञां पन्थानं ददते च ये ॥ 012c
अतिथीनां च सर्वेषां प्रेष्याणां स्वजनस्य च । 013a
'सामान्यं भोजनं कुर्यात्स्वयं नाग्र्याशनं व्रजेत् ॥ 013c
न सत्यार्जवधर्मस्य तुल्यमन्यच्च विद्यते । 014a
बहुला नाम गौस्तेन गतिमग्र्यां गता किल ॥ 014c
मुनिशापाद्द्विजः कश्चिद्व्याघ्रतां समुपागतः । 015a
बहुलां भक्षणरुचिरास्वाद्य शपथेन तु ॥ 015c
विमुच्य पीतवत्सां तां दृष्ट्वा स्मृत्वा पुरातनम् । 016a
जगाम लोकानमलान्सा स्वराष्ट्रं तथा पुनः ॥ 016c
तस्मात्सत्यार्जवरतो राजन्राष्ट्रं समानवम् । 017a
तारयित्वा सुखं स्वर्गं गन्तासि भरतर्षभ ॥ 017c
तथा शरणकामानां गोप्ता स्यात्स्वागतप्रदः ॥ 018ac
सायं प्रातर्मनुष्याणामशनं देवनिर्मितम् । 019a
नान्तरा भोजनं दृष्टमुपवासविधिर्हि सः ॥ 019c
होमकाले यथा वह्निः काले होमं प्रतीक्षते । 020a
ऋतुकाले तथाऽऽधानं पितरश्च प्रतीक्षते । 020c
नान्यदा गच्छते यस्तु ब्रह्मचर्यं च तत्स्मृतम् ॥ 020e
अमृतं ब्राह्मणा गाव इत्येतत्त्रयमेकतः । 021a
तस्माद्गोब्राह्मणान्नित्यमर्चयेत यथाविधि ॥ 021c
यजुषां संस्कृतं मांसमुपभुञ्जन्न दुष्यति । 022a
पृष्ठमांसं वृथामांसं पुत्रमांसं च तत्समम् ॥ 022c
स्वदेशे परदेशे वाऽप्यतिथिं नोपवासयेत् । 023a
कर्म वै सफलं कृत्वा गुरुणां प्रतिपादयेत् ॥ 023c
गुरुभ्यस्त्वासनं देयमभिवाद्याभिपूज्य च । 024a
गुरुमभ्यर्च्य वर्धन्ते आयुषा यशसा श्रिया ॥ 024c
वृद्धान्नाभिभवेज्जातु न चैतान्प्रेषयेदिति । 025a
नासीनः स्यात्स्थितेष्वेवमायुरस्य न रिष्यते ॥ 025c
न नग्नामीक्षते नारीं न नग्नान्पुरुषानपि । 026a
मैथुनं सततं गुप्तं तपश्चैव समाचरेत् ॥ 026c
तीर्थानां गुरवस्तीर्थं शुचीनां हृदयं शुचि । 027a
दर्शनानां परं ज्ञानं सन्तोषः परमं सुखम् ॥ 027c
सायं प्रातश्च वृद्धानां शृणुयात्पुष्कला गिरः । 028a
श्रुतमाप्नोति हि नरः सततं वृद्धसेवया ॥ 028c
स्वाध्याये भोजने चैव दक्षिणं पाणिमुद्धरेत् । 029a
यच्छेद्वाङ्मनसी नित्यमिन्द्रियाणि तथैव च ॥ 029c
संस्कृतं पायसं नित्यं यावकं कृसरं हविः । 030a
अष्टकाः पितृदैवत्या ग्रहाणामभिपूजनम् ॥ 030c
श्मश्रुकर्मणि मङ्गल्यं क्षुतानामभिनन्दनम् । 031a
व्याधितानां च सर्वेषामायुषामभिनन्दनम् ॥ 031c
न जातु त्वमिति ब्रूयादापन्नोपि महत्तरम् । 032a
त्वङ्कारो वा वधो वेति विद्वत्सु न विशिष्यते । 032c
अवराणां समानानां शिष्याणां च समाचरेत् ॥ 032e
पापमाचरते नित्यं हृदयं पापकर्मणाम् । 033a
ज्ञानपूर्वकृतं कर्म च्छादयन्ते ह्यसाधवः ॥ 033c
ज्ञानपूर्वं विनश्यन्ति गूहमाना महाजने । 034a
न मां मनुष्याः पश्यन्ति न मां पश्यन्ति देवताः ॥ 034c
पापेनाभिहितः पापः पापमेवाभिजायते ॥ 035ac
यथा वार्धुषिको वृद्धिं दिनभेदे प्रतीक्षते । 036a
धर्मेण पिहितं पापं धर्ममेवाभिवर्धयेत् ॥ 036c
यथा लवणमम्भोभिराप्लुतं प्रविलीयते । 037a
प्रायश्चित्तहतं पापं तथा सद्यः प्रणश्यति ॥ 037c
तस्मात्पापं न गूहेत गूहमानं विवर्धते । 038a
कृत्वा तु सादुष्वाख्यायाधर्मं प्रशमयन्त्युत ॥ 038c
आशया सञ्चितं द्रव्यं स्वकाले नोपभुज्यते । 039a
अन्ये चैतत्प्रपद्यन्ते वियोगे तस्य देहिनः ॥ 039c
'तद्धर्मसाधनं नित्यं सङ्कल्पाद्धनमार्जयेत् ।' 040a
मननं सर्वभूतानां धर्ममाहुर्मनीषिणः । 040c
तस्मात्सर्वाणि भूतानि धर्ममेव समासते ॥ 040e
एक एव चरेद्धर्मं न धर्मध्वजिको भवेत् । 041a
धर्मवाणिजका ह्येते ये धर्ममुपभुञ्जते ॥ 041c
अर्चेद्देवानदम्भेन सेवेताऽमायया गुरून् । 042a
धनं निदध्यात्पात्रेषु परत्रार्थं समावृतम् ॥ ॥ 042c
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि अष्टषष्ट्यधिकद्विशततमोऽध्यायः ॥ 268 ॥
13-268-7 कीदृशाः किंलक्षणाः ॥ 13-268-9 सर्गं उत्सर्गम् ॥ 13-268-10 पञ्चनां देवपितृभूतातिथिकुटुम्बानाम् ॥ 13-268-20 ऋतुकाले तथा नारी ऋतुमेव प्रतीक्षते इति झ.पाठः । नचान्यां गच्छते यस्तु ब्रह्मचर्यं च तस्य तत् इति क.ट.थ. पाठः ॥ 13-268-23 कर्म अध्ययनम् । प्रतिपादयेत् दक्षिणामिति शेषः ॥ 13-268-25 वृद्धान्नातिवदेज्जात्विति क.ट.थ.पाठः ॥ 13-268-29 दक्षिणं पाणिं उद्धरेत् यज्ञोपवीती भवेत् ॥ 13-268-31 मङ्गल्यं मङ्गलवचनम् । अभिनन्दनं शतं जीवेति वचनेन सुखोत्पादनं च । कुर्यादिति शेषः ॥ 13-268-32 त्वङ्कारो वा वदस्वेतीति क.ट.थ.पाठः ॥ 13-268-41 धर्मध्वजिकस्तत्प्रकाशकः ॥