अध्यायः 266

अथ दानधर्मपर्व ॥ 1 ॥

कृष्णेन युधिष्ठिरम्प्रति महेश्वरादिनामनिर्वचनपूर्वकं शिवमहिमोक्तिः ॥ 1 ॥

वासुदेव उवाच । 001
युधिष्ठिर महाबाहो महाभाग्यं महात्मनः । 001a
रुद्राय बहुरूपाय बहुनाम्ने निबोध मे ॥ 001c
वदन्त्युग्रं महादेवं तथा स्थाणुं महेश्वरम् । 002a
एकाक्षं त्र्यम्बकं चैव विश्वरूपं शिवं तथा ॥ 002c
द्वे तनू तस्य देवस्य वेदज्ञा ब्राह्मणा विदुः । 003a
घोरामन्यां शिवामन्यां ते तनू बहुधा पुनः ॥ 003c
उग्रा घोरा तनुर्याऽस्य सोऽग्निर्विद्युत्स भास्करः । 004a
शिवा सौम्या च या त्वस्य धर्मस्त्वापोथ चन्द्रमाः ॥ 004c
आत्मनोऽर्धं तु तस्याग्निः सोमोऽर्धं पुनरुच्यते । 005a
ब्रह्मचर्यं चरत्येका शिवा चास्य तनुस्तथा ॥ 005c
याऽस्य घोरतमा मूर्तिर्जगत्संहरते तथा । 006a
ईश्वरत्वान्महत्त्वाच्च महेश्वर इति स्मृतः ॥ 006c
यन्निर्दहति यत्तीक्ष्णो यदुग्रो यत्प्रतापवान् । 007a
मांसशोणितमज्जादो यत्ततो रुद्र उच्यते ॥ 007c
देवानां सुमहान्यच्च यच्चास्य विषयो महान् । 008a
यच्च विश्वं जगत्पाति महादेवस्ततः स्मृतः ॥ 008c
धूम्ररूपा जटा यस्माद्धूर्जटीत्यत उच्यते ॥ 009ac
स मेधयति यन्नित्यं सर्वान्वै सर्वकर्मभिः । 010a
शिवमिच्छन्मनुष्याणां तस्मादेष शिवः स्मृतः ॥ 010c
दहत्यूध्वं स्थितो यच्च प्राणान्नॄणां स्थिरश्च यत् । 011a
स्थिरलिङ्गश्च यन्नित्यं तस्मात्स्थाणुरिति स्मृतः ॥ 011c
यदस्य बहुधा रूपं भूतं भव्यं भवत्तथा । 012a
स्थावरं जङ्गमं चैव बहुरूपस्ततः स्मृतः ॥ 012c
विश्वेदेवाश्च यत्तस्मिन्विश्वरूपस्ततः स्मृतः । 013a
सहस्राक्षोऽयुताक्षो वा सर्वतोक्षिमयोपि वा । 013c
चक्षुषः प्रभवं तेजः सर्वतश्चक्षुरेव तत् ॥ 013e
सर्वथा यत्पशून्पाति तैश्च यद्रमते सह । 014a
तेषामधिपतिर्यच्च तस्मात्पशुपतिः स्मृतः ॥ 014c
नित्येन ब्रह्मचर्येण लिङ्गमस्य यदा स्थितम् । 015a
'भक्तानुग्रहणार्थाय गूढलिङ्गस्ततः स्मृतः ।' 015c
महयत्यस्य लोकश्च प्रियं ह्येतन्महात्मनः ॥ 015e
विग्रहं पूजयेद्यो वै लिङ्गं वाऽपि महात्मनः । 016a
लिङ्गं पूजयिता नित्यं महतीं श्रियमश्नुते ॥ 016c
ऋषयश्चापि देवाश्च गन्धर्वाप्सरसस्तथा । 017a
लिङ्गमेवार्चयन्ति स्म यत्तदूर्ध्वं समास्थितम् । 017c
पूज्यमाने ततस्तस्मिन्मोदते स महेश्वरः । 018a
सुखं ददाति प्रीतात्मा भक्तानां भक्तवत्सलः ॥ 018c
एष एव श्मशानेषु देवो वसति निर्दहन् । 019a
यजन्ते ये जनास्तत्र वीरस्थाननिषेविणः ॥ 019c
विषमस्थः शरीरेषु स मृत्युः प्राणिनामिह । 020a
स च वायुः शरीरेषु प्राणपालः शरीरिणाम् ॥ 020c
तस्य घोराणि रूपाणि दीप्तानि च बहुनि च । 021a
लोके यान्यस्य पूज्यन्ते विप्रास्तानि विदुर्बुधाः ॥ 021c
नामधेयानि देवेषु बहून्यस्य यथार्थवत् । 022a
निरुच्यन्ते महत्त्वाच्च विभुत्वात्कर्मभिस्तथा ॥ 022c
वेदे चास्य विदुर्विप्राः शतरुद्रीयमुत्तमम् । 023a
व्यासेनोक्तं च यच्चापि उपस्थानं महात्मनः ॥ 023c
प्रदाता सर्वलोकानां विश्वसाक्षी निरामयः । 024a
ज्येष्ठभूतं वदन्त्येनं ब्राह्मणा ऋषयोऽपरे ॥ 024c
प्रथमो ह्येष देवानां मुखादग्निमजीजनत् । 025a
ग्रहैर्बहुविधैः प्राणान्संरुद्धानुत्सृजत्यपि ॥ 025c
विमोक्षयति तुष्टात्मा शरण्यः शरणागतान् । 026a
आयुरारोग्यमैश्वर्यं हितं कामांश्च पुष्कलान् ॥ 026c
स ददाति मनुष्येभ्यः स एवाक्षिपते पुनः । 027a
शक्रादिषु च देवेषु तस्य चैश्वर्यमुच्यते ॥ 027c
स एव स्थापको नित्यं त्रैलोक्यस्य शुभाशुभे । 028a
ऐश्वर्याच्चैव कामानामीश्वरः पुनरुच्यते ॥ 028c
महेश्वरश्च लोकानां महतामीश्वरश्च सः । 029a
बहुभिर्विविधै रूपैर्विश्वं व्याप्तमिदं जगत् । 029c
तस्य देवस्य यद्वक्त्रं समुद्रे वडवामुखम् ॥ ॥ 029e

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि षट्षष्ट्यधिकद्विशततमोऽध्यायः ॥ 266 ॥

13-266-4 सा अग्निविद्युत्समप्रभेति क.ट.थ.पाठः ॥