अध्यायः 265

अथ दानधर्मपर्व ॥ 1 ॥

कृष्णेन युधिष्ठिरम्प्रति दक्षाध्वरविध्वंसनत्रिपुरदहनादिरूपरुद्रचरित्रपरिकीर्तनम् ॥ 1 ॥

युधिष्ठिर उवाच । 001
दुर्वाससः प्रसादात्ते शङ्करांशस्य माघव । 001a
अवाप्तमिह विज्ञानं तन्मे व्याख्यातुमर्हसि ॥ 001c
महाभाग्यं च यत्तस्य नामानि च महात्मनः । 002a
तत्त्वमो ज्ञातुमिच्छामि सर्वं मतिमतांवर ॥ 002c
वासुदेव उवाच । 003
हन्ति ते कीर्तयिष्यामि नमस्कृत्य कपर्दिने । 003a
यदवाप्तं मया राजञ्श्रेयो यच्चार्जितं यशः ॥ 003c
प्रयतः प्रातरुत्थाय यस्त्वधीयेद्विशाम्पते । 004a
प्राञ्जलिः शतरुद्रीयं नास्य किञ्चन दुर्लभम् ॥ 004c
'शिवः सर्वगतो रुद्रः स्रष्टा यस्त्वं शृणुष्व मे ।' 005a
प्रजापतिस्तमसृजत्तमसोऽन्ते महातपाः । 005c
शङ्करस्त्वसृजत्तात प्रजाः स्थावरजङ्गमाः ॥ 005e
नास्ति किञ्चित्परं भूतं महादेवाद्विशाम्पते । 006a
इह त्रिष्वपि लोकेषु भूतानां प्रभवो हि सः ॥ 006c
न चैवोत्सहते स्थातुं कश्चिदग्रे महात्मनः । 007a
न हि भूतं समं तेन त्रिषु लोकेषु विद्यते ॥ 007c
गन्धेनापि हि सङ्ग्रामे तस्य क्रुद्धस्य शत्रवः । 008a
विसञ्ज्ञा हतभूयिष्ठा वेपन्ते च पतन्ति च ॥ 008c
घोरं च निनदं तस्य पर्जन्यनिनदोपम् । 009a
श्रुत्वा विशीर्येद्धृदयं देवानामपि संयुगे । 009c
यं चाक्ष्णा घोररूपेण पश्येद्दग्धः पतेदधः ॥ 009e
न सुरा नासुरा लोके न गन्धर्वा न पन्नगाः । 010a
कुपिते सुखमेधन्ते तस्मिन्नपि गुहागताः ॥ 010c
प्रजापतेश्च दक्षस्य यजतो वितते क्रतौ । 011a
विव्याध कुपितो यज्ञं निर्भयस्तु भवस्तदा ॥ 011c
धनुषा वाणमुत्सृज्य सुघोरं विननाद च ॥ 012ac
ते न शर्म कुतः शान्तिं विषादं लेभिरे सुराः । 013a
विद्धे च सहसा यज्ञे कुपिते च महेश्वरे ॥ 013c
तेन ज्यातलघोषेण सर्वे लोकाः समाकुलाः । 014a
बभूवुरवशाः पार्थ विषेदुश्च सुरासुराः ॥ 014c
आपश्चुक्षुभिरे चैव चकम्पे च वसुन्धरा । 015a
व्यद्रवन्गिरयश्चापि द्यौः पफाल च सर्वशः ॥ 015c
अन्धेन तमसा लोकाः प्रावृता न चकाशिरे । 016a
प्रनष्टा ज्योतिषां भाश्च सह सूर्येण भारत ॥ 016c
भृशं भीतास्ततः शान्तिं चत्रुः स्वस्त्ययनानि च । 017a
ऋषयः सर्वभूतानामात्मनश्च हितैषिणः ॥ 017c
ततः सोऽभ्यद्रवद्देवान्रुद्रो रौद्रपराक्रमः । 018a
भगस्य नयने क्रुद्धः प्रहारेण व्यशातयत् ॥ 018c
पूषणं चाभिदुद्राव घोरेण वपुषाऽन्वितः । 019a
पुरोडाशं भक्षयतो दशनान्वै व्यशातयत् ॥ 019c
ततः प्रणेमुर्देवास्ते वेपमानाः स्म शङ्करम् । 020a
पुनश्च सन्दधे रुद्रो दीप्तं सुनिशितं शरम् ॥ 020c
रुद्रस्य विक्रमं दृष्ट्वा भीता देवाः सहर्षिभिः । 021a
ततः प्रसादयामासुः शर्वं ते विबुधोत्तमाः ॥ 021c
जेषुश्च शतरुद्रीयं देवाः कृत्वाञ्जलिं तदा । 022a
संस्तूयमानस्त्रिदशैः प्रससाद महेश्वरः ॥ 022c
रुद्रस्य भागं यज्ञे च विशिष्टं ते त्वकल्पयन् । 023a
भयेन त्रिदशा राजञ्शरणं च प्रपेदिरे ॥ 023c
तेन चैव हि तुष्टेन स यज्ञः सन्धितोऽभवत् । 024a
यद्यच्चापहृतं तत्र तत्तथैवान्वजीवयत् ॥ 024c
असुराणां पुराण्यासंस्त्रीणि वीर्यवतां दिवि । 025a
आयसं राजतं चैव सौवर्णमपि चापरम् ॥ 025c
नाशकत्तानि मघवा भेत्तुं सर्वायुधैरपि । 026a
अथ सर्वेऽमरा रुद्रं जग्मुः शरणमर्दिताः ॥ 026c
तत ऊचुर्महात्मानो देवाः सर्वे समागताः । 027a
रुद्र रौद्रा भविष्यन्ति पशवः सर्वकर्मसु ॥ 027c
जहि दैत्यान्सह पुरैर्लोकांस्त्रायस्व मानद । 028a
स तथोक्तस्तथेत्युक्त्वा कृत्वा विष्णुं शरोत्तमम् ॥ 028c
शल्यमग्निं तथा कृत्वा पुङ्खं वैवस्वतं यमम् । 029a
ओङ्कारं च धनुः सर्वाञ्ज्यां च सावित्रिमुत्तमां ॥ 029c
ब्रह्माणं सारथिं कृत्वा विनियुज्य च सर्वशः । 030a
त्रिपर्वणा त्रिशल्येन तेन तानि बिभेद सः ॥ 030c
शरेणादित्यवर्णेन कालाग्निसमतेजसा । 031a
तेऽसुराः सपुरास्तत्र दग्धा रुद्रेण भारत ॥ 031c
तं चैवाङ्कगतं दृष्ट्वा बालं पञ्चशिखं पुनः । 032a
उमा जिज्ञासमाना वै कोऽयमित्यब्रवीत्तदा ॥ 032c
असूयतश्च शक्रस्य वज्रेणि प्रहरिष्यतः । 033a
सवज्रं स्तम्भयामास तं बाहुं परिघोपमम् ॥ 033c
न संयुयुधिरे चैव देवास्तं भुवनेश्वरम् । 034a
सप्रजापतयः सर्वे तस्मिन्मुमुहुरीश्वरे ॥ 034c
ततो ध्यात्वा च भगवान्ब्रह्मा तममितौजसम् । 035a
अयं श्रेष्ठ इति ज्ञात्वा ववन्दे तमुमापतिम् ॥ 035c
ततः प्रसादयामासुरुमां रुद्रं च ते सुराः । 036a
बभूव स तदा बालः प्रययौ तु यथापुरम् ॥ 036c
स चापि ब्राह्मणो भूत्वा दुर्वासा नाम वीर्यवान् । 037a
द्वारवत्यां मम गृहे चिरं कालमुपावसन् ॥ 037c
विप्रकारान्प्रयुङ्क्ते स्म सुबहून्मम वेश्मनि । 038a
तानुदारतया चाहं चक्षमे चातिदुःसहान् ॥ 038c
स वै रुद्रः स च शिवः सोग्निः सर्वः स सर्वजित् । 039a
स चैवेन्द्रश्च वायुश्च सोऽस्विनौ स च विद्युतः ॥ 039c
स चन्द्रमाः स चेशानः स सूर्यो वरुणश्च सः । 040a
स कालः सोन्तको मृत्युः स यमो रात्र्यहानि च ॥ 040c
मासार्धमासा ऋतवः सन्ध्ये संवत्सरश्च सः । 041a
स धाता स विधाता च विश्वकर्मा स सर्ववित् ॥ 041c
नक्षत्राणि ग्रहाश्चैव दिशोऽथ प्रदिशस्तथा । 042a
विश्वमूर्तिरमेयात्मा भगवान्परमद्युतिः ॥ 042c
एकधा च द्विधा चैव बहुधा च स एव हि । 043a
शतधा सहस्रधा चैव तथा शतसहस्रधा ॥ 043c
ईदृशः स महादेवो भूयश्च भगवानतः । 044a
न हि शक्या गुणा वक्तुमपि वर्षशतैरपि ॥ ॥ 044c

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि पञ्चषष्ट्यदिकद्विशततमोऽध्यायः ॥ 265 ॥