अध्यायः 264
अथ दानधर्मपर्व ॥ 1 ॥
कृष्णेन युधिष्ठिरम्प्रति ब्राह्मणानां महत्तरत्वे दृष्टान्ततया स्वेन प्रद्युम्नं प्रत्युक्तदुर्वासश्चरित्रप्रतिपादनम् ॥ 1 ॥
युधिष्ठिर उवाच । 001
ब्रूहि ब्राह्मणपूजायां व्युष्टिं त्वं मधुसूदन । 001a
वेत्ता त्वमस्य चार्थस्य वेद त्वां हि पितामहः ॥ 001c
वासुदेव उवाच । 002
शृणुष्वावहितो राजन्द्विजानां भरतर्षभ । 002a
यथातत्त्वेन वदतो गुणान्वै कुरुसत्तम ॥ 002c
द्वारवत्यां समासीनं पुरा मां कुरुनन्दन । 003a
प्रद्युम्नः परिपप्रच्छ ब्राह्मणैः परिकोपितः ॥ 003c
किं फलं ब्राह्मणेष्वस्ति पूजायां मधुसूदन । 004a
ईश्वरत्वं कुतस्तेषामिहैव च परत्र च ॥ 004c
सदा द्विजातीन्सम्पूज्य किं फलं तत्र मानद । 005a
एतद्ब्रूहि स्फुटं सर्वं सुमहान्संशयोऽत्र मे ॥ 005c
इत्युक्ते वचने तस्मिन्प्रद्युम्नेन तथा त्वहम् । 006a
प्रत्यब्रवं महाराज यत्तच्छृणु समाहितः ॥ 006c
व्युष्टिं ब्राह्मणपूजायां रौक्मिणेय निबोध मे । 007a
एते हि सोमराजान ईश्वराः सुखदुःखयोः ॥ 007c
अस्मिल्ँलोके रौक्मिणेय तथाऽमुष्मिंश्च पुत्रक । 008a
ब्राह्मणप्रमुखं सौम्यं न मेऽत्रास्ति विचारणा ॥ 008c
ब्राह्मणप्रभवं सौख्यमायुः कीर्तिर्यशो बलम् । 009a
लोका लोकेश्वराश्चैव सर्वे ब्राह्मणपूजकाः ॥ 009c
त्रिवर्गे चापवर्गे च यशःश्रीरोगशान्तिषु । 010a
देवतापितृपूजासु सन्तोष्याश्चैव नो द्विजाः ॥ 010c
तान्कथं वै नाद्रियेयमीश्वरोस्मीति पुत्रक । 011a
मा ते मन्युर्महाबाहो भवत्वत्र द्विजान्प्रति ॥ 011c
ब्राह्मणा हि महद्भूतमस्मिल्ँलोके परत्र च । 012a
भस्म कुर्यर्जगदिदं क्रुद्धाः प्रत्यक्षदर्शिनः ॥ 012c
हन्युस्तेऽपि सृजेयुश्च लोकान्लोकेश्वरांस्तथा । 013a
कथं तेषु न वर्तेरन्सम्यग्ज्ञानात्सुतेजसः ॥ 013c
अवसन्मद्गृहे तात ब्राह्मणो हरिपिङ्गलः । 014a
चीरवासा बिल्वदण्डी दीर्घश्मश्रुः कृशो महान् ॥ 014c
दीर्घेभ्यश्च मनुष्येभ्यः प्रमाणादधिको भुवि । 015a
स स्वैरं चरते लोकान्ये दिव्या ये च मानुषाः ॥ 015c
इमां गाथां गायमानश्चत्वरेषु सभासु च । 016a
दुर्वाससं वासयेत्को ब्राह्मणं सत्कृतं गृहे ॥ 016c
रोषणः सर्वभूतानां सूक्ष्मेऽप्यपकृते कृते । 017a
परिभाषां च मे श्रुत्वा को नु दद्यात्प्रतिश्रयम् ॥ 017c
यो मां कश्चिद्वासयीत न स मां कोपयेदिति । 018a
यस्मान्नाद्रियते कश्चित्ततोऽहं समवासयम् ॥ 018c
स सम्भुङ्क्ते सहस्राणां बहूनामन्नमेकदा । 019a
एकदा सोल्पकं भुङ्क्ते नचैवैति पुनर्गृहान् ॥ 019c
अकस्माच्च प्रहसति तथाऽकस्मात्प्ररोदिति । 020a
न चास्य वयसा तुल्यः पृथिव्यामभवत्तदा ॥ 020c
अथ स्वावसथं गत्वा सशय्यास्तरणानि च । 021a
अदहत्स महातेजास्ततश्चाभ्यपतत्स्वयम् ॥ 021c
अथ मामब्रवीद्भूयः स मुनिः संशितव्रतः । 022a
कृष्ण पायसमिच्छामि भोक्तुमित्येव सत्वरः ॥ 022c
तदैव तु मया तस्य चित्तज्ञेन गृहे जनः । 023a
सर्वाण्यन्नानि पानानि भक्ष्याश्चोच्चावचास्तथा ॥ 023c
भवन्तु सत्कृतानीह पूर्वमेव प्रयोचितः । 024a
ततोऽहं ज्वलमानं वै पायसं प्रत्यवेदयम् ॥ 024c
तं भुक्त्वैव स तु क्षिप्रं ततो वचनमब्रवीत् । 025a
क्षिप्रमङ्गानि लिम्पस्व पायसेनेति स स्म ह ॥ 025c
अविमृश्यैव च ततः कृतवानस्मि तत्तथा । 026a
तेनोच्छिष्टेन गात्राणि शरीरं च समालिपम् ॥ 026c
स ददर्श तदाऽभ्याशे मातरं ते शुभाननाम् । 027a
तामपि स्मयमानां स पायसेनाभ्यलेपयत् ॥ 027c
मुनिः पायसदिग्धाङ्गीं रथे तूर्णमयोजयत् । 028a
तमारुद्य रथं चैव निर्ययौ स गृहान्मम ॥ 028c
अग्निवर्णो ज्वलन्धीमान्स द्विजो रथधुर्यवत् । 029a
प्रतोदेनातुदद्बालां रुक्मिणीं मम पश्यतः ॥ 029c
न च मे स्तोकमप्यासीद्दुःखमीर्ष्याकृतं तदा । 030a
तथा स राजमार्गेण महता निर्ययौ बहिः ॥ 030c
तद्दृष्ट्वा महदाश्चर्यं दाशार्हा जातमन्यवः । 031a
तत्राजल्पन्मिथः केचित्समाभाष्य परस्परम् ॥ 031c
ब्राह्मणा एव जायेरन्नान्यो वर्णः कथञ्चन । 032a
को ह्येनां रथमास्थाय जीवेदन्यः पुमानिह ॥ 032c
आशीविषविषं तीक्ष्णं ततस्तीक्ष्णतरो द्विजः । 033a
ब्रह्माहिविषदिग्धस्य नास्ति कश्चिच्चिकित्सकः ॥ 033c
तस्मिन्व्रजति दुर्धर्षे प्रास्खलद्रुक्मिणी पथि । 034a
अमर्षयंस्तथा श्रीमान्स्मितपूर्वमचोदयम् ॥ 034c
ततः परमसङ्क्रुद्धो रथात्प्रस्कन्द्य स द्विजः । 035a
पदातिरुत्पथेनैव प्राद्रवद्दक्षिणामुखः ॥ 035c
तमुत्पथेन धावन्तमन्वधावं द्विजोत्तमम् । 036a
तथैव पायसादिग्धः प्रसीद भगवन्निति ॥ 036c
ततो विलोक्य तेजस्वी ब्राह्मणो मामुवाच ह । 037a
जितः क्रोधस्त्वया कृष्ण प्रकृत्यैव महाभुज ॥ 037c
न तेऽपराधमिह वै दृष्टवानस्मि सुव्रत । 038a
प्रीतोस्मि तव गोविन्द वृणु कामान्यथेप्सितान् ॥ 038c
प्रसन्नस्य च मे तात पश्य व्युष्टिं यथाविधाम् ॥ 039ac
यावदेव मनुष्याणामन्ने भावो भविष्यति । 040a
यथैवान्ने तथा तेषां त्वयि भावो भविष्यति ॥ 040c
यावच्च पुण्या लोकेषु त्वयि कीर्तिर्भविष्यति । 041a
त्रिषु लोकेषु तावच्च वैशिष्ट्यं प्रतिपत्स्यसे । 041c
सुप्रियः सर्वलोकस्य भविष्यसि जनार्दन ॥ 041e
यत्ते भिन्नं च दग्धं च यच्च किञ्चिद्विनाशितम् । 042a
सर्वं तथैव द्रष्टासि विशिष्टं वा जनार्दन ॥ 042c
यावदेतत्प्रलिप्तं ते गात्रेषु मधुसूदन । 043a
अतो मृत्युभयं नास्ति यावदिच्छसि चाच्युत ॥ 043c
न तु पादतले लिप्ते तस्मात्ते मृत्युरत्र वै । 044a
नैतन्मे प्रियमित्येवं स मां प्रीतोऽब्रवीत्तदा ॥ 044c
इत्युक्तोऽहं शरीरं स्वं ददर्श श्रीसमायुतम् । 045a
रुक्मिणीं चाब्रवीत्प्रीतः सर्वस्त्रीणां वरं यशः । 045c
कीर्तिं चानुत्तमां लोके समवाप्स्यसि शोभने ॥ 045e
न त्वां जरा वा रोगो वा वैवर्ण्यं चापि भामिनि । 046a
स्प्रक्ष्यन्ति पुण्यगन्धा च कृष्णमाराधयिष्यसि ॥ 046c
षोडशानां सहस्राणां बधूनां केशवस्य ह । 047a
वरिष्ठा च सलोक्या च केशवस्य भविष्यसि ॥ 047c
तव मातरमित्युक्त्वा ततो मां पुनरब्रवीत् । 048a
प्रस्थितः सुमहातेजा दुर्वासाऽग्निरिव ज्वलन् ॥ 048c
एषैव ते बुद्धिरस्तु ब्राह्मणान्प्रति केशव । 049a
इत्युक्त्वा स तदा पुत्र तत्रैवान्तरधीयत ॥ 049c
तस्मिन्नन्तर्हिते चाहमुपांशु व्रतमाचरम् । 050a
यत्किञ्चिद्ब्राह्मणो ब्रूयात्सर्वं कुर्यामिति प्रभो ॥ 050c
एतद्व्रतमहं कृत्वा मात्रा ते सह पुत्रक । 051a
ततः परमहृष्टात्मा प्राविशं गृहमेव च ॥ 051c
प्रविष्टमात्रश्च गृहे सर्वं पश्यामि तन्नवम् । 052a
यद्भिन्नं यच्च वै दग्धं तेन विप्रेण पुत्रक ॥ 052c
ततोऽहं विस्मयं प्राप्तः सर्वं दृष्ट्वा नवं दृढम् । 053a
अपूजयं च मनसा रौक्मिणेय सदा द्विजान् ॥ 053c
इत्यहं रौक्मिणेयस्य पृच्छतो भरतर्षभ । 054a
माहात्म्यं द्विजमुख्यस्य सर्वमाख्यातवांस्तदा ॥ 054c
तथा त्वमपि कौन्तेय ब्राह्मणान्सततं प्रभो । 055a
पूजयस्व महाभागान्वाग्भिर्दानैश्च नित्यदा ॥ 055c
एवं व्युष्टिमहं प्राप्तो ब्राह्मणस्य प्रसादजाम् । 056a
यच्च मामाह भीष्मोऽयं तत्सत्यं भरतर्षभ ॥ ॥ 056c
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि चतुःषष्ट्यधिकद्विशततमोऽध्यायः ॥ 264 ॥
13-264-8 सौम्यं कल्याणम् ॥ 13-264-9 ब्राह्मणप्रतिपूजायामायुरिति झ. पाठः ॥ 13-264-14 दीर्घश्मश्रुनखादिमानिति थ.ध.पाठः ॥ 13-264-23 जन इति प्रचोदित इति शेषपूर्त्या सम्बन्धः ॥ 13-264-44 लिप्ते कस्मात्ते पुत्रकाद्य वै इति झ.पाठः ॥