अध्यायः 263
अथ दानधर्मपर्व ॥ 1 ॥
युधिष्ठिरेण ब्राह्मणमहिमानं पृष्टेन भीष्मेण तम्प्रति स्वस्य कुष्ठितेन्द्रियादिशक्तिकतया मुमूर्षानिवेदनपूर्वकं कृष्णात्तदवगमनचोदना ॥ 1 ॥ तथा कृष्णस्य श्रीनारायणात्मकत्वनिवेदनेन तन्महिमानुवर्णनम् ॥ 2 ॥
युधिष्ठिर उवाच । 001
ब्राह्मणानर्चसे राजन्सततं संशितव्रतान् । 001a
कं तु धर्मोदयं दृष्ट्वा तानर्चसि जनाधिप ॥ 001c
कां वा ब्राह्मणपूजायां व्युष्टिं दृष्ट्वा महाव्रत । 002a
तानर्चसि महाबाहो सर्वमेतद्वदस्व मे ॥ 002c
भीष्म उवाच । 003
एष ते केशवः सर्वमाख्यास्यति महामतिः । 003a
व्युष्टिं ब्राह्मणपूजायां दृष्ट्वा व्युष्टिं महाव्रत ॥ 003c
बलं श्रोत्रे वाङ्मनश्चक्षुषी च ज्ञानं तथा नविशुद्धं ममाद्य । 004a
देहन्यासो नातिचिरान्मतो मे न चातितूर्णं सविताऽद्य याति ॥ 004c
उक्ता धर्मा ये पुराणे महान्तो राजन्विप्राणां क्षत्रियाणां विशां च । 005a
येये शूद्राणां धर्ममुपासते ते तानेव कृष्णादुपशिक्षस्व पार्थः ॥ 005c
अहं ह्येनं वेद्मि तत्त्वेन कृष्णं योऽयं हि यच्चास्य बलं पुराणम् । 006a
अमेयात्मा केशवः कौरवेन्द्र सोयं धर्मं वक्ष्यति सर्वमेतत् ॥ 006c
कृष्णः पृथ्वीमसृजत्खं दिवं च कृष्णस्य देहान्मेदिनी सम्बभूव । 007a
वराहोऽयं भीमबलः पुराणः स पर्वतान्व्यसृजद्वै दिशश्च ॥ 007c
अस्माद्वायुश्चान्तरिक्षं दिवं च दिशश्चतस्रो विदिशश्चतस्रः । 008a
सृष्टिस्तथैवेयमनुप्रसूता स निर्ममे विश्वमिदं पुराणः ॥ 008c
अस्य नाभ्यां पुष्करं सम्प्रसूतं यत्रोत्पन्नः स्वयमेवामितौजाः । 009a
येनाच्छिन्नं तत्तमः पार्थ घोरं यत्र तिष्ठन्त्यर्णवास्तच्छयानाः ॥ 009c
कृते युगे धर्म आसीत्समग्रस्त्रेताकाले यज्ञमनुप्रपन्नः । 010a
बलं त्वासीद्द्वापरे पार्थ कृष्णः कलौ त्वधर्मः क्षितिमेवाजगाम ॥ 010c
स एव पूर्वं निजघान दैत्यान्स एव देवश्च बभूव सम्राट् । 011a
स भूतानां भावनो भूतभव्यः स विश्वस्यास्य जगतश्चाभिगोप्ता ॥ 011c
यदा धर्मो ग्लाति वंशे सुराणां तदा कृष्णो जायते मानुषेषु । 012a
धर्मे स्थित्वा स तु वै भावितात्मा परांश्च लोकानपराश्च पाति ॥ 012c
त्याज्यांस्त्यक्त्वा चासुराणां वधेन कार्याकार्ये कारणं चैव पाति । 013a
कृतं करिष्यत्क्रियते च देवो राहुं सोमं विद्धि च शक्रमेनम् ॥ 013c
स विश्वकर्मा स हि विश्वरूपः स विश्वभुग्विश्वसृग्विश्वजिच्च । 014a
स शूलभृच्छोणितभृत्करालस्तं कर्मभिर्विदितं वै स्तुवन्ति ॥ 014c
तं गन्धर्वाणामप्सरसां च नित्यमुपतिष्ठन्ते विबुधानां शतानि । 015a
तं राक्षसाश्च परिसंवदन्ति राजन्यानां स विजिगीषुरेकः ॥ 015c
तमध्वरे शंसितारः स्तुवन्ति रथन्तरे सामगाश्च स्तुवन्ति । 016a
तं ब्राह्मणा ब्रह्ममन्त्रैः स्तुवन्ति तस्मै हविरध्वर्यवः कल्पयन्ति ॥ 016c
स पौराणीं ब्रह्मगुहां प्रविष्टो महीसत्रं भारताग्रे ददर्श । 017a
स चैव गामुद्दधाराग्र्यकर्मा विक्षोभ्य दैत्यानुरगान्दानवांश्च ॥ 017c
तं घोषार्थे गीर्भिरिन्द्राः स्तुवन्ति स चापीशो भारतैकः पशूनाम् । 018a
तस्य भक्षान्विविधान्वेदयन्ति तमेवाजौ वाहनं वेदयन्ति ॥ 018c
तस्यान्तरिक्षं पृथिवी दिवं च सर्वं वशे तिष्ठति शाश्वतस्य । 019a
स कुम्भे रेतः ससृजे सुराणां यत्रोत्पन्नमृषिमाहुर्वसिष्ठम् ॥ 019c
स मातरिश्वा विभुरश्ववाजी स रश्मिवान्सविता चादिदेवः । 020a
तेनासुरा विजिताः सर्व एव तद्विक्रान्तैर्विजितानीह त्रीणि ॥ 020c
स देवानां मानुषाणां पितॄणां तमेवाहुर्यज्ञविदां वितानम् । 021a
स एव कालं विभजन्नुदेति तस्योत्तरं दक्षिणं चायने द्वे ॥ 021c
तस्यैवोर्ध्वं तिर्यगधश्चरन्ति गभस्तयो मेदिनीं भासयन्तः । 022a
तं ब्राह्मणा वेदविदो जुषन्ति तस्यादित्यो गामुपयुज्य भाति ॥ 022c
स मासिमास्यध्वरकृद्विधत्ते तमध्वरे वेदविदः पठन्ति । 023a
स एवोक्तश्चक्रमिदं त्रिनाभि सप्ताश्वयुक्तं वहते वै त्रिधामा ॥ 023c
'हिरण्मयः सप्तगूढः ससंविच्चतुर्बाहुः पन्नगः पद्मनाभः ।' 024a
महातेजाः सर्वगः सर्वसिंहः कृष्णो लोकान्धारयते यथैकः । 024c
हंसं तमोघ्नं च तमेव वीर कृष्णं सदा पार्थ कर्तारमेहि ॥ 024e
स एकदा कक्षगतो महात्मा तुष्टो विभुः खाण्डवे धूमकेतुः । 025a
स राक्षसानुरगांश्चावजित्य सर्वत्रगः सर्वमग्नौ जुहोति ॥ 025c
स एव पार्थाय श्वेतमश्वं प्रायच्छत्स एवाश्वानथ सर्वांश्चकार । 026a
सबन्धुरस्तस्य रथस्त्रिचक्रस्त्रिवृच्छिराश्चतुरश्वस्त्रिनाभिः ॥ 026c
स विहायो व्यदधात्पञ्चनाभिः स निर्ममे गां दिवमन्तरिक्षम् । 027a
सोऽरण्यानि व्यसृजत्पर्वतांश्च हृषीकेशोऽमितदीप्ताग्नितेजाः ॥ 027c
अलङ्घयद्वै सरितो जिघांसञ्शक्रं वज्रं प्रहरन्तं निरास । 028a
स महेन्द्रः स्तूयते वै महाध्वरे विप्रैरेको ऋक्सहस्रैः पुराणैः ॥ 028c
दुर्वासा वै तेन नान्येन शक्यो गृहे राजन्वासयितुं महौजाः । 029a
तमेवाहुर्ऋषिमेकं पुराणं स विश्वकृद्विदधात्यात्मभावान् ॥ 029c
वेदांश्च यो वेदयतेऽधिदेवो विधींश्च यश्चाश्रयते पुराणान् । 030a
कामे वेदे लौकिके यत्फलं च विष्वक्सेनः सर्वमेतत्प्रतीहि ॥ 030c
ज्योतींषि शुक्लानि हि सर्वलोके त्रयो लोका लोकपालास्त्रयश्च । 031a
त्रयोऽग्नयो व्याहृतयश्च तिस्रः सर्वे देवा देवकीपुत्र एव ॥ 031c
स वत्सरः स ऋतुः सोऽर्धमासः सोऽहोरात्रः स कला वै स काष्ठाः । 032a
मात्रा मुहूर्ताश्च लवाः क्षणाश्च विष्वक्सेनः सर्वमेतत्प्रतीहि ॥ 032c
चन्द्रादित्यौ ग्रहनक्षत्रताराः सर्वाणि दर्शान्यथ पौर्णमासम् । 033a
नक्षत्रयोगा ऋतवश्च पार्थ विष्वक्सेनात्सर्वमेतत्प्रसूतम् ॥ 033e
रुद्रादित्या वसवोऽथाश्विनौ च साध्याश्च विश्वे मरुतां गणाश्च । 034a
प्रजापतिर्देवमाताऽदितिश्च सर्वे कृष्णादृषयश्चैव सप्त ॥ 034c
वायुर्भूत्वा विक्षिपते च विश्वमग्निर्भूत्वा दहते विश्वरूपः । 035a
आपो भूत्वा मज्जयते च सर्वं ब्रह्म भूत्वा सृजते विश्वसङ्घान् ॥ 035c
वेद्यं च यद्वेदयते च वेद्यं विधिश्च यश्च श्रयते विधेयम् । 036a
धर्मे च वेदे च बले च सर्वं चराचरं केशवं त्वं प्रतीहि ॥ 036c
ज्योतिर्भूतः परमोसौ पुरस्तात्प्रकाशते यत्प्रभया विश्वरूपः । 037a
अपः सृष्ट्वा सर्वभूतात्मयोनिः पुराऽकरोत्सर्वमेवाथ विश्वम् ॥ 037c
ऋतूनुत्पातान्विविधान्यद्भुतानि मेघान्विद्युत्सर्वमैरावतं च । 038a
सर्वं कृष्णात्स्थावरं जङ्गमं च विश्वात्मानं विष्णुमेनं प्रतीहि ॥ 038c
विश्वावासं निर्गुणं वासुदेवं सङ्कर्षणं जीवभूतं वदन्ति । 039a
ततः प्रद्युम्नमनिरुद्धं चतुर्थमाज्ञापयत्यात्मयोनिर्महात्मा ॥ 039c
स पञ्चधा पञ्चगुणोपपन्नं सञ्चोदयन्विश्वमिदं सिसृक्षुः । 040a
ततश्चकारावनिमारुतौ च खं ज्योतिरम्भश्चि तथैव पार्थ ॥ 040c
स स्थावरं जङ्गमं चैवमेतच्चतुर्विधं लोकमिमं च कृत्वा । 041a
ततो भूमिं व्यदधात्पञ्चबीजां द्यावापृथिव्यग्निरथाम्बुवायू ॥ 041c
तेन विश्वं कृतमेतद्धि राजन्स जीवयत्यात्मनैवात्मयोनिः । 042a
ततो देवानसुरान्मानवांश्च लोकानृषींश्चापि पितॄन्प्रजाश्च । 042c
समासेन विविधान्पाति लोकान्सर्वान्सदा भूतपतिः सिसृक्षुः ॥ 042e
शुभाशुभं स्थावरं जङ्गमं च विष्वक्सेनात्सर्वमेतत्प्रतीहि । 043a
यद्वर्तते यच्च भविष्यतीह सर्वं ह्येतत्केशवं त्वं प्रतीहि ॥ 043c
मृत्युश्चैव प्राणिनामन्तकाले साक्षात्कृष्णः केशवो देहभाजाम् । 044a
भूतं च यच्चेह न विद्म किञ्चिद्विष्वक्सेनात्सर्वमेतत्प्रतीहि ॥ 044c
यत्प्रशस्तं च लोकेषु पुण्यं यच्च शुभाशुभम् । 045a
तत्सर्वं केशवोऽचिन्त्यो विपरीतमतः परम् ॥ 045c
एतादृशः केशवोऽतश्च भूयो नारायणः परमश्चाव्ययश्च । 046a
मध्याद्यन्तस्य जगतस्तस्तुषश्च बुभूषतां प्रभवश्चाव्ययश्च ॥ ॥ 046c
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि त्रिषष्ट्यधिकद्विशततमोऽध्यायः ॥ 263 ॥
13-263-2 व्युष्टिं फलम् ॥ 13-263-3 दृष्टव्युष्टिरिति झ.पाठः ॥ 13-263-4 न चेति दुःखितस्य दिनं महद्भवतीत्यर्थः ॥ 13-263-10 कलौ त्वधर्म एव बलवानिति भावः ॥ 13-263-12 ग्लाति ग्लायति ॥ 13-263-13 एनं राहुं सोमं शक्रं च विद्धि ॥ 13-263-14 शोणितभृच्छरीरि ॥ 13-263-17 महीसत्रं पृथिव्याश्छादनं मज्जनमिति यावत् ॥ 13-263-18 घोषार्थे गोवर्द्धनोद्धरणकाले । पशूनां गवां जीवानां च । वाहनं जयप्रापकम् ॥ 13-263-19 सुराणां मित्रावरुणयो रेतः कुम्भे ससृजे ॥ 13-263-20 विक्रान्तैः पादविक्षेपैः । त्रीणि भुवनानि ॥ 13-263-21 देवानां आत्मेति शेषः । तमेवाहुर्यज्ञविदः पुराणमिति क.थ.पाठः ॥ 13-263-22 जुषन्ति सेवन्ते ॥ 13-263-23 विधत्तेऽध्वरमित्यर्थात् । त्रिनाभि शीतोष्णवृष्टिकालगर्भम् । चक्रं संवत्सरम् । त्रिधामेति वर्षवातोष्णप्रकारम् ॥ 13-263-24 हंसं सूर्यम् । प्राश्नन्ननश्नंश्च स एव धीरः कृष्णं सदा पार्थेति क.थ.पाठः ॥ 13-263-26 त्रिबन्धुरस्तास्येति क.ध.पाठः ॥ 13-263-27 पञ्चनाभिः पञ्चभूतानां नाभिराश्रय इत्यर्थः ॥ 13-263-28 निरास पराभूतवान् ॥ 13-263-30 विधिनग्निहोत्रादीन् ॥ 13-263-36 वेद्यं वेदप्रतिद्यं । वेद्यं ज्ञेयम् ॥ 13-263-38 नक्षत्रमासान्विविधं कार्यजातं विद्युत्सङ्घैरापतन्तश्च मेघाः । सर्वं कृष्णादिति क.थ.पाठः ॥ 13-263-40 पञ्चधा पञ्चप्रकारं देवासुरमनुष्यश्वापदतिर्यग्रूपेण विश्वं सिसृक्षुराज्ञापयतीति पूर्वेणान्वयः । पञ्चजनोपपन्नमिति झ.पाठः ॥ 13-263-41 चतुर्विधं जरायुजादि । पञ्चबीजां चतुर्विधभूतग्रामः कर्म च तेषां बीजभूताम् ॥ 13-263-45 अतः केशवात् यत्परं कल्प्यते तद्विपरीतम् । असन्मार्ग इत्यर्थः ॥ 13-263-46 तादृशः केशवो देवो भूयो नारायणः परः । आदिरन्तश्च मध्यं च देशतः कालतो हरिः । जगतां तस्थुषां चैव भूतानां प्रभवाप्यय इति क.थ.पाठः ॥