अध्यायः 262
अथ दानधर्मपर्व ॥ 1 ॥
वायुना हैहयम्प्रति देवानां प्रार्थनया अग्निसर्जनेन कपहननरूपब्राह्मणमहिमोक्तिः ॥ 1 ॥
भीष्म उवाच । 001
तूष्णीमासीदर्जुनस्तु पवनस्त्वब्रवीत्पुनः । 001a
शृणु मे ब्राह्मणेष्वेव मुख्यं कर्म जनाधिप ॥ 001c
मदस्यास्यमनुप्राप्ता यदा सेन्द्रा दिवौकसः । 002a
तदैव च्यवनेन द्यौर्हृता तेषां वसुन्धरा ॥ 002c
उभौ लोकौ हृतौ मत्वा ते देवा दुःखिताऽभवन् । 003a
शोकार्ताश्च महात्मानं ब्रह्माणं शरणं ययुः ॥ 003c
देवा ऊचुः । 004
मदास्यव्यतिषिक्तानामस्माकं लोकपूजित । 004a
च्यवनेन हृता भूमिः कपैश्चैव दिवं प्रभो ॥ 004c
ब्रह्मोवाच । 005
गच्छध्वं शरणं विप्रानाशु सेन्द्रा दिवौकसः । 005a
प्रसाद्य तानुभौ लोकाववाप्स्यथ यथापुरम् ॥ 005c
ते ययुः शरणं विप्रानूचुस्ते काञ्जयामहे । 006a
इत्युक्तास्ते द्विजान्प्राहुर्जयतेह कपानिति ॥ 006c
भूगतान्हि विजेतारो वयमित्यब्रुवन्द्विजाः । 007a
ततः कर्म समारब्धं ब्राह्मणैः कपनाशनम् ॥ 007c
तच्छ्रुत्वा प्रेषितो दूतो ब्राह्मणेभ्यो धनी कपैः । 008a
स च तान्ब्राह्मणानाह धनी कपवचो यथा ॥ 008c
भवद्भिः सदृशाः सर्वे कपाः किमिह वर्तते । 009a
सर्वे वेदविदः प्राज्ञाः सर्वे च क्रतुयाजिनः ॥ 009c
सर्वे सत्यव्रताश्चैव सर्वे तुल्या महर्षिभिः । 010a
श्रीश्चैव रमते तेषु धारयन्ति श्रियं च ते ॥ 010c
वृथा दारान्न गच्छन्ति वृथा मांसं न भुञ्जते । 011a
दीप्तमग्निं जुह्वते च गुरूणां वचने स्थिताः ॥ 011c
सर्वे च नियतात्मानो बालानां संविभागिनः । 012a
उपेत्य शनकैर्यान्ति न सेवन्ति रजस्वलाम् । 012c
स्वर्गातिं चैव गच्छन्ति तथैव शुभकर्मिणः ॥ 012e
अभुक्तवत्सु नाश्नन्ति गर्भिणीवृद्धकादिषु । 013a
पूर्वाह्णेषु न दीव्यन्ति दिवा चैव न शेरते ॥ 013c
एतैश्चान्यैश्च बहुभिर्गुणैर्युक्तान्कथं कपान् । 014a
विजेष्यथ निवर्तध्वं निवृत्तानां सुखं हि वः ॥ 014c
ब्राह्मणा ऊचुः । 015
कपान्वयं विजेष्यामो ये देवास्ते वयं स्मृताः । 015a
तस्माद्वध्याः कपाऽस्माकं धनिन्याहि यथागतम् ॥ 015c
धनी गत्वा कपानाह न वो विप्राः प्रियङ्कराः । 016a
गृहीत्वाऽस्त्राण्यतो विप्रान्कपाः सर्वे समाद्रवन् ॥ 016c
समुदग्रध्वजान्दृष्ट्वा कपान्सर्वे द्विजातयः । 017a
व्यसृजञ्ज्वलितानग्नीन्कपानां प्राणनाशनान् ॥ 017c
ब्रह्मसृष्टा हव्यभुजः कपान्हत्वा सनातनाः । 018a
नभसीव यथाऽभ्राणि व्यराजन्त नराधिप ॥ 018c
हत्वा वै दानवान्देवाः सर्वे सम्भूय संयुगे । 019a
ते नाभ्यजानन्हि तदा ब्राह्मणैर्निहतान्कपान् ॥ 019c
अथागम्य महातेजा नारदोऽकथयद्विभो । 020a
यथा हता महाभागैस्तेजसा ब्राह्मणैः कपाः ॥ 020c
नारदस्य वचः श्रुत्वा प्रीताः सर्वे दिवौकसः । 021a
प्रशशंसुर्द्विजांश्चापि ब्राह्मणांश्च यशस्विनः ॥ 021c
तेषां तेजस्तथा वीर्यं देवानां ववृधे ततः । 022a
अवाप्नुवंश्चामरत्वं त्रिषु लोकेषु पूजितम् ॥ 022c
इत्युक्तवचनं वायुमर्जुनः प्रत्युवाच ह । 023a
प्रतिपूज्य महाबाहो यत्तच्छृणु नराधिप ॥ 023c
अर्जुन उवाच । 024
जीवाम्यहं ब्राह्मणार्थं सर्वथा सततं प्रभो । 024a
ब्रह्मण्यो ब्राह्मणेभ्यश्च प्रणमामि च नित्यशः ॥ 024c
दत्तात्रेयप्रसादाच्च मया प्राप्तमिदं बलम् । 025a
लोके च परमा कीर्तिर्धर्मश्चाचरितो महान् ॥ 025c
अहो ब्राह्मणकर्माणि मयि मारुत तत्त्वतः । 026a
त्वया प्रोक्तानि कार्त्स्न्येन श्रुतानि प्रयतेन च ॥ 026c
वायुरुवाच । 027
ब्राह्मणान्क्षात्राधर्मेण पालयस्वेन्द्रियाणि च । 027a
विप्रेभ्यस्ते भयं घोरं तत्तु कालाद्भविष्यति ॥ ॥ 027c
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि द्विषष्ट्यधिकद्विशततमोऽध्यायः ॥ 262 ॥
13-262-4 कपैः सुरविशेषैः । दिवं द्यौः ॥ 13-262-8 धनीनाम दूतः ॥