अध्यायः 261
अथ दानधर्मपर्व ॥ 1 ॥
वायुना हैहयार्जुनम्प्रति देवासुरयुद्धे राहुणा चन्द्रसूर्यपराभवेनान्धकारप्राप्तौ देवानां प्रार्थनया चन्द्रीभूय तमोनिरसनरूपात्रिमहिमोक्तिः ॥ 1 ॥ तथा सवज्रेन्द्रहस्तस्तम्भनेनाश्विनोः सोमपानदापनरूपच्यवनमहिमोक्तिः ॥ 2 ॥
भीष्म उवाच । 001
इत्युक्तस्त्वर्जुनस्तूष्णीमभूद्वायुस्तमब्रवीत् । 001a
शृणु मे हैहयश्रेष्ठ कर्मात्रेः सुमहात्मनः ॥ 001c
घोरे तमस्ययुध्यन्त सहिता देवदानवाः । 002a
अविद्यत शरैस्तत्र स्वर्भानुः सोमभास्करौ ॥ 002c
अथ ते तमसा ग्रस्ता निहन्यन्ते स्म दानवैः । 003a
देवा नृपतिशार्दूल सहैव बलिभिस्तदा ॥ 003c
असुरैर्वध्यमानास्ते क्षीणप्राणा दिवौकसः । 004a
अपश्यन्त तपस्यन्तमत्रिं विप्रं तपोधनम् ॥ 004c
अथैनमब्रुवन्देवाः शान्तक्रोधं जितेन्द्रियम् । 005a
असुरैरिषुभिर्विद्धौ चन्द्रादित्याविमावुभौ ॥ 005c
वयं वध्यामहे चापि शत्रुभिस्तमसा वृते । 006a
नाधिगच्छाम शान्तिं च भयात्त्रायस्व नः प्रभो ॥ 006c
अत्रिरुवाच । 007
कथं रक्षामि भवतस्तेऽब्रुवंश्चन्द्रमा भव । 007a
तिमिरघ्नश्च सविता दस्युहन्ता च नो भव ॥ 007c
एवमुक्तस्तदात्रिर्वै तमोनुदभवच्छशी । 008a
अपश्यत्सौम्यभावाच्च सोमवत्प्रियदर्शनः ॥ 008c
दृष्ट्वा नातिप्रभं सोमं तथा सूर्यं च पार्थिव । 009a
प्रकाशमकरोदत्रिस्तपसा स्वेन संयुगे ॥ 009c
जगद्वितिमिरं चापि प्रदीप्तमकरोत्तदा । 010a
व्यजयच्छत्रुसङ्घांश्च देवानां स्वेन तेजसा ॥ 010c
अत्रिणा दह्यमानांस्तान्दृष्ट्वा देवा महासुरान् । 011a
पराक्रमैस्तेऽपिं तदा व्यघ्नन्नत्रिसुरक्षिताः । 011c
उद्भासितश्च सविता देवास्त्राता हतासुराः ॥ 011e
अत्रिणा त्वथ सोमत्वं कृतमुत्तमतेजसा । 012a
द्विजेनाग्निद्वितीयेनि जपता चर्मवाससा ॥ 012c
फलभक्षेण राजर्षे पश्य कर्मात्रिणा कृतम् । 013a
तस्यापि विस्तरेणोक्तं कर्मात्रेः सुमहात्मनः । 013c
ब्रवीम्यन्यं ब्रूहि वा त्वमत्रितः क्षत्रियं वरम् ॥ 013e
इत्युक्तस्त्वर्जुनस्तूष्णीमभूद्वायुस्ततोऽब्रवीत् । 014a
शृणु राजन्महत्कर्म च्यवनस्य महात्मनः ॥ 014c
अश्विनोः प्रतिसंश्रुत्य च्यवनः पाकशासनम् । 015a
प्रोवाच सहितो देवैः सोमपावश्विनौ कुरु ॥ 015c
इन्द्र उवाच । 016
अस्माभिर्निन्दितावेतौ भवेतां सोमपौ कथम् । 016a
देवैर्न सम्मितावेतौ तस्मान्मैवं वदस्व नः ॥ 016c
अश्विभ्यां सह नेच्छामः सोमं पातुं महाव्रत । 017a
यदन्यद्वक्ष्यसे विप्र तत्करिष्याम ते वचः ॥ 017c
च्यवन उवाच । 018
पिबेतामश्विनौ सोमं भवद्भिः सहिताविमौ । 018a
उभावेतावपि सुरौ सूर्यपुत्रौ सुरेश्वर ॥ 018c
क्रियतां मद्वचो देवा यथा वै समुदाहृतम् । 019a
एतद्वः कुर्वतां श्रेयो भवेन्नैतदकुर्वताम् ॥ 019c
इन्द्र उवाच । 020
अश्विभ्यां सह सोमं वै न पास्यामि द्विजोत्तम । 020a
पिबन्त्वन्ये यथाकामं नाहं पातुमिहोत्सहे ॥ 020c
च्यवन उवाच । 021
न चेत्करिष्यसि वचो मयोक्तं बलसूदन । 021a
मया प्रमथितः सद्यः सोमं पास्यसि वै मखे ॥ 021c
वायुरुवाच । 022
ततः कर्म समारब्धं हिताय सहसाऽश्विनोः । 022a
च्यवनेन ततो मन्त्रैरभिभूताः सुराऽभवन् ॥ 022c
तत्तु कर्म समारब्धं दृष्ट्वेन्द्रः क्रोधमूर्च्छितः । 023a
उद्यम्य विपुलं शैलं च्यवनं समुपाद्रवत् ॥ 023c
तथा वज्रेण भगवानमर्षाकुललोचनः । 024a
तमापतन्तं दृष्ट्वैव च्यवनस्तपसाऽन्वितः ॥ 024c
अद्भिः सिक्त्वाऽस्तम्भयत्तं सवज्रं सहपर्वतम् । 025a
अथेन्द्रस्य महाघोरं सोऽसृजच्छत्रुमेव हि ॥ 025c
मदं नामाहुतिमयं व्यादितास्यं महामुनिः । 026a
तस्य दन्तसहस्रं तु बभूव शतयोजनम् ॥ 026c
द्वियोजनशतास्तस्य दंष्ट्राः परमदारुणाः । 027a
हनुस्तस्याभवद्भूमावास्यं चास्यास्पृशद्दिवम् ॥ 027c
जिह्वामूले स्थितास्तस्य सर्वे देवाः सवासवाः । 028a
तिमेरास्यमनुप्राप्ता यथा मत्स्या महार्णवे ॥ 028c
ते सम्मन्त्र्य ततो देवा मदस्यास्य समीपगाः । 029a
अब्रुवन्सहिताः शक्रं प्रणमास्मै द्विजातये ॥ 029c
अश्विभ्यां सह सोमं च पिबाम विगतज्वराः । 030a
ततः स प्रणतः शक्रश्चकार च्यवनस्य तत् ॥ 030c
च्यवनः कृतवानेतावश्विनौ सोमपायिनौ । 031a
ततः प्रत्याहरत्कर्म मदं च व्यभजन्मुनिः ॥ 031c
अक्षेषु मृगयायां च पाने स्त्रीषु च वीर्यवान् । 032a
एतैर्दोषैर्नरा राजन्क्षयं यान्ति न संशयः ॥ 032c
तस्मादेतान्नरो नित्यं दूरतः परिवर्जयेत् ॥ 033ac
एतत्ते च्यवनस्यापि कर्मि राजन्प्रकीर्तितम् । 034a
ब्रवीम्यन्यं ब्रूहि वा त्वं क्षत्रियं ब्राह्मणाद्वरम् ॥ ॥ 034c
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकषष्ट्यधिकद्विशततमोऽध्यायः ॥ 261 ॥