अध्यायः 260

अथ दानधर्मपर्व ॥ 1 ॥

वायुना हैहयार्जुनं प्रति स्वतेजसा दैत्यदाहनरूपागस्त्यवसिष्ठचरित्रकीर्तनम् ॥ 1 ॥

भीष्म उवाच । 001
इत्युक्तः स नृपस्तूष्णीमभूद्वायुस्ततोऽब्रवीत् । 001a
शृणु राजन्नगस्त्यस्य महात्म्यं ब्राह्मणस्य ह ॥ 001c
असुरैर्निर्जिता देवा निरुत्साहाश्च ते कृताः । 002a
यज्ञाश्चैषां हृताः सर्वे पितॄणां च स्वधास्तथा ॥ 002c
कर्मेज्या मानवानां च दानवैर्हैहयर्षभ । 003a
भ्रष्टैश्वर्यास्ततो देवाश्चेरुः पृथ्वीमिति श्रुतिः ॥ 003c
ततः कदाचित्ते राजन्दीप्तमादित्यवर्चसम् । 004a
ददृशुस्तेजसाः युक्तमगस्त्यं विपुलव्रतम् ॥ 004c
अभिवाद्य तु तं देवाः पृष्ट्वा कुशलमेव च । 005a
इदमूचुर्महात्मानं वाक्यं काले जनाधिप ॥ 005c
दानवैर्युधि भग्नाः स्म तथैश्वर्याच्च भ्रंशिताः । 006a
तदस्मान्नो भयात्तीव्रात्त्राहि त्वं मुनिपुङ्गव ॥ 006c
इत्युक्तः स तदा देवैरगस्त्यः कुपितोऽभवत् । 007a
प्रजज्वाल च तेजस्वी कालाग्निरिव सङ्क्षये ॥ 007c
तेन दीप्तांशुजालेन निर्दग्धा दानवास्तदा । 008a
अन्तरिक्षान्महाराज निपेतुस्ते सहस्रशः ॥ 008c
दह्यमानास्तु ते दैत्यास्तस्यागस्त्यस्य तेजसा । 009a
उभौ लोकौ परित्यज्य गताः काष्ठां तु दक्षिणाम् ॥ 009c
बलिस्तु यजते यज्ञमश्वमेधं महीं गतः । 010a
येन्येऽधस्ता महीस्थाश्च तेन दग्धा महासुराः ॥ 010c
त्यक्तलोकाः पुनः प्राप्ताः सुरैः शान्तभयैर्नृप । 011a
अथैनमब्रुवन्देवा भूमिष्ठानसुराञ्जहि ॥ 011c
इत्युक्तः प्राह देवान्स न शक्तोस्मि महीगतान् । 012a
दग्धुं तपो हि क्षीयेन्मे न धक्ष्यामीति पार्थिव ॥ 012c
एवं दग्धा भगवता दानवाः स्वेन तेजसा । 013a
अगस्त्येन तदा राजंस्तपसा भावितात्मना ॥ 013c
ईदृशश्चाप्यगस्त्यो हि कथितस्ते मयाऽनघ । 014a
ब्रवीम्यन्यं ब्रूहि वा त्वमगस्त्यात्क्षत्रियं वरम् ॥ 015c
भीष्म उवाच । 015
इत्युक्तः स तदा तूष्णीमभूद्वायुस्ततोऽब्रवीत् । 015a
शृणु राजन्वसिष्ठस्य मुख्यं कर्म यशस्विनः ॥ 015c
'वैखानसविधानेन गङ्गातीरं समाश्रिताः ।' 016a
आदित्याः सत्रमासन्त सरो वैखानसं प्रति । 016c
वसिष्ठं मनसा गत्वा ज्ञात्वा तत्वस्य गोचरम् ॥ 016e
यजमानांस्तु तान्दृष्वा सर्वान्दीक्षानुकर्शितान् । 017a
हन्तुमैच्छन्त शैलाभा बलिनो नाम दानवाः ॥ 017c
अदूरात्तु ततस्तेषां ब्रह्मदत्तवरं सरः । 018a
हता हता वै तत्रैते जीवन्त्याप्लुत्य दानवाः ॥ 018c
ते प्रगृह्य महाघोरान्पर्वतान्परिघान्द्रुमान् । 019a
विक्षोभयन्तः सलिलमुत्थितं शतयोजनम् ॥ 019c
अभ्यद्रवन्त देवांस्ते सहस्राणि दशैव हि । 020a
ततस्तैरर्दिता देवाः शरणं वासवं ययुः ॥ 020c
स च तैर्व्यथितः शक्रो वसिष्ठं शरणं ययौ । 021a
ततोऽभयं ददौ तेभ्यो वसिष्ठो भगवानृषिः ॥ 021c
तदा तान्दुःखितान्ज्ञात्वा आनृशंस्यपरो मुनिः । 022a
अयत्नेनादहत्सर्वाञ्ज्वलता स्वेन तेजसा ॥ 022c
कैलासं प्रस्थितां चैव नदीं गङ्गां महातपाः । 023a
आनयत्तत्सरो दिव्यं तया भिन्नं च तत्सरः ॥ 023c
सरो भिन्नं तया नद्या सरयूः सा ततोऽभवत् । 024a
हताश्च बलिनो यत्र स देशे बलिनोऽभवत् ॥ 024c
एवं सेन्द्रा वसिष्ठेन रक्षितास्त्रिदिवौकसः । 025a
ब्रह्मदत्तवराश्चैव हता दैत्या महात्मना ॥ 025c
एतत्कर्म वसिष्ठस्य कथितं हि मयाऽनघ । 026a
ब्रवीम्यन्यं ब्रूहि वा त्वं वसिष्ठात्क्षत्रियं वरम् ॥ 26 ॥ ॥ 026c

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि षष्ट्यधिकद्विशततमोऽध्यायः ॥ 260 ॥