अध्यायः 259

अथ दानधर्मपर्व ॥ 1 ॥

वायुना हैहयम्प्रति कश्यपचरित्रकथनम् ॥ 1 ॥ तथा उचथ्योपाख्यानकथनारम्भः ॥ 2 ॥ सोमेन भद्राभिधायाः स्वकन्याया उचथ्याय भार्यात्वेन प्रदानम् ॥ 3 ॥ पूर्वमेव तां कामितवता वरुणेन विजने तस्या अपहरणम् ॥ 4 ॥ नारदात्तच्छ्रुतवतोचथ्येन कोपात्समुद्रे शोषिते भयाद्वरुणेनोचथ्याय पुनर्भद्राप्रत्यर्पणम् ॥ 5 ॥

वायुरुवाच । 001
इमां भूमिं द्विजातिभ्यो दित्सुर्वै दक्षिणां पुरा । 001a
अङ्गो नाम नृपो राजंस्ततश्चिन्तां मही ययौ ॥ 001c
धारिणीं सर्वभूतानामयं प्राप्य वरो नृपः । 002a
कथमिच्छति मां दातुं द्विजेभ्यो ब्रह्मणः सुताम् ॥ 002c
साहं त्यक्त्वा गमिष्यामि भूमित्वं ब्रह्मणः पदम् । 003a
अयं सराष्ट्रो नृपतिर्मार्भूदिति ततोऽगमत् ॥ 003c
ततस्तां कश्यपो दृष्ट्वा व्रजन्तीं पृथिवीं तदा । 004a
प्रविवेश महीं सद्यो युक्तात्मा सुसमाहितः ॥ 004c
ऋद्धा सा सर्वतो जज्ञे तृणौषधिसमन्विता । 005a
धर्मोत्तरा नष्टभया भूमिरासीत्तमतो नृप ॥ 005c
एवं वर्षसहस्राणि दिव्यानि विपुलव्रतः । 006a
त्रिंशतं कश्यपो राजन्भूमिरासीदतन्द्रितः ॥ 006a
अथागम्य महाराजन्नमस्कृत्य च कश्यपम् । 007a
पृथवी काश्यपी जज्ञे सुता तस्य महात्मनः ॥ 007c
एष राजन्नीदृशो वै ब्राह्मणः कश्यपोऽभवत् । 008a
अन्यं प्रब्रूहि वा त्वं च कश्यपात्क्षत्रियं वरम् ॥ 008c
तूष्णीं बभूव नृपतिः पवनस्त्वब्रवीद्वचः । 009a
शृणु राजन्नुचथ्यस्य जातस्याङ्गिरसे कुले ॥ 009c
भद्रा सोमस्य दुहिता रूपेण परमा मता । 010a
तस्यास्तुल्यं पतिं सोम उचथ्यं समपश्यत ॥ 010c
सा च तीव्रं तपस्तेपे महाभागा यशस्विनी । 011a
उचथ्यं तु महाभागं तत्कृते वरयत्तदा ॥ 011c
तत आहूय चोचथ्यं ददामीति यशस्विनीम् । 012a
भार्यार्थे स च जग्राह विधिवद्भूरिदक्षिणः ॥ 012c
तां त्वकामयत श्रीमान्वरुणः पूर्वमेव ह । 013a
स चागम्य वनप्रस्थं यमुनायां जहार ताम् ॥ 013c
जलेश्वरस्तु हृत्वा तामनयस्त्वं पुरं प्रति । 014a
परमाद्भुतसङ्काशं षट्सहस्रशतह्रदम् ॥ 014c
न हि रम्यतरं किञ्चित्तस्मादन्यत्पुरोत्तमम् । 015a
प्रासादैरप्सरोभिश्च दिव्यैः कामैश्च शोभितम् ॥ 015c
तत्र देवस्तया सार्धं रेमे राजञ्जलेश्वरः । 016a
तदाख्यातमुचथ्याय ततः पत्न्यवमर्दनम् ॥ 016c
तच्छ्रुत्वा नारदात्सर्वमुचथ्यो नारदं तदा । 017a
प्रोवाच गच्छ ब्रूहि त्वं वरुणं परुषं वचः ॥ 017c
मद्वाक्यान्मुञ्च मे भार्यां कस्मात्तां हृतवानसि । 018a
लोकपालोसि लोकानां न लोकस्य विलोपकः ॥ 018c
सोमेन दत्ता भार्या मे त्वया चापहृताऽद्य वै । 019a
इत्युक्तो वचनात्तस्य नारदेन जलेश्वरः ॥ 019c
मुञ्च भार्यामुचथ्यस्य कस्मात्त्वं हृतवानसि । 020a
इति श्रुत्वा वचस्तस्य सोऽथ तं वरुणोऽब्रवीत् ॥ 020c
ममैषा सुप्रिया भार्या नैनामुत्स्रष्टुमुत्सहे । 021a
इत्युक्तो वरुणेनाथ नारदः प्राप्य तं मुनिम् । 021c
उचथ्यमब्रवीद्वाक्यं नातिहृष्टमना इव ॥ 021e
गले गृहीत्वा क्षिप्तोस्मि वरुणेन महामुने । 022a
न प्रयच्छति ते भार्यां यत्ते कार्यं कुरुष्व तत् ॥ 022c
नारदस्य वचः श्रुत्वा क्रुद्धः प्राज्वलदङ्गिराः । 023a
अपिबत्तेजसा वारि विष्टभ्य सुमहातपाः ॥ 023c
पीयमाने तु सर्वस्मिंस्तोयेऽपि सलिलेश्वरः । 024a
सुहृद्भिर्भिक्षमाणोऽपि नैवामुञ्चत तां तदा ॥ 024c
ततः क्रुद्धोऽब्रवीद्भूमिमुचथ्यो ब्राह्मणोत्तमः । 025a
दर्शय स्वस्थलं भद्रे षट्सहस्रशतह्रदम् ॥ 025c
ततस्तदीरणं जातं समुद्रस्यावसर्पतः । 026a
तस्माद्देशान्नदीं चैव प्रोवाचासौ द्विजोत्तमः ॥ 026c
अदृश्या गच्छ भीरु त्वं सरस्वति मरून्प्रति । 027a
अपुण्यभूषो भवतु देशस्त्यक्तस्तया शुभे ॥ 027c
ततश्चूर्णीकृते देशे भद्रामादाय वारिपः । 028a
अददाच्छरणं गत्वा भार्यामाङ्गिरसाय वै ॥ 028c
प्रतिगृह्य तु तां भार्यामुचथ्यः सुमनाऽभवत् । 029a
मुमोच च जगद्दुःखान्मरुतश्चैव निर्मलाः ॥ 029c
ततः स लब्ध्वा तां भार्यां वरुणं प्राह धर्मवित् । 030a
उचथ्यः सुमहातेजा यत्तुच्छृणु नराधिप ॥ 030c
मयैषा तपसा प्राप्ता क्रोशतस्ते जलाधिप । 031a
इत्युक्त्वा तामुपादाय स्वमेव भवनं ययौ ॥ 031c
एष राजन्नीदृशो वै उचथ्यो ब्राह्मणर्षभः । 032a
ब्रवीमि हान्यं ब्रूहि त्वमुचथ्यात्क्षत्रियं वरम् ॥ ॥ 032c

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकोनषष्ट्यधिकद्विशततमोऽध्यायः ॥ 259 ॥

13-259-3 भूमित्वं त्यक्त्वा ब्रह्मणः पदं गमिष्यामीति सम्बन्धः ॥ 13-259-11 उचथ्यार्थे तु चार्वङ्गी परं नियममास्थिता । इति झ.पाठः ॥ 13-259-12 सोमः ददामीत्युक्त्वा ददावित्यध्याहारेण योजना । ददावत्रिर्यशस्विनीमिति झ.पाठः । अत्रिः सोमपिता ॥ 13-259-16 देवो वरुणः । तया भद्रकया ॥ 13-259-25 दर्शयस्व बिलं भद्रे इति क.पाठः ॥ 13-259-26 ईरिणं ऊषरप्रदेशः । समुद्रश्चापसर्पतेति क.पाठः ॥ 13-259-27 अपुण्य एष भवित्विति झ.पाठः ॥ 13-259-29 दुःखाद्वरुणं चैव हैहयेति झ.पाठः । जगद्वरुणं च दुःखान्मुमोच मोचयामास ॥