अध्यायः 258
अथ दानधर्मपर्व ॥ 1 ॥
कार्तवीर्यार्जुनम्प्रति वायुना ब्राह्मणमहिमप्रशंसके स्ववाक्ये प्रामाण्यनिश्चयाय दृष्टान्ततयाऽङ्गिरःप्रभृतिब्राह्मणचरित्रविशेषप्रतिपादनम् ॥ 1 ॥
वायुरुवाच । 001
शृणु मूढ गुणान्कांश्चिद्ब्राह्मणानां महात्मनाम् । 001a
ये त्वया कीर्तिता राजंस्तेभ्योऽथ ब्राह्मणो वरः ॥ 001c
त्यक्त्वा महीत्वं भूमिस्तु स्पर्धया काश्यपस्य ह । 002a
नाशं जगाम तां विप्रो व्यस्तम्भयत कश्यपः ॥ 002c
अक्षया ब्राह्मणा राजन्दिवि चेह च नित्यदा । 003a
अपिबत्तेजसा ह्यापः स्वयमेवाङ्गिराः पुरा ॥ 003c
स ताः पिबञ्शीरमिव नातृप्यत महातपाः । 004a
अपूरयन्महौघेन महीं सर्वां च पार्थिव ॥ 004c
तस्मिन्नहं च क्रुद्धे वै जगत्त्यक्त्वा ततो भयात् । 005a
व्यतिष्ठमग्निहोत्रे च चिरमङ्गिरसो भयात् ॥ 005c
अथ शप्तश्च भगवान्गौतमेन पुरन्दरः । 006a
अहल्यां कामयानो वै धर्मार्थं च न हिंसितः ॥ 006c
तथा समुद्रो नृपते पूर्णो दृष्टश्च वारिणा । 007a
ब्राह्मणैरभिशप्तश्च बभूव लवणोदकः ॥ 007c
सुवर्णवर्णो निर्धूमः सङ्गतोर्ध्वशिखः कविः । 008a
क्रुद्धेनाङ्गिरसा शप्तो गुणैरेतैर्विवर्जितः ॥ 008c
महतश्चूर्णितान्पश्य ये हासन्त महोदधिम् । 009a
सुवर्णिधारिणा नित्यमवशप्ता द्विजातिना ॥ 009c
सम्मतत्वं द्विजातिभ्यः श्रेष्ठं विद्धि नराधिप । 010a
गर्भस्थान्ब्राह्मणाञ्शश्वन्नमस्यति किल प्रभुः ॥ 010c
दण्डकानां महद्राज्यं ब्राह्मणेन विनाशितम् । 011a
तालजङ्घं महाक्षत्रमौर्वेणैकेन नाशितम् ॥ 011c
त्वया च विपुलं राज्यं बलं धर्मं श्रुतं तथा । 012a
दत्तात्रेयप्रसादेन प्रप्तं परमदुर्लभम् ॥ 012c
अग्निं त्वं यजसे नित्यं कस्माद्ब्राह्मणमर्जुन । 013a
स हि सर्वस्य लोकस्य हव्यवाट् किं न वेत्सि तम् ॥ 013c
अथवा ब्राह्मणश्रेष्ठमनुभूतानुपालकम् । 014a
कर्तारं जीवलोकस्य कस्माज्जानन्विमुह्यसे ॥ 014c
तथा प्रजापतिर्ब्राह्मा अव्यक्तप्रभवोऽव्ययः । 015a
येनेदं विपुलं विश्वं जनितं स्थावरं चरम् ॥ 015c
अण्डजातं तु ब्रह्माणं केचिदिच्छिन्त्यपण्डिताः । 016a
अण्डाद्भिन्नाद्बभुः शैला दिशोंऽभः पृथिवी दिवम् ॥ 016c
दृष्टवानेतदेवं हि कथं जायेदजो हि सः । 017a
स्थानमाकाशमण्डं तु यस्माज्जातः पितामहः ॥ 017c
तिष्ठेत्कथमिति ब्रूयान्न किञ्चिद्धि तदा भवेत् । 018a
अहङ्कार इति प्रोक्तः सर्वतेजोगतः प्रभुः ॥ 018c
नास्त्यन्तमस्ति तु ब्रह्मा स राजा लोकभावनः । 019a
इत्युक्तः स तदा तूष्णीमभूद्वायुस्तमब्रवीत् ॥ ॥ 019c
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि अष्टपञ्चाशदधिकद्विशततमोऽध्यायः ॥ 258 ॥
13-258-4 रसकामः विबन्क्षीरं नाकुप्यत महातपाः इति थ.पाठः ॥ 13-258-5 अहं वायुः ॥ 13-258-8 कविः अग्निः ॥ 13-258-9 महतः सगरपुत्रान् आसन्त उपासन्त । सुवर्णधारिणा शोभनो ब्राह्मणवर्णस्तस्य धारिणा धर्त्रा द्विजातिना कपिलेन मरुतश्चूर्णितान्पश्य । यौर्हि पूर्णो महोदधिरिति क.थ.पाठः ॥ 13-258-13 अग्निं ब्राह्मणमित्यन्वयः ॥ 13-258-14 अनुभूतं प्रतिभूतम् । अनुपालकं पोषकम् ॥ 13-258-16 ननु ब्रह्माण्डे जातत्वात्कथमण्डमजनयदित्यत्राह अण्डेति ॥ 13-258-17 अण्डजत्ववचनं त्वस्य प्रकारान्तरेणेत्याह स्मृतमिति । द्रष्टव्यं नैतदेवं हीति झ.पाठः ॥