अध्यायः 257

अथ दानधर्मपर्व ॥ 1 ॥

भीष्मेण युधिष्ठिरम्प्रति ब्राह्मणमहिमप्रकाशनाय कार्तवीर्यार्जुनकथाकथनारम्भः ॥ 1 ॥ दत्तात्रेयाद्वरलाभगर्वितेन तेन दिग्जययात्रायां क्वापि पुरुषे स्वसाम्याभावकथने अशरीरवाण्या ब्राह्मणानामुत्कर्षकथनम् ॥ 2 ॥ तेन दर्पात्तदवज्ञाने वायुनापि ब्राह्मणानामेवोत्कर्षे कथिते तेन वायुम्प्रति तत्प्रकाशनप्रार्थना ॥

युधिष्ठिर उवाच । 001
कां तु ब्राह्मणपूजायां व्युष्टिं दृष्ट्वा जनाधिप । 001a
कं वा धर्मोदयं मत्वा तानर्चसि महामते ॥ 001c
भीष्म उवाच । 002
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । 002a
पवनस्य च संवादमर्जुनस्य च भारत ॥ 002c
सहस्रभुजभृच्छ्रीमान्कार्तवीर्योऽभवत्प्रभुः । 003a
अस्य लोकस्य सर्वस्य माहिष्मत्यां महाबलः ॥ 003c
स तु रत्नाकरवतीं सप्तद्वीपां ससागराम् । 004a
शशास पृथिवीं सर्वां हैहयः सत्यविक्रमः ॥ 004c
स्ववित्तं तेन दत्तं तु दत्तात्रेयाय कर्मणे । 005a
क्षत्रधर्मं पुरस्कृत्य विनयं श्रुतमेव च ॥ 005c
आराधयामास च तं कृतवीर्यात्मजो मुनिम् । 006a
न्यमन्त्रयत सन्तुष्टो द्विजश्चैनं वरैस्त्रिभिः ॥ 006c
स वरैश्छन्दितस्तेन नृपो वचनमब्रवीत् । 007a
सहस्रबाहुता मेऽस्तु यूपमध्ये ग्रहो यथा ॥ 007c
मम बाहुसहस्रं तु पश्यन्तां सैनिका रणे । 008a
विक्रमेण महीं कृत्स्नां जयेयं संशितव्रत ॥ 008c
तां च धर्मेण सम्प्राप्य पालयेयमतन्द्रितः । 009a
चतुर्थं तु वरं याचे त्वामहं द्विजसत्तम ॥ 009c
तं ममानुग्रहकृते दातुमर्हस्यनिन्दित । 010a
अनुशाशन्तु मां सन्तो मिथ्यावृत्तं त्वदाश्रयम् ॥ 010c
इत्युक्तः स द्विजः प्राह तथास्त्विति नराधिपम् । 011a
एवं समभवंस्तस्य वरास्ते दीप्ततेजसः ॥ 011c
गतः स रथमास्थाय ज्वलनार्कसमद्युतिम् । 012a
अब्रवीद्वीर्यसम्मोहात्को वाऽस्ति सदृशो मम ॥ 012c
धैर्यैर्वीर्यैर्यशःशौर्यौर्विक्रमेणौजसाऽपि वा । 013a
तद्वाक्यान्ते चान्तरिक्षे वागुवाचाशरीरिणी ॥ 013c
न त्वं मूढ विजानीषे ब्राह्मणं क्षत्रियाद्वरम् । 014a
सहितो ब्राह्मणेनेह क्षत्रियः शास्ति वै प्रजाः ॥ 014c
अर्जुन उवाच । 015
कुर्यां भूतानि तुष्टोऽहं क्रुद्धो नाशं तथा नये । 015a
कर्मणा मनसा वाचा न मत्तोस्ति वरो द्विजः ॥ 015c
पूर्वो ब्रह्मोत्तरो वादो द्वितीयः क्षत्रियोत्तरः । 016a
त्वयोक्तौ हेतुयुक्तौ तौ विशेषस्तत्र दृश्यते ॥ 016c
ब्राह्मणाः संश्रिताः क्षत्रं न क्षत्रं ब्राह्मणाश्रितम् । 017a
श्रिता ब्रह्मोपधा विप्राः खादन्ति क्षत्रियान्भुवि ॥ 017c
क्षत्रियेष्वाश्रितो धर्मः प्रजानां परिपालनम् । 018a
क्षत्राद्वृत्तिर्ब्राह्मणानां तैः कथं ब्राह्मणो वरः ॥ 018c
सर्वभूतप्रधानांस्तान्भैक्षवृत्तीनहं सदा । 019a
आत्मसम्भावितान्विप्रान्स्थापयाम्यात्मनो वशे ॥ 019c
कथितं त्वनयाऽसत्यं गायन्त्या कन्यया दिवि । 020a
विजेष्याम्यवशान्सर्वान्ब्राह्मणांश्चर्मवाससः ॥ 020c
न च मां च्यावयेद्राष्ट्रात्त्रिषु लोकेषु कश्चन । 021a
देवो वा मानुषो वाऽपि तस्माज्ज्येष्ये द्विजानहम् ॥ 021c
अद्य ब्रह्मोत्तरं लोकं करिष्ये क्षत्रियोत्तरम् । 022a
नहि मे संयुगे कश्चित्सोढुमुत्सहते बलम् ॥ 022c
अर्जुनस्य वचः श्रुत्वा वित्रस्ताऽभून्निशाचरी । 023a
अथैनमन्तरिक्षस्थस्ततो वायुरभाषत ॥ 023c
त्यजैनं कलुषं भावं ब्राह्मणेभ्यो नमस्कुरु । 024a
एतेषां कुर्वतः पापं राष्ट्रक्षोभो भविष्यति ॥ 024c
अथ च त्वां महीपाल शमयिष्यन्ति वै द्विजाः । 025a
निरसिष्यन्ति ते राष्ट्राद्धतोत्साहा महाबलाः ॥ 025c
तं राजा कस्त्वमित्याह ततस्तं प्राह मारुतः । 026a
वायुर्वै देवदूतोस्मि हितं त्वां प्रब्रवीम्यहम् ॥ 026c
अर्जुन उवाच । 027
अहो त्वयाऽयं विप्रेषु भक्तिरागः प्रदर्शितः । 027a
यादृशं पृथिवीभूतं तादृशं ब्रूहि मे द्विजम् ॥ 027c
वायोर्वा सदृशं किञ्चिद्ब्रूहि त्वं ब्राह्मणोत्तमम् । 028a
अपां वै सदृशं वह्नेः सूर्यस्य नभसोऽपि वा ॥ ॥ 028c

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि सप्तपञ्चाशदधिकद्विशततमोऽध्यायः ॥

13-257-1 व्युष्टिं समृद्धिं फलं वा । कं वा कर्मोदयं मत्वा इति ङ.झ.पाठः ॥ 13-257-4 स च रक्षार्थमवनिं सप्तद्वीपां इति क.पाठः ॥ 13-257-5 दत्तात्रेयाय कारणे इति ङ.झ.पाठः ॥ 13-257-7 सहस्रबाहुर्भूयां वै चमूमध्ये गृहेऽन्यथा इति ङ.झ.पाठः ॥ 13-257-16 पूर्वो वादो ब्रह्मोत्तरः ब्राह्मणाधिक्यवचनं पूर्वपक्षः क्षत्रियाधिक्यं सिद्धान्त इत्यर्थः । हेतुयुक्तौ प्रजापालनेन हेतुना युक्तौ सहितौ तौ ब्राह्मणक्षत्रियौ पूर्वं ब्रह्मोत्तरो वादः क्षत्रियः क्षत्रियोत्तरः । मयोक्तो हेतुयुक्तौ चेति क.पाठः ॥ 13-257-17 ब्रह्म वेदो यज्ञश्च अध्यापनयाजनार्थ एव उपधा च्छलं येषां ते तथा क्षत्रियान्खादन्ति उपजीवन्ति ॥ 13-257-20 चर्मवाससः अजिनवस्त्रान् । गायत्र्या कन्यया दिवीति झ.पाठः ॥ 13-257-22 ब्रह्मोत्तरं सन्तम् ॥ 13-257-23 निशाचरी अन्तर्हिता सरस्वती ॥ 13-257-27 पृथिवीभूतं पृथिव्यात्मकं भूतम् ॥