अध्यायः 256

अथ दानधर्मपर्व ॥ 1 ॥

भीष्मेण युधिष्ठिरम्प्रति ब्राह्मणमहिमप्रशंसनपूर्वकं तेषां पूज्यत्वादिकथनम् ॥ 1 ॥

युधिष्ठिर उवाच । 001
के पूज्याः के नमस्कार्याः कथं वर्तेत केषु च । 001a
किमाचारः कीदृशेषु पितामह न रिष्यते ॥ 001c
भीष्म उवाच । 002
ब्राह्मणानां परिभवः सादयेदपि देवताः । 002a
ब्राह्मणांस्तु नमस्कृत्य युधिष्ठिर न रिष्यते ॥ 002c
ते पूज्यास्ते नमस्कार्या वर्तेथास्तेषु पुत्रवत् । 003a
ते हि लोकानिमान्सर्वान्धारयन्ति मनीषिणः ॥ 003c
ब्राह्मणाः सर्वलोकानां महान्तो धर्मसेतवः ॥ 004a
धनत्यागाभिरामाश्च वाक्सङ्गमधुराश्च ये ॥ 004c
रमणीयाश्च भूतानां नियमेन धृतव्रताः । 005a
प्रणेतारश्च कोशानां शास्त्राणां च यशस्विनः ॥ 005c
तपो येषां धनं नित्यं वाक्चैव विपुलं बलम् । 006a
प्रसवाश्चैव धर्माणां धर्मज्ञाः सूक्ष्मदर्शिनः ॥ 006c
धर्मकामाः स्थिता धर्मे सुकृतैर्धर्मसेवतः । 007a
यान्समाश्रित्य तिष्ठन्ति प्रजाः सर्वाश्चतुर्विधाः ॥ 007c
पन्थानः सर्वनेतारो यज्ञवाहाः सनातनाः । 008a
पितृपैतामहीं गुर्वीमुद्वहन्ति धुरं सदा ॥ 008c
धुरि ये नावसीदन्ति विषमे सद्धया इव । 009a
पितृदेवातिथिमुखा हव्यकव्याग्रभोजिनः ॥ 009c
भोजनादेव लोकांस्त्रींस्त्रायन्ते महतो भयात् । 010a
दीपः सर्वस्य लोकस्य चक्षुश्चक्षुष्मतामपि ॥ 010c
सर्वशिल्पादिनिधयो निपुणाः सूक्ष्मदर्शिनः । 011a
गतिज्ञाः सर्वभूतानामध्यात्मगतिचिन्तकाः ॥ 011c
आदिमध्यावसानानां ज्ञातारश्छिन्नसंशयाः । 012a
परावरविशेषज्ञा गन्तारः परमां गतिम् ॥ 012c
विमुक्ता धूतपाप्मानो निर्द्वन्द्वा निष्परिग्रहाः । 013a
मानार्हा मानिता नित्यं ज्ञानविद्भिर्महात्मभिः ॥ 013c
चन्दने मलपङ्के च भोजनेऽभोजने समाः । 014a
समं येषां दुकूलं च शाणक्षौमाजिनानि च ॥ 014c
तिष्ठेयुरप्यभुञ्जाना बहूनि दिवसान्यपि । 015a
शोषयेयुश्च गात्राणि स्वाध्यायैः संयतेन्द्रियाः ॥ 015c
अदैवं दैवतं कुर्युर्दैवतं चाप्यदैवतम् । 016a
लोकानन्यान्सृजेयुस्ते लोकपालांश्च कोपिताः ॥ 016c
अपेयः सागरो येषामपि शापान्महात्मनाम् । 017a
येषां कोपाग्निरद्यापि दण्डके नोपशाम्यति ॥ 017c
देवानामपि ये देवाः कारणं कारणस्य च । 018a
प्रमाणस्य प्रमाणं च तस्मान्नाभिभवेद्बुधः ॥ 018c
तेषां वृद्धाश्च बालाश्च सर्वे सन्मार्गदर्शिनः । 019a
तपोविद्याविशेषात्तु मानयन्ति परस्परम् ॥ 019c
अविद्वान्ब्राह्मणो देवः पात्रं वै पावनं महत् । 020a
विद्वान्भूयस्तरो देवः पूर्णसागरसन्निभः ॥ 020c
अविद्वांश्चैव विद्वांश्च ब्राह्मणो दैवतं महत् । 021a
प्रणीतश्चाप्रणीतश्च यथाऽग्निर्दैवतं महत् ॥ 021c
श्मशाने ह्यपि तेजस्वी पावको नैव दुष्यति । 022a
हविर्यज्ञे च विधिवद्भूय एवाभिशोभते ॥ 022c
एवं यद्यप्यनिष्टेषु वर्तते सर्वकर्मसु । 023a
सर्वथा ब्राह्मणो मान्यो दैवतं विद्धि तत्परम् ॥ ॥ 023c

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि षट्पञ्चाशदधिकद्विशततमोऽध्यायः ॥ 256 ॥

13-256-1 किमाचारः कथं धर्मः कीदृशेषु न रिष्यते इति क.पाठः ॥ 13-256-16 अदैवं दैवतं कुर्युर्भस्म कुर्युश्च ते जगत् इति क.थ.पाठः ॥