अध्यायः 255

अथ दानधर्मपर्व ॥ 1 ॥

भीष्मेण युधिष्ठिरम्प्रति एकादशरुद्रद्वादशादित्यादीनां वसिष्ठादिमहर्षीणां राजर्ष्यादीनां च पृथक्पृथङ्नामनिर्देशपूर्वकं तत्तन्नामकीर्तनादेः सावित्रीजपादेश्च महाफलहेतुत्वाभिधानम् ॥ 1 ॥

युधिष्ठिर उवाच* । 001
पितामह महाप्राज्ञ सर्वशास्त्रविशारद । 001a
किं जप्यं जपतो नित्यं भवेद्धर्मफलं महत् ॥ 001c
प्रस्थाने वा प्रवेशे वा प्रवृत्ते वाऽपि कर्मणि । 002a
दैवे वा श्राद्धकाले वा किं जप्यं कर्मसाधनम् ॥ 002c
शान्तिकं पौष्टिकं रक्षा शत्रुघ्नं भयनाशनम् । 003a
जप्यं यद्ब्रह्म समितं तद्भवान्वक्तुमर्हति ॥ 003c
भीष्म उवाच । 004
व्यासप्रोक्तमिमं मन्त्रं शृणुष्वैकमना नृप । 004a
सावित्र्या विहितं दिव्यं सद्यः पावविमोचनम् ॥ 004c
शृणु मन्त्रविधिं कृत्स्नं प्रोच्यमानं मयाऽनघ । 005a
यं श्रुत्वा पाण्डवश्रेष्ठ सर्वपापैः प्रमुच्यते ॥ 005c
रात्रावहनि धर्मज्ञ जपन्पापैर्न लिप्यते । 006a
तत्तेऽहं सम्प्रवक्ष्यामि शृणुष्वैकमना नृप ॥ 006c
आयुष्मान्भवते चैव यं श्रुत्वा पार्थिवात्मज । 007a
पुरुषस्तु सुसिद्धार्थः प्रेत्य चेह च मोदते ॥ 007c
सेवितं सततं राजन्पुरा राजर्षिसत्तमैः । 008a
क्षत्रधर्मपैरर्नित्यं सत्यव्रतपरायणैः ॥ 008c
इदमाह्निकमव्यग्रं कुर्वद्भिर्नियतैः सदा । 009a
नृपैर्भरतशार्दूल प्राप्यते श्रीरनुत्तमा ॥ 009c
नमो वसिष्ठाय महाव्रताय पराशरं वेदनिधिं नमस्ते । 010a
नमोस्त्वनन्ताय महोरगाय नमोस्तु सिद्धेभ्य इहाक्षयेभ्यः ॥ 010c
नमोस्त्वृषिभ्यः परमं परेषां देवेषु देवं वरदं वराणाम् । 011a
सहस्रशीर्षाय नमः शिवाय सहस्रनामाय जनार्दनाय ॥ 011c
अजैकपादहिर्बुध्न्यः पिनाकी चापराजितः । 012a
ऋतश्च पितृरूपश्च त्र्यम्बकश्च महेश्वरः ॥ 012c
वृषाकपिश्च शम्भुश्च हवनोऽथेश्वरस्तथा । 013a
एकादशैते प्रथिता रुद्रास्त्रिभुवनेश्वराः ॥ 013c
शतमेतत्समाम्नातं शतरुद्रे महात्मनाम् ॥ 014ac
अंशो भगश्च मित्रश्च वरुणश्च जलेश्वरः । 015a
तथा धाताऽर्यमा चैव जयन्तो भास्करस्तथा ॥ 015c
त्वष्टा पूषा तथैवेन्द्रो द्वादशो विष्णुरुच्यते । 016a
इत्येते द्वादशादित्याः काश्यपेया इति श्रुतिः ॥ 016c
धरो ध्रुवश्च सोमश्च सावित्रोऽथानिलोऽनलः । 017a
प्रत्यूषश्च प्रभासश्च वसवोष्टौ प्रकीर्तिताः ॥ 017c
नासत्यश्चापि दस्रश्च स्मृतौ द्वावश्विनावपि । 018a
मार्तण्डस्यात्मजावेतौ सञ्ज्ञानासाविनिर्गतौ ॥ 018c
अतः परं प्रवक्ष्यामि लोकानां कर्मसाक्षिणः । 019a
अपि यज्ञस्य वेत्तारो दत्तस्य सुकृतस्य च ॥ 019c
अदृश्याः सर्वभूतेषु पश्यन्ति त्रिदशेश्वराः । 020a
शुभाशुभानि कर्माणि मृत्युः कालश्च सर्वशः ॥ 020c
विश्वेदेवाः पितृगणा मूर्तिमन्तस्तपोधनाः । 021a
मुनयश्चैव सिद्धाश्च तपोमोक्षपरायणाः । 021c
शुचिस्मिताः कीर्तयतां प्रयच्छन्ति शुभं नृणाम् ॥ 021e
प्रजापतिकृतानेतान्लोकान्दिव्येन तेजसा । 022a
वसन्ति सर्वलोकेषु प्रयताः सर्वकर्मसु ॥ 022c
प्राणानामीश्वरानेतान्कीर्तयन्प्रयतो नरः । 023a
धर्मार्थकामैर्विपुलैर्युज्यते सह नित्यशः ॥ 023c
लोकांश्च लभते पुण्यान्विश्वेश्वरकृताञ्शुभान् । 024a
एते देवास्त्रयस्त्रिंशत्सर्वभूतगणेश्वराः ॥ 024c
नन्दीश्वरो महाकायो ग्रामणीर्वृषभध्वजः । 025a
ईश्वराः सर्वलोकानां गणेश्वरविनायकाः ॥ 025c
सौम्या रौद्रा गणाश्चैव योगभूतगणास्तथा । 026a
ज्योतींषि सरितो व्योम सुपर्णः पतगेश्वरः ॥ 026c
पृथिव्यां तपसा सिद्धाः स्थावराश्च चराश्च ह । 027a
हिमवान्गिरयः सर्वे चत्वारश्च महार्णवाः ॥ 027c
भवस्यानुचराश्चैव हरतुल्यपराक्रमाः । 028a
विष्णुर्देवोथ जिष्णुश्च स्कन्दश्चाम्बिकया सह ॥ 028c
कीर्तयन्प्रयतः सर्वान्सर्वपापैः प्रमुच्यते । 029a
अत ऊर्ध्वं प्रवक्ष्यामि मानवानृषिसत्तमान् ॥ 029c
यवक्रीतश्च रैभ्यश्च अर्वावसुपरावसू । 030a
औशिजश्चैव कक्षीवान्बलश्चाङ्गिरसः सुतः ॥ 030c
ऋषिर्मेधातिथेः पुत्रः कण्वो बर्हिषदस्तथा । 031a
ब्रह्मतेजोमयाः सर्वे कीर्तिता लोकभावनाः ॥ 031c
लभन्ते हि शुभं सर्वे रुद्रानलवसुप्रभाः । 032a
भुवि कृत्वा शुभं कर्म मोदन्ते दिवि दैवतैः ॥ 032c
महेन्द्रगुरवः सप्त प्राचीं वै दिशमाश्रिताः । 033a
प्रयतः कीर्तयेदेताञ्शक्रलोके महीयते ॥ 033c
उन्मुचुः प्रमुचुश्चैव स्वस्त्यात्रेयश्च वीर्यवान् । 034a
दृढव्यश्चोर्ध्वबाहुश्च तृणसोमाङ्गिरास्तथा ॥ 034c
मित्रावरुणयोः पुत्रस्तथाऽगस्त्यः प्रतापवान् । 035a
धर्मराजर्त्विजः सप्त दक्षिणां दिशमाश्रिताः ॥ 035c
दृढेयुश्च ऋतेयुश्च परिव्याधश्च कीर्तिमान् । 036a
एकतश्च द्वितश्चैव त्रितश्चादित्यसन्निभाः ॥ 036c
अत्रेः पुत्रश्च धर्मात्मा ऋषिः सारस्वतस्तथा । 037a
वरुणस्यर्त्विजः सप्त पश्चिमां दिशमाश्रिताः ॥ 037c
अत्रिर्वसिष्ठो भगवान्कश्यपश्च महानृषिः । 038a
गौतमश्च भरद्वाजो विश्वामित्रोथ कौशिकः ॥ 038c
ऋचीकतनयश्चोग्रो जमदग्निः प्रतापवान् । 039a
धनेश्वरस्य गुरवः सप्तैते उत्तराश्रिताः ॥ 039c
अपरे मुनयः सप्त दिक्षु सर्वास्वधिष्ठिताः । 040a
कीर्तिस्वस्तिकरा नॄणां कीर्तिता लोकभावनाः ॥ 040c
धर्मः कामश्च कालश्च वसुर्वासुकिरेव च । 041a
अनन्तः कपिलश्चैव सप्तैते धरणीधराः ॥ 041c
रामो व्यासस्तथा द्रौणिरश्वत्थामा च लोमशः । 042a
इत्येते मुनयो दिव्या एकैकः सप्तसप्तधा ॥ 042c
शान्तिस्वस्तिकरा लोके दिशाम्पालाः प्रकीर्तिताः । 043a
यस्यांयस्यां दिशि ह्येते तन्मुखः शरणं व्रजेत् ॥ 043c
स्रष्टारः सर्वभूतानां कीर्तिता लोकपावनाः । 044a
संवर्तो मेरुसावर्णो मार्कण्डेयश्च धार्मिकः ॥ 044c
साङ्ख्ययोगौ नारदश्च दुर्वासाश्च महानृषिः । 045a
अत्यन्ततपसो दान्तास्त्रिषु लोकेषु विश्रुताः ॥ 045c
अपरे रुद्रसङ्काशाः कीर्तिता ब्रह्मलौकिकाः । 046a
अपुत्रो लभते पुत्रं दरिद्रो लभते धनम् ॥ 046c
तथा धर्मार्थकामेषु सिद्धिं च लभते नरः । 047a
पृथुं वैन्यं नृपवरं पृथ्वी यस्याभवत्सुता ॥ 047c
प्रजापतिं सार्वभौमं कीर्तयेद्वसुधाधिपम् । 048a
आदित्यवंशप्रभवं महेन्द्रसमविक्रमम् ॥ 048c
पुरूरवसमैलं च त्रिषु लोकेषु विश्रुतम् । 049a
बुधस्य दयितं पुत्रं कीर्तयेद्वसुधाधिपम् ॥ 049c
त्रिलोकविश्रुतं वीरं भरतं च प्रकीर्तयेत् । 050a
गवामयेन यज्ञेन येनेष्टं वै कृते युगे ॥ 050c
रन्तिदेवं महादेवं कीर्तयेत्परमद्युतिम् । 051a
विश्वजित्तपसोपेतं लक्षण्यं लोकपूजितम् ॥ 051c
तथा श्वेतं च राजर्षिं कीर्तयेत्परमुद्यतिम् । 052a
सगरस्यात्मजा येन प्लावितास्तारितास्तथा ॥ 052c
हुताशनसमानेतान्महारूपान्महौजसः । 053a
उग्रकायान्महासत्वान्कीर्तयेत्कीर्तिवर्धनान् ॥ 053c
देवानृषिगणांश्चैव नृपांश्च जगतीश्वरान् । 054a
साङ्ख्यं योगं च परमं हव्यं कव्यं तथैव च ॥ 054c
कीर्तितं परमं ब्रह्म सर्वश्रुतिपरायणम् । 055a
मङ्गल्यं सर्वभूतानां पवित्रं बहु कीर्तितम् ॥ 055c
व्याधिप्रशमनं श्रेष्ठं पौष्टिकं सर्वकर्मणाम् । 056a
प्रयतः कीर्तयेच्चैतान्कल्यं सायं च भारत ॥ 056c
एते वै यान्ति वर्षन्ति भान्ति वान्ति सृजन्ति च । 057a
एते विनायकाः श्रेष्ठा दक्षाः क्षान्ता जितेन्द्रियाः ॥ 057c
नराणामशुभं सर्वे व्यपोहन्ति प्रकीर्तिताः । 058a
साक्षिभूता महात्मानः पापस्य सुकृतस्य च ॥ 058c
एतान्वै कल्यमुत्थाय कीर्तयञ्शुभमश्नुते । 059a
नाग्निचोरभयं तस्य न मार्गप्रतिरोधनम् ॥ 059c
एतान्कीर्तयतां नित्यं दुःस्वप्नो नश्यते नृणाम् । 060a
मुच्यते सर्वपापेभ्यः स्वस्तिमांश्च गृहान्व्रजेत् ॥ 060c
दीक्षाकालेषु सर्वेषु यः पठेन्नियतो द्विजः । 061a
न्यायवानात्मनिरतः क्षान्तो दान्तोऽनसूयकः ॥ 061c
रोगार्तो व्याधियुक्तो वा पठन्पापात्प्रमुच्यते । 062a
वास्तुमध्ये तु पठतः कुले स्वस्त्ययनं भवेत् ॥ 062c
क्षेत्रमध्ये तु पठतः सर्वं सस्यं प्ररोहति । 063a
गच्छतः क्षेममध्वानं ग्रामान्तरगतः पठन् ॥ 063c
आत्मनश्च सुतानां च दाराणां च धनस्य च । 064a
बीजानामोषधीनां च रक्षामेतां प्रयोजयेत् ॥ 064c
एतान्सङ्ग्रामकाले तु पठतः क्षत्रियस्य तु । 065a
व्रजन्ति रिपवो नाशं क्षेमं च परिवर्तते ॥ 065c
एतान्दैवे च पित्र्ये च पठतः पुरुषस्य हि । 066a
भुञ्जते पितरः कव्यं हव्यं च त्रिदिवौकसः ॥ 066c
न व्याधिश्वापदभयं न द्विपान्न हि तस्करात् । 067a
कश्मलं लघुतां याति पाप्मना च प्रमुच्यते ॥ 067c
यानपात्रे च याने च प्रवासे राजवेश्मनि । 068a
परां सिद्धिमवाप्नोति सावित्रीं ह्युत्तमां पठन् ॥ 068c
न च राजभयं तेषां न पिशाचान्न राक्षसात् । 069a
नाग्न्यम्बुपवनव्यालाद्भयं तस्योपजायते ॥ 069c
चतुर्णामपि वर्णानामाश्रमस्य विशेषतः । 070a
करोति सततं शान्तिं सावित्रीमुत्तमां पठन् ॥ 070c
नाग्निर्दहति काष्ठानि सावित्री यत्र पठ्यते । 071a
न तत्र बालो म्रियते न च तिष्ठन्ति पन्नगाः ॥ 071c
न तेषां विद्यते दुःखं गच्छन्ति परमां गतिम् । 072a
ये शृण्वन्ति महद्ब्रह्म सावित्रीगुणकीर्तनम् ॥ 072c
गवां मध्ये तु पठतो गावोऽस्य बहुवत्सलाः । 073a
प्रस्थाने वा प्रवासे वा सर्वावस्थां गतः पठेत् ॥ 073c
जपतां जुह्वतां चैव नित्यं च प्रयतात्मनाम् । 074a
ऋषीणां परमं जप्यं गुह्यमेतन्नराधिप ॥ 074c
याथातथ्येन सिद्धस्य इतिहासं पुरातनम् । 075a
पराशरमतं दिव्यं शक्राय कथितं पुरा ॥ 075c
तदेतत्ते समाख्यातं तथ्यं ब्रह्म सनातनम् । 076a
हृदयं सर्वभूतानां श्रुतिरेषा सनातनी ॥ 076c
सोमादित्यान्वयाः सर्वे राघवाः कुरवस्तथा । 077a
पठन्ति शुचयो नित्यं सावित्रीं प्राणिनां गतिं ॥ 077c
अभ्यासे नित्यं देवानां सप्तर्षीणां ध्रुवस्य च । 078a
मोक्षणं सर्वकृच्छ्राणां मोचयत्यशुभात्सदा ॥ 078c
वृद्धैः काश्यपगौतमप्रभृतिभिर्भृग्वङ्गिरोत्र्यादिभिः शुक्रागस्त्यबृहस्पतिप्रभृतिभिर्ब्रह्मर्षिभिः सेवितम् । 079a
भारद्वाजमतं ऋचीकतनयैः प्राप्तं वसिष्ठात्पुनः सावित्रीमधिगम्य शक्रवसुभिः कृत्स्ना जिता दानवाः ॥ 079c
यो गोशतं कनकशृङ्गमयं ददाति विप्राय वेदविदुषे च बहुश्रुताय । 080a
दिव्यां च भारतकथां कथयेच्च नित्यं तुल्यं फलं भवति तस्य च तस्य चैव ॥ 080c
धर्मो विवर्धति भृगोः परिकीर्तनेन वीर्यं विवर्धति वसिष्ठनमोनतेन । 081a
सङ्ग्रामजिद्भवति चैव रघुं नमस्यन्स्यादश्विनौ च परिकीर्तयतो न रोगः ॥ 081c
एषा ते कथिता राजन्सावित्री ब्रह्मशाश्वती । 082a
विवक्षुरसि यच्चान्यत्तत्ते वक्ष्यामि भारत ॥ ॥ 082c

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि पञ्चपञ्चाशदधिकद्विशततमोऽध्यायः ॥ 255 ॥

13-255-1 *अयमध्यायः औत्तराहपाठ एव वर्तते । 13-255-4 विहितं इष्टसिद्ध्यर्थं जप्तम् ॥ 13-255-9 आह्निकं अहरहः कर्तव्यम् ॥ 13-255-11 वरदं नमस्ये इति शेषः ॥ 13-255-18 सञ्ज्ञाया अश्वारूपाया नासातः नासिकायाः सकाशाद्विनिर्गतौ ॥